पूर्वम्: ७।३।११९
अनन्तरम्: ७।४।२
 
सूत्रम्
णौ चङ्युपधाया ह्रस्वः॥ ७।४।१
काशिका-वृत्तिः
णौ चङ्युपधाया ह्रस्वः ७।४।१

अङ्गस्य इति वर्तते। चङ्परे णौ यदङ्गम्, तस्य उपधाया ह्रस्वो भवति। अचीकरत्। अजीहरत्। अलीलवत्। अपीपवत्। अत्र द्विर्वचनोपधाह्रस्वत्वयोः प्राप्तयोः परत्वादुपधाह्रस्वत्वम्, तत्र कृते द्विर्वचनम्। इह तु मा भवानटिटतिति नित्यत्वाद् द्वितीयस्य द्विर्वचनं प्राप्नोति, तथा सति ह्रस्वभाविनो ऽङ्गस्य अकारस्य उपधात्वं विहितम् इति ह्रस्वो न स्यात्? नैष दोषः। ओणेः ऋदित् करणं ज्ञापकं नित्यम् अपि द्विर्वचनम् उपधाह्रस्वत्वेन बाध्यते इति। णौ इति किम्? चङ्युपधाया ह्रस्वः इत्युच्यमाने अलीलवतित्यत्र वचनसामर्थ्यातन्तरङ्गाम् अपि वृद्धिम् आदेशं च बाधित्वा ह्रस्वः स्यात्। अदीदपतित्यत्र ह्रस्वत्वेन पुको बाधः स्यात्। अपीपचतित्येवम् आदौतु नैव स्यात्। चङि इति किम्? कारयति। हारयति। उपधाया इति किम्? अचकाङ्क्षत्। अववाञ्छत्। तदेददुपधाग्रहणम् उत्तरार्थम् अवश्यं कर्तव्यं तदिह अपि ह्रस्वत्वं निवर्तयति इत्येवम् अर्थं येन न अव्यवधानम् इत्येतन्नाश्रयितव्यम् इति। उपधाह्रस्वत्वे णेर्णिच्युपसङ्ख्यानम्। वदित्वन्तं प्रयोजितवानवीवदत् वीणां परिवादकेन। यो ऽसौ णौ णिलोपस्तस्य स्थानिवद्भावेन अग्लोपित्वातङ्गस्य ह्रस्वो न प्राप्नोति। ण्याकृतिनिर्देशात् सिद्धम्।
लघु-सिद्धान्त-कौमुदी
णौ चङ्युपधाया ह्रस्वः ५३२, ७।४।१

चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात्॥
न्यासः
णौ चड�उपधाया ह्वस्वः। , ७।४।१

