पूर्वम्: ७।४।१२
अनन्तरम्: ७।४।१४
 
सूत्रम्
केऽणः॥ ७।४।१३
काशिका-वृत्तिः
के ऽणः ७।४।१३

के प्रत्यये परतो ऽणो ह्रस्वो भवति। ज्ञका कुमारिका। किशोरिका। अणः इति किम्? गोका। नौका। राका, धाका इत्यत्र उणादयो बहुलम् ३।३।१ इति ह्रस्वो न भवति। न कपि ७।४।१४ इति प्रतिषेधसामर्थ्यात् कनो ऽपि सानुबन्धकस्य ग्रहणम् इह भवति।
न्यासः
केऽणः। , ७।४।१३

अणिति पूर्वेम णकारेण प्रत्याहारग्रहणम्(); अन्यथा "केऽचः" इत्येवं ब्राऊयात्()। अथ वा--अच इत्येतदपि न ब्राऊयात्(), अच एव हि हरस्वदीर्घल्पुता भवन्ति। "ज्ञका" इति। जानातीति ज्ञा, "इगुपधज्ञाप्रीकिरः कः" ३।१।१३५, तदन्ताट्टाप। अज्ञाता ज्ञेति "प्रागिवास्? कः" ५।३।७०। अथ वा--अनुकम्पिता ज्ञेति "अनुकम्पायाम्()" (५।३।७६) इति कन्? कनि कृते तदन्ताट्टाप्()। अथेह कस्मान्न भवति--"कृदाधारार्चिकलभ्यः कन्()" (द।उ।३।१८) इति रातेर्दधातेश्च कन्(), तदन्ताट्टाप्()--"राका, धाका" इत्यादि। सुबोधम्()। निरनुबन्धस्येह ग्रहणान्निरनुबन्धकपरिभाषया कनो ग्रहणेन न [नास्ति--मुद्रिते] भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्त्तुमाह--"न कपि" इत्यादि। यद्येषा परिभाषोपतिष्टते, तदा "न कपि" ७।४।१४ इति प्रतिषेधोऽनर्थकः स्यात्()। सानुबन्धकत्वादेव कपो ग्रहणं ग्रहणं न भविष्यतीत्यभिप्रायः॥
बाल-मनोरमा
केऽणः ८२४, ७।४।१३

केऽणः। ह्यस्वः स्यादिति। "शृ()दृ()प्रा"मित्यतस्तदनुवृत्तेरिति भावः।