पूर्वम्: ७।३।८५
अनन्तरम्: ७।३।८७
 
प्रथमावृत्तिः

सूत्रम्॥ पुगन्तलघूपधस्य च॥ ७।३।८६

पदच्छेदः॥ पुगन्तलघूपधस्य ६।१ ८७ सार्वधातुकार्धधातुकयोः ७।२ ८४ गुणः १।१ ८२ अङ्गस्य ६।१ ६।४।१

समासः॥

पुकि अन्तः पुगन्तः, सप्तमीतत्पुरुषः। लघ्वी च असौ उपधा च लघूपधा, कर्मधारयतत्पुरुषः। पुगन्तश्च लघूपधा च पुगन्तलघूपधं, तस्य ॰ समाहारद्वन्द्वः।

अर्थः॥

पुगन्तस्य अङ्गस्य लघूपधस्य च इकः सार्वधातुके आर्धधातुके च परतः गुणः भवति।

उदाहरणम्॥

पुगन्तस्य -- व्लेपयति, ह्रेपयति, क्नोपयति। लघूपधस्य -- भेदनम्, छेदनम्, भेत्ता, छेत्ता।
काशिका-वृत्तिः
पुगन्तलघूपधस्य च ७।३।८६

पुगन्तस्य अङ्गस्य लघूपधस्य च सार्वधातुकार्धधातुकयोर् गुणो भवति। पुगन्तस्य व्लेपयति। ह्रेपयति। क्नोपयति। लघूपधस्य भेदनम्। छेदनम्। भेत्ता। छेत्ता। प्रत्ययादेरङ्गावयवस्य च हलोरानन्तर्ये सति लग् हूपधगुणो न व्यावर्त्यते इति ज्ञापितम् एतत् क्नुसनोः कित्करणेन, त्रसिगृधिधृषिक्षिपेः क्नुः ३।२।१४०, हलन्ताच् च १।२।१० इति। संयोगे गुरुसंज्ञायां गुणो भेत्तुर् न सिध्यति। विध्यपेक्षं लघोश्च असौ कथं कुण्डिर् न दुष्यति। धातोनुमः कथं रञ्जेः स्यन्दिश्रन्थ्योर् निपातनात्। अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः। अभ्यस्तस्य यदाहाचि लङर्थं तत्कृतं भवेत्। क्नुसनोर् यत्कृतं कित्त्वं ज्ञापकं स्याल् लघोर् गणे। उपधा च अत्र इगेव गृह्यते, ततो भिनत्ति इति गुणो न भवति। अपरे पुकि अन्तः पुगन्तः, लघ्वी उपधा लघूपधा, पुगन्तश्च लघूपधा च पुगन्तलघूय्पधम् इति सूत्रार्थं वर्णयन्ति।
लघु-सिद्धान्त-कौमुदी
पुगन्तलघूपधस्य च ४५३, ७।३।८६

पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः। धात्वादेरिति सः। सेधति। षत्वम्। सिषेध॥
न्यासः
पुगन्तलघूपघस्य च। , ७।३।८६