"चङ्परे णौ परतः" इति। चङ्? परो यस्माण्णेरिति स तथोक्तः। "अचीकरत्()" इत्यादि। कृञ्(), ह्मञ्, लूञ्(), पञित्येतेभ्यो हेतुमण्णिच्(), ततो लुङ्(), च्लिः,"णिश्रि" ३।१।४८ इत्यादिना च्लेश्चङ्(), "णेरनिटि" ६।४।५१ इति णिलोपः। अत्र द्विर्वचनोपधाह्यस्वत्वयोः प्राप्तयोः परत्वादुपधाह्यस्वत्वम्(), ततो द्विर्वचनम्(), ततश्च णौ कृतं सथानिवद्भवतीति कृ, ह्म--इत्यादिकमविकृतधातुरूपमेव द्विरुच्यते। अत्र कृ, ह्म--इत्येतयोरभ्यासस्य "उरत्()" ७।४।६६ इत्यत्त्वे कृते रपरत्वे हलादिशेषे च ततश्च "सब्वल्लधुनि" ७।४।९३ इत्यादिना सन्वद्भावादित्त्वम्()। पू, लू--इत्येतयोरपि ह्यस्वत्वे कृते "ओः पुयण्ज्यपरे" ७।४।८० इतीत्त्वम्()। सर्वत्र "दीर्घो लघोः" ७।४।९४ इति दीर्घत्वम्()। "अत्र द्विर्वचनोपधाह्यस्वत्वयोः प्राप्तयोः" इत्यादि। अचीकरवित्यादिषूदाहरणेषु कृताकृतप्रसङ्गित्वाद्()द्विर्वचनं नित्यमुपधाह्यस्वत्वमपि, तयोरुभयोः परत्वादुपधाह्यस्वत्वं भवति, तत्र कृते द्विर्वचनम्()--इत्येष कार्याणां प्रवृत्तिक्रमः। मा भवानटिटदित्यत्र तु द्विर्वचनमेव नित्यम्(), न ह्यस्वत्वं तु द्वितीयस्यै काचो द्विर्वचने कृते न प्राप्नोति; परेण टिशब्दरूपेण व्यवधानात्()। तस्मान्मा भवानटिटदित्यत्र नित्यत्वाद्()द्वितीयस्यैकाचो द्विर्वचनं प्रप्नोति। द्विर्वचने हि सति को दोषः स्यात्()? इत्यत आह--"तथा च सति" इत्यादि। एवञ्च द्विर्वचने कृते चङ्परे णौ यदङ्गं तस्य ह्यस्वभाव्याकार उपधा भवति। असति च ह्यस्वत्वे मा भवानटिटदिति रूपं न सिध्यति। मायोग आण्निवृत्त्यर्थः। आटि तु सति नास्ति विशेषः। सत्यसति वा ह्यस्वत्वे "आटश्च" ६।१।८७ इति वृद्ध्या भवितव्यमिति। भवच्छब्दः सन्देहनिरासार्थः। "नैष दोषः" इति। योऽनन्तरोक्तः स कथं लभ्यते? इत्याह--"ओणेॠदित्करणम्()" इत्यादि। "ओणृ अपनयने" (धा।पा।४५४) इत्येतस्य ऋदित्करणस्यैतत्प्रयोजनम्()--ऋदित्त्वान्नाग्लोपि ७।४।२ इत्यादिना ह्यस्वप्रतिषेधो यथा स्यादिति। यदि च नित्यमपि द्विर्वचनमुपधाह्यस्वत्वेन न बाध्यते, तदौणैॠदित्करणमनर्थकं स्यात्()। द्विर्वचने हि कृते परेण णिशब्दरूपेण व्यवधानादेव ह्यस्वो न भविष्यति, किमोणेॠदित्करणेनेति? आचार्यप्रवृत्तिज्र्ञापयति--नित्यमपि द्विर्वचनमुपधाह्यस्वत्वेन बाध्यत इति; यत ओणेॠदत्करणं करोति। "णाविति किम्()" इति। एवं मन्यते--णिग्रहणे चाकृते लुङ्चङादेशयोः कृतयोर्णिलोपे चाकृते वृद्ध्यावादेशयोश्चाकृतयोः, अलू इ+अत्? इति स्थित ऊकरस्य ह्यस्वो मा भूदत्येवमर्थं वा णिग्रहणं क्रियते? ऊकारस्य वृद्धौ कृतायामौकारसय ह्यस्वो मा भूदित्येवमर्थं वा? एतच्चोभयमप्रयोजनम्(); अत्रान्तरङ्गत्वाद्वृद्ध्यावादेशाभ्यामेव भवितव्यम्()। अन्तरङ्गत्वं पुनस्तयोर्णिज्मात्राश्रयत्वात्(); ह्यस्वस्य च बहिरङ्गत्वं चङाश्रयत्वादिति। "चङ्युपधाया ह्यस्व इत्युच्यमाने" इत्यादि। एतावत्युच्यमानेऽसति णिग्रहणे चङ्परे यदङ्गं तस्योपधाया ह्यस्वो भवतीत्येवमर्थः स्यात्()। तथा चानवकाशो ह्यस्वोऽलीलवदित्यत्रान्तरङ्गामपि वृदिं()ध बाधित्वा वचनसामथ्र्यादृकारस्यैव स्यात्()। अथापि कथञ्चिद्? वृद्धिर्न बाध्यते; एवमपि वृद्धौ कृतायामन्तरङ्गमप्यावादेशं बाधित्वौकारस्यैव प्रसज्येत; अन्यथा हि वचनमिदमनर्थकं स्यात्()। "अदीदपत्()" इति। अत्र ददातेर्णिचि लुङि चङि च कृते अ दा इ+अत्? इति स्थिते वचनप्रामाण्यादनवकाशो ह्यस्वोऽन्तरङ्गमपि पुकं बाधित्वा प्रसज्येत, तसमिंश्च सति पुग्()विहतनिमित्तत्वान्न स्यात्()। "अपीपचदित्यादौ तु नैव ह्यस्वः स्यात्()" इति। चङि परत#ओ यदङ्गं पाचिप्रभृति तदीयाया उपधायाश्चाकारादेरह्यस्वभाविनीत्वात्()। आदिशब्दोऽपीपठदित्यादिपरिग्रहार्थः। तस्माण्णाविति वक्तव्यम्()। "चङीति किम्()" इति। एषोऽभिप्रायः--केवले णौ ह्यस्वो मा भूदित्येवमर्थं चङीत्युच्यते; नैतच्चङग्रहणस्य प्रयोजनमुपपद्यते; यस्मादाचार्यप्रवृत्तिज्र्ञापयति--णावेव केवले ह्यस्वत्वं न भवतीति, यदयम्? "मितां ह्यस्वः" ६।४।