पूर्वम्: ७।३।९३
अनन्तरम्: ७।३।९५
 
सूत्रम्
यङो वा॥ ७।३।९४
काशिका-वृत्तिः
यङो वा ७।३।९४

यङः उत्तरस्य हलादेः पितः सार्वधातुकस्य ईडागमो भवति वा। शाकुनिको लालपीति। दुन्दुभिर् वावदीति। त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आ विवेश। न च भवति। वर्वर्ति, चर्कर्ति चक्रम्। हलादेः पितः सार्वधातुकस्य यङन्तादभावः इति यङ्लुगन्तस्य उदाहरणम्।
लघु-सिद्धान्त-कौमुदी
यङो वा ७२२, ७।३।९४

यङ्लुगन्तात्परस्य हलादेः पितः सार्वधातुकस्येड् वा स्यात्। भूसुवोरिति गुणनिषेधो यङ्लुकि भाषायां न, बोभोतु, तेतिक्ते इति छन्दसि निपातनात्। बोभवीति, बोभोति। बोभूतः। अदभ्यस्तात्। बोभुवति। बोभवाञ्चकार, बोभवामास। बोभविता। बोभविष्यति। बोभवीतु, बोभोतु, बोभूतात्। बोभूताम्। बोभुवतु। बोभूहि। बोभवानि। अबोभवीत्, अबोभोत्। अबोभूताम्। अबोभवुः। बोभूयात्। बोभूयाताम्। बोभूयुः। बोभूयात्। बोभूयास्ताम्। बोभूयासुः। गातिस्थेति सिचो लुक्। यङो वेतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक्। अबोभूवीत्, अबोभोत्। अबोभूताम्। अबोभूवुः। अबोभविष्यत्॥ ।
लघु-सिद्धान्त-कौमुदी
इति यङ्लुक् प्रक्रिया ७२२, ७।३।९४

लघु-सिद्धान्त-कौमुदी
अथ नामधातवः ७२२, ७।३।९४

न्यासः
यङो वा। , ७।३।९४

"लालपीति" इत्यादि। लपिवदिरौतिभ्यो यङ्; पूर्वयोः "दीर्घोऽकितः" ७।४।८३ इत्यभ्यासस्य दीर्घः, रौतेस्तु "गुणो यङ्लुकोः" ७।४।८२ इति गुणः, "यङोऽचि च" २।४।७४ इति यङो लुक्()। "वर्वर्त्ति, चर्कत्ति" इति। वृञ्कृञोर्यङ्लुकि "ऋतश्च" ७।२।९२ इत्यभ्यासस्य रुगागमः। किं पुनः कारणं यङ्लुक्येवोदाह्यियते, न यङन्ते? इत्याह--"हलादेः" इत्यादि। यङन्ते हि ङित्त्वादात्मनेपदम्(), न चात्मनेपदं हलादि पिदस्ति। हलादेः पितः परस्य सार्वधातुकस्याभावान्नेह यङन्तस्योदाहरणम्(), किं तर्हि? यङ्लुगन्तस्य। तत्र हि हलादि पित्? सार्वधातुकं सम्भवति, यङ्लुगन्तस्यादादौ "चर्करीतञ्च परस्मैभावम्()" इति पाठे सति परस्मैपदित्वात्(), तेन यङ्लृक्येवोदाह्यियते। चर्करीतमिति यङ्लुगन्तसय पूर्वाचारयसंज्ञा॥
तत्त्व-बोधिनी
यङो वा ४१०, ७।३।९४

