पूर्वम्: ७।४।१०
अनन्तरम्: ७।४।१२
 
सूत्रम्
ऋच्छत्यॄताम्॥ ७।४।११
काशिका-वृत्तिः
ऋच्छत्यृऋताम् ७।४।११

ऋच्छतेरङ्गस्य, ऋ इत्येतस्य, ऋ̄कारान्तानां च लिटि परतो गुणो न भवति। ऋच्छ आनर्च्छ, आनर्च्छतुः, आनर्च्छुः। ऋ आरतुः, आरुः। ऋ̄कारान्तानाम् निचकरतुः, निचकरुः। निजगरतुः, निजगरुः। ऋच्छेरलघूपधत्वादप्राप्तो गुणो विधीयते, ऋ̄तां तु प्रतिषिद्धः। वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेव इष्यते। निचकार। निजगार।
लघु-सिद्धान्त-कौमुदी
ऋच्छत्यॄताम् ६१७, ७।४।११

तौदादिक ऋच्छेर् ऋधातोर् ॠतां च गुणो लिटि। पपरतुः। पपरुः॥
न्यासः
ऋच्छत्यताम्?। , ७।४।११

"ऋच्छ गतीन्द्रियप्रलयमूर्त्तिभावेषु" (धा।पा।१२९६)। अत्र्तेरप्यत्र प्रश्लेषः; बहुवचननिर्देशात्()। अत एवाह--"ऋच्छतेरङ्गस्य, ऋ इत्येतस्य, ऋकारान्तानां च" इति। ऋकारान्ताः--"कृ विक्षेपे" (धा।पा।१४०९), "गृ? निगरणे" (धा।पा।१४१०) इत्येमादयः। "आनच्र्छतुः, आनर्च्छुः" इत्यादि। अतुसुसौ, गुणः, द्विर्वचनम्(), अभ्यासकार्यं पूर्ववत्(), "अत आदेः" ७।४।७० इति दीर्घः, "तस्मान्नुड्? द्विहलः" ७।४।७१ इति नुट्। "आरतुः" आरुः" इति। पूर्ववदभ्यासस्य दीर्घः, ततः पूर्वसवर्णेनेति। "ऋच्छतेरलघूपधत्वात्()" इत्यादि। अलघूपघत्वं तु तस्यान्तरङ्गत्वात्()। "छे च" ६।१।७१ इति तुकि कृते "संयोगे गुरु" १।४।११ इति गुरुसंज्ञायां सत्यां गुरूपधत्वान्न प्राप्नोतीति वेदितव्यम्()। "ऋतां तु" इत्यादि। ऋ ऋतां तु प्रतिषिद्ध एवेति गुणो विधीयत इत्यपेक्ष्यते। गुणप्रतिषेधस्तु तेषां "असंयोगास्लिट्? कित्()" १।२।५ इति कित्त्वे सति "क्ङिति च" १।१।५ इत्यनेन वेदितव्यः। "वृद्धिविषये तु" इत्यादि। यथा "ऋतश्च संयोगावेः" ७।४।१० इति वृद्धिविषये पूर्वविप्रतिषेधेन वृद्धिरेवेध्यते, तथा ऋऋतामपीति। गुणस्यावकाशः--निचकरतुः, निचकरुरिति; वृद्धेरवकाशः--कारकः, हारक इति; निचकार, निजगारेत्यत्र वृद्धिविषये पूर्वविप्रतिषेधेन वृद्धिरेवेध्यते॥
बाल-मनोरमा
ऋच्छत्यृ?ताम् २२०, ७।४।११

ननु ऋ अतुस् इति स्थिते द्वित्वे उदरत्त्वे रपरत्वे हलादिशेषे "अत आदे"रिति दीर्घे आ ऋ अतुस्? इति स्थिते "असंयोगा"दिति कित्त्वादुत्तरखण्डस्य गुणाऽभावे यणं बाधित्वा परत्वाद्गुणे अरतुरिति स्यादित्यतस्तत्र गुणविधानमाह-- ऋच्छत्यृ()ताम्। "दयतेर्दिगि लिटी"त्यतो लिटीति," ऋतश्च संयोगादेर्गुण" इत्यतो गुण इति चानुवर्तते। ऋच्छति ऋ ऋत् एषां द्वन्द्वाद्बहुवचनम्। बहुवचनादेव ऋकारप्रश्लेषो गम्यते। प्रश्लिष्टेन च ऋकारेण ऋधातुरेव गृह्रते, ऋवर्णान्तधातुग्रहणे "ऋतश्च संयोगादेर्गुणः" इत्यस्य वैयथ्र्यात्। "ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु" इति तौदादिकस्य "ऋच्छती"त श्तिपा निर्देशः। भौवादिकस्य धातोस्तु ऋग्रहणेनैव सिद्धेः। तदाह-- तौदादिकस्येत्यादिना। किदर्थमपीदं सूत्रं परतवादकित्यपि भवति। णलि प्राग्वदिति। "ह्व कौटिल्ये" इत्यत्र उक्त्या रीत्या कित्सु चरितार्थोऽप्ययं गुणः "अचो ञ्णिती"ति वृद्ध्यपेक्षया परत्वाण्णल्यपि भवति, ततो रपरत्वे उपधावृद्धिरित्यर्थः। आरेति। ऋधातोर्लिटि तिपो णलि द्वित्वे उरदत्त्वे हलादिशेषे "अत आदे"रिति दीर्घे उत्तरखण्डस्य वृद्धौ रपरत्वे सवर्णदीर्घ इति भावः। आरतुरिति। पूर्ववद्द्वित्वादौ आ ऋ अतुसिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्ते "ऋच्छत्यृ()ता"मिति गुणे रपरत्वे सवर्णदीर्घ इति भावः। आरुरित्यप्येवम्।

तत्त्व-बोधिनी
ऋच्छत्यृताम् १९२, ७।४।११

प्राग्वदिति। किदर्थमारब्धोऽपि गुणः परत्वाण्णल्यपि भवति। रपरत्वम्। तत उपधावृद्धिरित्यर्थः।