९२ इति ह्यस्वत्वं शास्ति। ततः कारयति, हारयतीत्यादौ न भविष्यतीत्यभिप्रायः। यद्येतस्माज्ज्ञापकात्? कारयतीत्यादौ ह्यस्वो न भवति, तदाऽचीकरदित्यत्रापि न स्यात्()। अथात्र वचनसामथ्र्याद्भविष्यति? एवमपि कारयतीत्यादौ स्यादेव। न हि "मितां ह्यस्वः" ६।४।९२ इत्युचयमाने सत्यचीकरदित्यादौ न भवतीत्येव विषयविभागः शक्यते विज्ञातुम्()। तस्मात्? चङ्ग्रहणं कत्र्तव्यम्()। "उपधाग्रहणं किम्()" इति। एवं मन्यते--अलोऽन्त्यस्य मा भूदित्येवमर्थमुपधाग्रहणं क्रियते, एतच्चाप्रयोजनम्(); चङ्परे णौ यदङ्गं तस्याचीकरदित्यादावपि णावन्तरङ्गत्वाद्? वृद्ध्यादिषु कृतेषु ह्यस्वभाव्यजन्त्यो न सम्भवति यत्राजन्ताण्णिजुत्पद्यते, किं पुनरपपठवित्यादौ यत्र हलन्ताण्णिजुत्पद्यते! तस्मादजन्त्यो ह्यस्वभावो नास्तीत्यन्तरेणाप्युपधाग्रहणं वचनादनव्त्यस्यैवोपधाभूतस्य ह्यस्वो भविष्यतीति। "अचकाङ्क्षत्(), अववाञ्छत्()" इति। "क्राक्षि वाक्षि माक्षि काङ्क्षायाम्()" (धा।पा।६६७,६६८,६६९)। यद्यप्यजन्तो ह्यस्वभावी नास्ति, तथापि वचनादनन्त्यस्याचोकरदित्यादौ यथा भवति, तथा अचकाङ्क्षदित्यादावपि स्यात्()। तस्मान्मा भूदेष दोष इत्युपधाग्रहणं क्रियत इत्यभिप्रायः। ननु चाङ्गस्य योऽच्? तस्य चङ्परे णौ ह्यस्वो विधीयते, तत्र यद्यप्यनन्तरोऽज्? न सम्भवति, तथापि "येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्()" (व्या।प।४६) इत्येकेन वर्णेनेति येन नाव्यवधानम्(), अपि तु सर्वदा व्यवधानमेव; तेन व्यवहितेऽपि वचनप्रामाण्याद्भवितव्यम्()। एकेनैव वर्णेन व्यवधानं सर्वत्र सम्भवति। सङ्घातेन तु व्यवधानं सम्भवति, न सम्भवति च। इहाचकाङ्क्षदित्यादौ सङ्घातेनैव व्यवधानम्(), अतो नास्त्येव ह्यस्वप्रसङ्ग इति किमुधाग्रहणेन? इत्याह--"तदेतत्()" इत्यादि। उपधाग्रहणमवश्यमुत्तरार्थं कत्र्तव्यम्()। इह तु क्रियमाणे सत्यचकाङ्क्षदित्येवमर्थम्? "येन नाव्यवधानम्()" (व्या।प।४६) इत्येषा परिभाषा नाश्रयितव्या भवति। उपधाग्रणेनैवात्र ह्यस्वस्य निवर्त्तितत्वादित्येष गुणो लभ्यते। तेनेहैव कृतम्(), नोत्ररत्र। "उपधाह्यस्वत्वे णेर्णिचयुपसंख्यानम्()" इति। चङ्परे णौ परतो यो णिस्तस्मिन्? परतोऽङ्गस्योपधापा ह्यस्वः उपसंख्येयः। "अवीवदत्()" इति। वदेः "हेतुमति च" ३।१।२६ इति णिच्(), तदन्ताद्वादितवन्तं प्रयोजितवानिति पुनः "हेतुमति च" ३।१।२६ इति णिच्, ततो लुङादिः,"णेरनिटि" ६।४।५१ इति णिलोपः। किं पुनः कारण न सिध्यति, यावता णिलोपे कृते चङ्परे णावङ्गस्याकारो ह्यस्वभाविन्युपधा भवत्येव? इत्याह--"योऽसो" इत्यादि। "अचः परस्मिन्? पूर्वविधौ" (१।१।५७) अपि णिलोपस्य ह्यस्वत्वे कत्र्तव्ये स्थानिवद्भावाण्णिजव्यवधानाद्? ह्यस्वो न प्राप्नोति। तेन वा णिलोपेनाग्लोप्यङ्गमेतद्भवति--तदेतस्माद्धेतोर्न हरसवत्वं प्राप्नोति। अग्लोपीत्यादिनानन्तरवक्ष्यमणिप्रतिषेधात्? (७।४।४) "ण्याकृतिनिदशात्? सिद्धम्()" इत्युपसंख्यानं प्रत्याचष्टे--"णौ इति। ण्याकृतिरिति णिजातिर्निर्देशयते, न तु णिव्यक्तिः। तेन व्यक्तौ व्यवधानं न भवति, न हि जातौ; एकत्वाण्णिजातेः। न हि तयैव तस्या व्यवधानमुपपद्यते। ननु चोत्तरया ण्याकृत्या जात्याधारभूतया णिव्यक्त्या णिजात्याश्रयेऽपि व्यवधानमुपपद्यत एव? नैतत्(); तस्यामपि व्यक्तौ जातेः समवायात्()। एवं तादद्व्यवधान#ं ण्याकृत्याश्रये नास्ति। अग्लोपित्वमपि नास्त्येव; न ह्रत्र णिजातिव्यतिरेकेणाऽन्योऽग्विद्यते, यस्य लोपेनाग्लोप्यङ्गं स्यात्()। न च ण्याकृतेर्लोपश्च; तस्याः श्रूयमाणत्वात्। न हि श्रूयमाणाया लोपे लपपद्यते; "अदर्शनं लोप" १।१।५९ इति वचनात्()। ननु च जातिव्यतिरेकेणापि तदाश्रयभूता व्यकतिरग्विद्यत एव; न जातिव्यक्त्योरनन्यत्वमिति सांख्योयसिद्धान्तस्येहाश्रयणात्()। अथ वा--ण्याकृतिनिर्देशे सत्युपधाह्यस्वत्वस्य ण्याकृतनिमित्तत्वेना श्रोयते। तेन गोबलीवरदन्यायेन तस्या ण्याकृतेर्निमित्तत्वेनोपात्ताया अन्यस्याको लोपः प्रतिषेधनिमित्तत्वेन विज्ञायते, स चेह नास्ति। तस्माण्ण्याकृतिनिर्देशात्? सिद्धम्()॥
बाल-मनोरमा
णौ चङ्युपधाया ह्यस्वः १५५, ७।४।१