पुगन्तस्याङ्गस्य, लघूपधस्य चेत्युभावपि बहुव्रीही--पुगन्तो यस्य तत्? तथोक्तम्(), लध्वी उपधा यस्य तल्लघूपधम्()। "भेत्ता, छेत्ता" इति। ननु च प्रत्ययादेर्हलोऽङ्गावयवस्य चानन्तर्ये सति "संयोगे गुरु" (१।४।११) इति गुरुसंज्ञया लघुसंज्ञायां वाधितायां गुणेनात्र न भवितव्यम्()? इत्यत आह--"प्रत्ययादेः" इत्यादि। "त्रसिगृधिधृषिक्षिपेः क्नुः" ३।२।१४०, "हलन्ताच्च" १।२।१० इति क्नुसनोः कित्करणस्यैतदेव प्रयोजनम्()--गृध्नुः, विभत्सतीत्यादौ गुणो मा भूदिति। यदि प्रत्ययादेर्हलोऽङ्गावयवस्य चानक्तर्ये सति लघूपधगुणो न स्यात्? तयोः कित्त्वं न कुर्यात्(), कृतञ्च, तस्मात्? क्नुसनो कित्त्वं कुर्वता--प्रत्ययाङ्गावयवयोर्हलोरानन्तर्येऽपि लघूपधगुणो न व्यावर्त्त्यत इति ज्ञापितमेतत्()। ननु च सनः कित्त्वं सिसृक्षतीत्यत्रामागमो मा भूदित्येवमर्थं स्यात्()? नैतदस्ति; यदि ह्रेतत्? प्रयोजनमभिमतं स्यात्? तत्रैवं प्रतिषेधं कुर्यात्()--सूजदृशोर्झल्यमकित्सनोरिति। तस्मात् सनः कित्करणं ज्ञापकमेव यद लघूपधल्यानेन गुणो विधीयते। एवं सति "इको गुणवृद्धी" १।१।३ इत्यस्या उपस्थाने सति यत्र तत्र स्थितस्येको गुणः प्रसज्येत, ततश्चेहापि प्राप्नोति--भिनत्तीति, भवति ह्रतर लघूपधमङ्गम्()। न च शक्यते वक्तुम्()--"हलोऽनन्तराः संयोगः" १।१।७ इति संयोगसंज्ञायां सत्यां लघूपधमेतन्न भवतीति गुणो न भविष्यतीति। यज्ज्ञापितमेतदिदाधीमेव--प्रत्ययादेरङ्गावयवसय च हलोरानन्तर्ये सति लघुपधगुणो न व्यावर्त्त्यत इति? अत आह--"उपधा चात्र" इत्यादि। इक्परिभाषया ह्रत्रकः सनिधापितत्वादिगेवोपधा गृह्रते, तेन भिनत्तीत्यत्र गुणो न भवति; न ह्रत्राङ्गस्येगुपधा, किं तर्हि? अकारः। "अपरे तु" इत्यादिओ। सूत्रार्थ वर्मयन्ती त वक्ष्यमाणेन सम्बन्धः। पुकि अन्तः पुगन्तः--"सप्तमी" (२।१।४०) इति योगविभागात्? समासः। अन्तशब्दोऽयमवयववचनः, पुकि परतोऽवयव इत्यर्थः। कस्यावयवः? "अङ्गस्य" इत्यनुवृत्तेः पुगिति वचनात्()पुगागमवतोऽङ्गस्य। न पुनः पुगन्त इक्परिभाषोपश्तानादिगेव वेदितव्यः। "लध्वी उपधा लघूपधा" इति। विशेषणसमासः। "पुगन्तलघूपधम्()" इति। समाहारद्वन्द्वोऽयम्()। "सूत्रार्थम्" इति। तूत्रार्थैकदेशे सूत्रार्थशब्दो वत्र्तते, न ह्रेतावानेव सूत्रार्थः, अपरिसमाप्तत्वात्()। अपरिसमाप्तिस्तु पुगन्तस्य तस्याश्च लघूपधाया गुणो भवतीत्यस्य सूत्रार्थस्यैकदेशस्यानभिधानात्()। "वर्णयन्ति" इति। व्याचक्षत इति। भिनत्तीत्यत्र गुणो मा भूदित्येवमर्थम्()। न ह्रत्र सूत्रार्थे भिनत्तीत्यत्र गुणः प्रसज्येत। बहुव्रीहौ ह्राश्रीयमाणेऽङ्गस्यान्यपदार्थस्य यो नाम कश्चिदिक्? तस्य यत्र तत्रावस्थितस्य गुणः प्रसज्येत। बहुव्रीहौ हयश्रीयमाणोऽङ्गसयान्यपदार्थस्य यो नाम कश्चिदिक्? तस्य यत्र तत्रावस्थितस्य गुणः प्रसज्येत। तत्पुरेषे तु नायं दोषः, तत्र हि लघूपधेग्भ्यामङ्गं विशिष्यते, अतस्तस्या एव गुणो विधीयते--अङ्गस्य या लघ#ऊपधा इक्? तस्या गुणो भवतीति। भिनत्तीत्यत्रयाऽङ्गस्य लघूपधा नासाविक्(), यश्चेक्? स यद्यपि लघुर्भवति लघुर्भवति न त्वस्योपधा। तस्मात्? तत्पुरुष आश्रीयमाणे नेह गुणस्य प्रसङ्गः। सार्वधातुकार्धधातुकयोरित्येव--"अगनिचित्त्वम्(), अग्निचितकाम्यति"। पुगन्तग्रहणं लघूपधार्थम्()॥
बाल-मनोरमा
पुगन्तलघुपधस्य च ३८, ७।३।८६

