पूर्वम्: ७।३।९०
अनन्तरम्: ७।३।९२
 
सूत्रम्
गुणोऽपृक्ते॥ ७।३।९१
काशिका-वृत्तिः
गुणो ऽपृक्तो ७।३।९१

ऊर्णोतेर् धातोः अपृक्ते हलि पिति सार्वधातुके गुणो भवति। प्रोर्णोत्। प्रोर्णोः। हलि इति वर्तमाने यदपृक्तग्रहणं क्रियते, तेन एव ज्ञाप्यते भवत्येषा परिभाषा यस्मिन् विधिस् तदादावल्ग्रहणे इति।
लघु-सिद्धान्त-कौमुदी
गुणोऽपृक्ते ६०५, ७।३।९१

ऊर्णोतेर्गुणोऽपृक्ते हलादौ पिति सार्वधातुके। वृद्ध्यपवादः। और्णोतु। और्णोः। ऊर्णुयात्। ऊर्णुयाः। ऊर्णुवीत। ऊर्णूयात्। ऊर्णुविषीष्ट, ऊर्णविषीष्ट॥
न्यासः
गुणोऽपृक्ते। , ७।३।९१

विभाषेति निवृत्तम्()। पूर्वेण प्राप्तायाः पाक्षिक्या वृद्धेरयमपवादः। ननु हलत्यनुवत्र्तत एव, तत्र सामथ्र्यादपृक्त एव भविष्यतीति न तदादी, न हि हलादिसमुदायो हल्? भवति, तत्किमपृक्तग्रहणेन इत्यत आह--"हलीत्यनुवत्र्तमाने" इत्यादि। अपुक्तग्रहणं ह्रेवमर्थं क्रियते--हलीत्यनुवृत्तेस्तदादौ मा भूदिति। यदि चेयं परिभाषा न स्यात्(), अपृक्तग्रहणमनर्थकत्वान्न कुर्यात्()। हल्युचयमानो गुणः कः प्रसङ्गो यस्तदादावपि स्यात्()? नैव प्राप्नोति; तस्या हलात्मकत्वात्()। कृतञ्चेदमपृक्तग्रहणम्(), अतस्तोनास्तीयं परिभाषेति ज्ञाप्यते। अथ "नापृक्ते" इत्येवं कस्मान्नोक्तम्(), किं गुणग्रहणेन, वृद्धौ प्रतिषिद्धायामुत्सर्गेण गुणेनैव सिध्यति? नैतदस्ति; अन्तरोक्ताया विभाषायाः प्रतिषेधो विज्ञायेत, तथा च नित्यं वृद्धिः स्यात्()॥
बाल-मनोरमा
गुणोऽपृक्ते २७९, ७।३।९१

गुणोऽपृक्ते। "ऊर्णोतेविभाषे"त्यत ऊर्णोतेरिति, "नाभ्यस्तस्ये"त्यतः पिति सार्वधातुके इति, "उतो वृद्धि"रित्यतो हलीति चानुवर्तते। तदाह-- ऊर्णोतेरित्यादि। वृद्ध्यपवाद इति। "ऊर्णोतेर्विभाषे"ति वृद्धिविकल्पस्यापवाद इत्यर्थः। ऊर्णुयादित्यत्र "विभाषोर्णो"रिति वृद्धिविकल्पमाशङ्क्याह-- इह वृद्धिर्नेति। भाष्यादिति। तथा च यासुटो ङित्त्वेन पित्त्वाऽभावान्न वृद्धिविकल्प इति भावः। नचैवं सति गुणनिषेधोऽपि न स्यादिति शङ्क्यं, विशेषविहितेन यासुटो ङित्त्वेन "ङिच्च पिन्ने"ति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाध इति "यु मिश्रणे" इति धातावेवोक्तत्वादिति भावः। परस्मैपदे आशीर्लिङ्याह-- ऊर्णूयादिति। "अकृत्सार्वधातुकयो"रिति दीर्घः। ऊर्णूयास्तामित्यादि। आत्मनेपदे लिड()आह-- ऊर्णविषीष्ट ऊर्णुविषीष्टेति। "विभाषोर्णो"रिति ङित्त्वविकल्प इति भावः। लुङि परस्मैपदे और्णु--ईदिति स्थिते "विभाषोर्णो"रिति ङित्त्वपक्षे गुणाऽभावे उवङि रूपमाह-- और्णुवीदिति। ङित्त्वाऽभावपक्षे गुणे नित्यं प्राप्ते।

तत्त्व-बोधिनी
गुणोऽपृक्ते २४४, ७।३।९१

गुणोऽपृक्ते। "नाभ्यस्तस्याची"त्यतः "पिति सार्वधातुके" इति, "उतो वृद्धिर्लुकि हली" त्यतो हलीति चानुवर्तते। तदाह--- हलादावित्यादि।