यङो वा। "नाभ्यस्तस्याची"ति सूत्रात्पिति सार्वधातुक इति,"उतो वृद्धि"रित्यतो हलीति चानुवर्तते, "ब्राउव ई"डित्यत ईडिति च। तदेतदाह-- यङन्तादित्यादि। यङो लुक्यपि प्रत्ययलक्षणेनाऽत्र यङन्तत्वम्। एतेन यङन्ताद्धलादिपित्सार्वधातुकं न संभवतीति यङ्शब्देन यङ्लुगन्तं लक्ष्यत इति व्याख्यानं परास्तम्। उक्तरीत्या यङन्तत्वानपायात्। किं च यङन्ताद्वलादिपिन्न संभवतीति यङ्शब्देन यङ्लुगन्ते लक्षितेऽपि "सन्यङो"रिति द्वित्वस्य यङन्ते चरितार्थतया यङ्लुगन्तलक्षणायां बीजाऽभावाद्यङ्लुकि द्वित्वाऽभावप्रसङ्गादिति दिक्। छन्दसि निपातनादिति। गुणनिषेधे सिद्धे निपातनमिदं "छन्दस्येव गुणनिषेधो नाऽन्यत्रे"ति नियमार्थमित्यर्थः। बोभूत्विति। समुदायस्याऽतिरिक्तत्वात् "भूसुवो"रिति गुणनिषेधो न प्राप्नोतीति निपातनमिदं न नियमार्थमित्याशङ्कायामाह-- न चेत्। द्विः प्रयोग इति। तथा च प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणमित्येतन्न्यायसिद्धं, नाऽपूर्वं वचनमिति बावः। बोभुवतीति। "अदभ्यस्ता"दित्यत्। बोभूवीदिति। केचिदिह "भुवो वुगि"ति सूत्रे "ओः सुपी"त्यत ओरित्यनुवर्तते। तथा च उवर्णान्तस्य भुवो वुगित्यर्थाद्गुणे कृते वुकः प्राप्तिर्न#आस्तीत्यनित्यो वुक्। स च पराभ्यां गुणवृद्धिभ्यां बाध्यते। तेनाऽबोभवी"दिति रूपमाहुः। तच्चिन्त्यम्। "भुवो वुको नित्यत्वा"दिति भाष्याग्रन्थविरोधात्। तस्माद्वुको नित्यत्वमाश्रित्य "इन्धिभवतिभ्यां चे"ति सूत्रं प्रत्याख्यातवतो भाष्यकृत ओरित्यनुवर्तनसंमतमेव। "आत" इति नियमाज्जुसभावमाशङ्क्याह--अभ्यस्ताश्रय इति। अयं भावः-- "सिजभ्यस्ते" ति सूत्रेण सिचः परत्वमाश्रित्य यो जुस् प्राप्तस्तस्यैवाऽयं नियमो न त्वभ्यस्ताश्रयस्य जुस इति। "जुसि चे"ति गुणमाशङ्क्याह--- नित्यत्वाद्वुगिति। अबोभूविरिति। न चाऽत्र परत्वात् "अदभ्यस्ता"दित्यदादेशः स्यादिति वाच्यम्, अभ्यस्ताश्रयजुसोऽदादेशाऽपवादत्वात्। पास्पर्धीतीति। स्पर्ध संघर्षे। "दीर्घोऽकितः" इत्यभ्यासस्यदीर्घः। "यङो वे"ति ईड्विकल्पः। ईडभापक्षे "झषस्तथो"रिति धत्वं, "झरो झरि सवर्णे" इति वा धलोपः। लिटि-- पास्पर्धाचकार। लुट-- पास्पर्धिता। लृटि-- पास्पर्द्धिष्यति। लोटि पास्पर्धीतु। पास्पर्द्धु। पास्पर्धात्। पास्पर्धाम्। पास्पर्धतु। पास्पद्र्धीति। हेर्धित्वे वा धलोपः। लङि इडागमपक्षे-- अपास्पर्धीत्। रुत्वपक्षे