तथा च भावित्-- आ इति स्थिते--पुगन्तलघु। "मिदेर्गुण" इत्यतो गुण इत्यनुवर्तते। अङ्गस्येत्यधिकृतमवयवषष्ठ()न्तमाश्रीयते। पुगन्तलघूपधस्येति तद्विशेषणम्। पुक् अन्तो यस्य तत् पुगन्तं। लघ्वी उपधा यस्य तल्लघूपधं। पुगन्तं च लघूपधं चेति समाहारद्वन्द्वात् षष्ठी। "इको गुणवृद्धी" इति परिभाषया "इक" इत्युपस्थितं स्थानषष्ठ()न्तमाश्रीयते। तदाह--पुगन्तस्येत्यादिना। अङ्गस्येक इति। अङ्गावयवस्येत्यर्थः। द्वेष्टि द्वेष्टत्याद्युदाहरणम्। नन्वत्राऽङ्गावयवस्येकस्तदुपरितनहला व्यवधानात्सार्वधातुकपरत्वाऽभावात्कथमिह इको गुण इत्यत आह--येन नेति। येन = स्थान्युत्तरवर्णेन परनिमित्तस्य , नाऽव्यवधानं = व्यवधानमवर्जनीयमिति यावत्, तेन = वर्णेन व्यवहितेऽपि परनिमित्तं कार्यं भवतीत्यर्थः। कुत इत्यत आह-- वचनप्रामाण्यादिति। तथाविधवर्णव्यवधानेऽपि कार्यप्रवृत्तौ वचनारम्भस्यैव प्रमाणत्वादित्यर्थः। लघूपधस्य हीको गुणो विधियते, उपधात्वं चाऽन्त्यादलः पूर्वस्यैव भवति। ततश्चेक उपर्यन्त्यस्य वर्णस्याऽभावे इक उपधात्वाऽभावाल्लघूपधस्याऽङ्गस्य गुणविधानं निर्विषयमेव स्यादतस्तद्व्यवधानं सोढव्यमिति भावः। ननु व्यवहितस्यापीको गुणप्रवृत्त्यभ्युपगमे भिनत्ति छिनत्तीत्यादौ इकारस्यापि गुणः स्यादित्यत आह---तेनेति। अवर्जनीयव्यवधनास्यैवाश्रयमेनेत्यर्थः। उपधात्वस्यैकमेव वर्णमुपरितनमादाय सम्भवादनेकवर्णव्यवधानं नादर्तव्यमिति भावः। गुणे प्राप्त इति। भवित् - आ इति स्थिते डाभावसंपन्नस्याऽ‌ऽकारस्य स्थानिवत्त्वेन सार्वधातुकतया तस्मिन् परे भविदित्यङ्गावयवस्योपधाभूतस्येकारस्य गुणे प्राप्ते सतीत्यर्थः। न च भूधातोर्विहितं सार्वधातुकं प्रति भूधातुरेवाऽङ्गं, न तु भवित् इति विकरणविशिष्टमिति वाच्यम्, अङ्गसंज्ञासूत्रे तदादिग्रहणेन विकरणविशिष्टस्याऽप्यङ्गत्वात्।

तत्त्व-बोधिनी
पुगन्तलघूपधस्य च ३०, ७।३।८६

अनेकव्यवहितस्येति। सार्वधातुकादिकमिको विशेषणं न त्वङ्गस्येति भावः॥