णौ चङि। अङ्गाधिकारादाह-- यदङ्गमिति। उपधायाः किम्?। अचकाङ्क्षत्। चङि किम्?। कारयति। णौ किम्?। "चह्रुपधाया ह्यस्व"इत्युच्यमाने अदीदपदित्यत्र दाधातोण्र्यन्ताल्लुङि चङि दा इ अ त् इति स्थिते आकारस्य ह्यस्वे सति पुङ्न स्यात्। णावित्युक्तौ तु आकारस्य णौ परत उपधात्वाऽभावान् ह्यस्वः। "द्विर्वचनेऽची"ति निषेधस्तु न शङ्क्यः, द्वित्वनिमित्तचङ उपधया व्यवहितत्वात्। तथा च प्रकृते कम् अ त इति स्थितम्। चङि। "एकाचो द्वे प्रथमस्ये"ति "अजादेर्द्वितीयस्ये"ति चाधिकृतम्। "लिटि धातोरनभ्यासस्ये"ति सूत्रं लिटीति वर्जमनुवर्तते। तदाह--चङि पर इत्यादिना। तथा च कमित्यस्य द्वित्वे हलादिशेषे क कम् अ त इति स्थितम्।

तत्त्व-बोधिनी
णौ चङ्युपधाया ह्यस्वः १२९, ७।४।१

उपधायाः किम्?। अचकाङ्क्षत्।