पूर्वम्: ७।४।१३
अनन्तरम्: ७।४।१५
 
सूत्रम्
न कपि॥ ७।४।१४
काशिका-वृत्तिः
न कपि ७।४।१४

कपि प्रत्यये परतो ऽणो ह्रस्वो न भवति। बहुकुमारीकः। बहुवधूकः। बहुलक्ष्मीकः। गोस्त्रियोरुपसर्जनस्य १।२।४८ इत्ययम् अपि ह्रस्वः कपि न भवति। समासार्थे हि उत्तरपदे कपि कृते, पश्चात् कबन्तेन सह समासेन भवितव्यम् इति स्त्रीप्रत्ययान्तसमासप्रातिपदिकं न भवति।
न्यासः
न कपि। , ७।४।१४

"बहुकुमारीकः" इति। बह्व्यः कुमार्यो यस्य सः। "नद्यृतश्च" ५।४।१५६ इति कप्(); अनुबन्धलोपः। अथात्रास्मिन्? ह्यस्वत्वे प्रतिषिद्ध उपसर्जनह्यस्वत्वं कस्मान्न भवति? अत #एव प्रतिषेधान्न भविष्यतीति चेत्()? न; "अनन्तरस्य विधिरावा प्रतिषेधो वा" (व्या।प।१९) इत्यनन्तरस्यैव ह्यस्वस्य ह्रयं प्रतिषेधो न सर्वस्य। कपीति वचनसामथ्र्यादुपसर्जनह्यस्वत्वमिति न भविष्यतीति चेत्()? यत्र ह्रुपसर्जनह्यस्वत्वस्य प्राप्तिरस्ति, "गोस्त्रियोरुपसर्जनस्य" १।२।४८ इति ह्यस्वशासने स्त्रीशब्देन स्त्र्यधिकारविहितानां प्रत्ययानां टाबादीनां ग्रहणात्()। तस्माद्बहुकुमारीक इत्यत्रोपसर्जनस्य ह्यस्वत्वेन भवितव्यमित्यत आह--"गोस्त्रियोरुपसर्जनस्य" इत्यादि। कस्मान्न भवति? इत्याह--"समासार्थे हि" इत्यादि। उपसर्जनह्यस्वत्वं हि स्त्रीप्रत्ययान्तस्य समासप्रातिपदिकसय विधीयते, तद्धिधाने "ह्यस्वो नपुंसके प्रातिपदिकस्य" १।२।४७ इत्यतः प्रातिपदिकग्रहणानुवृत्तेः समासप्रातिपदिकस्यैव स्त्रीप्रत्ययान्तस्योपसर्जनह्यस्वः स्यात्()। न च बहुकुमारीक इत्यादौ स्त्रीप्रत्ययान्तं समासप्रातिपदिसं भवति; यस्मात्? "समासान्ताः" ५।४।६८ इत्यधिकार एवायां कब्विधीयते। "समासान्ताः" इत्यत्रान्तग्रहणस्यैतत्? प्रयोजनम्()--समासस्यान्तोऽवचयो यथा स्यादिति, स च कथं समासस्यावयवो भवति? यदि तेन सह समाससंज्ञा भवति। कथञ्च तेन समाससंज्ञा भवति? यद्यकृते समासे समासार्थादुत्तरपदात्? कब्भवति, पश्चात्? कदन्तेन समासो भवति, नान्यथा। तस्मात्? समासान्ताधिकारे कपो विधानात्? समासार्थादुत्तरपदात्? कपि कृते पश्चात्? समासेन भवितव्यम्()। ततश्च स्त्रीपरत्ययान्तमिह समासपरातपदेकं न भवतीति न भवत्युपसर्जनह्यस्वत्वम्()।
बाल-मनोरमा
न कपि ८२५, ७।४।१४

न कपि। अणो ह्यस्व इति।"केऽणः" इत्यतः, "शृ()दृ()प्रा"मित्यतश्च तदनुवृत्तेरिति भावः। ननु "कल्याणपञ्चमीकः पक्ष" इत्यत्र पञ्चदशाहोरात्रात्मके पक्षेऽन्यपदार्थे पञ्चम्या रात्रेः प्रवेशात्प्राधान्यं दुर्वारमित्यत आह--अत्र तिरोहितेति। रात्रे तत्प्रवेशाऽभावादप्राधान्यमिति भावः। भाष्ये एवमुदाहरणेवात्र लिङ्गम्। ऋदन्तोत्तरपदात्कपमुदाहरति--बहुकर्तृक इति। बहवः कर्तरो यस्येति विग्रहः। तदेवमपूरणीप्रियादिषित्यत्र पूरणीविषयं प्रपञ्च्य प्रियादिषु परेषु पुंवद्भावनिषेधस्य प्रयोजनं पृच्छति--अप्रियादिषु किमिति। कल्याणीप्रिय इति। कल्याणी प्रिया यस्येति विग्रहः। प्रियादिगणं पठति--प्रिया मनोज्ञेत्यादि।

ननु भक्तिशब्दस्य प्रियादिषु पाठे दृढा भक्तिर्यस्य स दृढभक्तिरित्यत्र कथं पुंवत्त्वमित्यत आह--सामान्ये नपुंसकमिति। "आश्रित्ये"ति शेषः। दृढमिति। पदसंस्कारपक्षे सामान्यपरतच्वमाश्रित्य दृढशब्दो नपुंसकलिङ्गो व्युत्पाद्यः, ततस्तस्य भक्तिशब्देनान्वये पूर्वप्रवृत्तं नपुंसकत्वं नापैति, लिङ्गविशेषस्याऽविवक्षितत्वात्, "वेदाः प्रमाण"मितिवत्। अत्र चार्थे पस्फशाह्निकभाष्ये "शक्यं चानेन ()आमांसादिभिरपि क्षुत्प्रतिहन्तु"मिति प्रयोगो लिङ्गम्। नन्वेवं सति प्रियादिषु भक्तिशब्दपाठो व्यर्थ इत्यत आह--स्त्रीत्वविवक्षायां त्विति। वाक्यसंस्कारपक्षे विशेष्यानुसारेण स्त्रीत्वप्रतीतेर्नियमादिति भावः।