इति। पक्षान्तरे तु अपास्पत्। अपास्दद्र्ध। लिङि-- पास्पध्र्यात्। पास्पध्र्याताम्। पास्पध्र्यास्ताम्। लुङि-- "अस्तिसिचोऽपृक्ते" इति नित्यमीट्। "इट ईटी"ति सलोपः। अपास्पर्धीति। अपास्पर्द्धिष्टाम्। अपास्पर्धिषुः। लृङि--- अपास्पर्धिष्यत्। जागाद्धीति। गाधृ प्रतिष्ठादौ। ईट्पक्षे तु जागाधीति। जाघात्सीति "एकाच" इति भष्भावः। धस्य चत्र्वम्। लोटि-- जागाधीतु। जागाद्धु। जागाद्धाम्। जागाधतु। लङि-- अजगाधीत्। अजाघात्। अजागाद्धाम्। अजागाधुः। लुङि-- अजागाधीत्। अजागाधिष्टाम्। नाथ नाधृ याच्ञादौ। नानात्तीति। ईट्पक्षे -- दादधीति। लुङि "अतो हलादे"रिति वा वृद्धिः। चोस्कुन्दीति। स्कुदि। आप्रवणे। "इदितः" इति नुम्। ईडभावे "झरो झरि सवर्णे" इति वा लोपः। लङि--ईट्पक्षे--अचोस्कुन्दीत्। लुङि तु "अस्तिसिचः" इति नित्यमिट्। अचोस्कुन्दीत्। अचोस्कुन्दिष्टाम्। मोमुदीतीति। मुद हर्षे। "नाभ्यस्तस्याऽची"ति लघूपधगुणनिषेधः। मोमोदितेति। न चाऽत्र "न धातुलोप" इति गुणनिषेधः शङ्क्यः, बहुलग्रहणेन प्राप्तस्य यङ्लुकोऽनैमित्तिकत्वात्। लुङि गुण इति। सिज्निमित्तकोऽयं गुणस्तेन "नाभ्यस्तस्याची"ति निषेधो न शङ्कनीय इति भावः। चोकूर्तीति। कुर्द खुर्द गुर्द गुद क्रीडायाम्। लङि तिपि ईट्पक्षे अचोकूर्दीत्। अचोखूर्दीत्। अचोगूर्दीत्। पक्षे अचोकूरिति। "दश्चे"ति रुत्वपक्षे इत्यर्थः। वनीवञ्चीतीति। वञ्च गतौ। "नित्यं कौटिल्ये गतौ" इति यङ्। "नीग्वञ्चु" इत्यभ्यासस्य नीगागमः। यङो लुका लुप्तत्वान्न तदाश्रितो नलोपः। वनीवक्त इति। तसो ङित्त्वदिह स्यादेव "अनिदिता"मिति नलोपः। लोटि-- वनीवञ्चीतु। वनीवङ्क्तु। वनीवक्तात्। वनीवक्ताम्। वनीवचतु। वनीवग्धि। वनीवञ्चानि। जह्गमीतीति। "नुगतोऽनुनासिकान्तस्ये"ति नुक्। जङ्ग्मतीति। "गमहने"त्युपधालोपः। अजङ्गन्निति। ईट्पक्षे त्वजङ्गमीत्। अजङ्गताम्। अजङ्ग्मुः। अजङ्गमीः। अजङ्गतम्। अजङ्गत। अजङ्गमम्। अजङ्गन्व। अजङ्गम। सामन्यापेक्षेति। अयं भावः-- एकाच इत्यत्रैकाज्ग्रहणाद्यङ्लुकि द्विर्वचनं न कुत्रापि प्राप्नोति, तथा च "गुणो यङ्लुको" इत्यभ्यासस्य विधीयमानो गुणो द्विर्वचनं विनानिवेशमलभमानः सन् "श्तिपा शपा" इति सर्वेषामपि निषेधानां क्वचिद्यङलुक्यप्रवृतिं()त ज्ञापयतीति। तथा च प्रयुज्यते-- "राजा वृत्रं जङ्घनत्" इत्यादि। द्वित्वं तु न भवतीति। वध्यात् अवधीदित्यत्र कृतद्विर्वचनस्य "हनो वध लिङि", "लुङि च" इति वधादेशात्पुनर्द्वित्वं न भवतीत्यर्थः। तत्र हेतुमाह-- स्थानिवत्त्वेनेति। आङ्पूर्वादिति। प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणादिति भावः। चञ्चूर्तीति। चरतिर्गतौ भक्षणे च। "चरफलोश्च" इत्यभ्यासस्य नुक्। "उतपरस्याऽतः" इत्युत्वम्। "हलि च" इति दीर्घः। अचञ्चूरित्यत्र तु पदान्तविषयत्वात् "र्वोरुपधायाः" इति दीर्घः। चङ्खनीतीति। खनु अवदारणे। चङ्खात इति। यत्तु केचिद्धातुग्रहणेन कृतं कार्यं यङ्लुकि वेति "जनसने"त्यात्वाऽभावे "अनुनासिकस्य क्विझलोः" इति दीर्घोऽपि न भवति। क्विप्साहर्याद्धि झलादिः कृदेव तत्र गृह्रते न तु तिङित्यभ्युपेत्य चङ्खन्त इति रूपमाहुः, तदयुक्तम्। धातुग्रहणेन कृतस्य यङ्लुक्यप्रवृत्तौ मानाऽभावात्। सत्यपि प्रमाणे आत्वं वेति विकल्पोत्तया चङ्खात इति रूपं केन वार्यताम्। यच्चोक्तम् "अनुनासिकस्य" इति सूत्रे क्विप्साहचर्याद्धि झलादिरपि कृदेव गृह्रत इति, तदप्युक्तमेव। यदि हि कृदेव क्विप्स्यात्तदा साहचर्योक्तिः सङ्गच्छेत। किं तु कृद्भिन्नोऽप्यस्त्येवाचारक्विप्। अतएव राजानति चर्माणतीत्यादौ माधवादिभिः क्विनिमित्तो दीर्घ उक्तः। चङ्खाहीति। हेरपित्त्वेन ङित्वात् "जनसने" त्यात्वम्। अचङ्खानीदिति। "अतो हलादेः" इति वा वृद्धिः। जाहेतीत्यादि। हाङ्हाकोस्तुल्यानि र#ऊपाणि, ङित्त्वप्रयुक्तस्यात्मनेपदस्य यङ्लुक्यप्रवृत्तेः। "भृञामित्" इति हाङ इत्त्वस्य श्लुनिमित्ताभ्यासस्यैव विहितत्वाच्च। नच अकितैति निषेधेन हाकोऽभ्यासस्य दीर्घो दुर्लभ इति कथमुभयोस्तुल्यरूपतेति शङ्क्यम्, अकित इत्यत्र हि न विद्यते किद्य्सयाभ्यासस्येति बहुव्रीहिराश्रीयते, तेन "द्विः प्रयोगो द्विर्वचनं षाष्ठम्" इत्यस्याऽभ्युपगमाद्धातोः कित्त्वे अभ्यासस्य कित्त्वेऽपि वनीवञ्चीतीत्यादाविव कित्त्वाऽभावान्न दोषः। किंच द्वित्वाऽभावे केवलस्यार्थवत्त्वेऽपि द्वित्वे सति समुदाय एवार्थवानिति हि सर्वसंमतम्। तथा कित्त्वमपि समुदायस्यैवास्तु न तु प्रत्यवयवमिति नास्त्येव दीर्घे प्रतिबन्धः। जाहीयादिति। "ई हल्यघोः" इतीत्वम्। लुका लुप्त इति। सर्वविधिभ्यो लुग्विधेर्बलीयस्त्वात्। अकृतव्यूहपरिभाषया च लुकः पूर्वं न शङ्क्यमेवेति भावः। उत्वं नेति। फलितार्थकथनमिदम्। "स्वपिस्यमि" इत्यादिना विधीयमानं यत्संप्रसारणं तन्नेत्यर्थः। असास्वापीदिति। "अतो हलादेः"-- इति विकल्पेन वृद्धिः।