पूर्वम्: ७।४।१४
अनन्तरम्: ७।४।१६
 
सूत्रम्
आपोऽन्यतरस्याम्॥ ७।४।१५
काशिका-वृत्तिः
अपो ऽन्यतरस्याम् ७।४।१५

आबन्तस्याङ्गस्य कपि ह्रस्वः न भवत्यन्तरस्याम्। बहुखट्वाकः, बहुखट्वकः। बहुमाल कः बहुमालकः।
न्यासः
आपोऽन्यतरस्याम्?। , ७।४।१५

"बहुखट्वाकः" इति। "शेषाद्विभाषा" ५।४।१५४ इति कप्()॥
बाल-मनोरमा
आपोऽन्यतरस्याम् ८८३, ७।४।१५

आपोऽन्यतरस्याम्। कपीति। "न कपी"त्यतस्तदनुवृत्तेरिति भावः। आबन्तस्येति। प्रत्ययग्रहणपरिभाषया लब्धमिदम्। ह्यस्वो वेति। "शृ()द्दृप्रां ह्यस्वो वा" इत्यतस्तदनुवृत्तेरिति भावः। "न कपी"ति नित्यं निषेधे प्राप्ते विकल्पार्थमिदं वचनम्। बहुवमालाक इति। बह्व्यो माला यस्येति विग्रहः। ह्यस्वपक्षे "बहुलमालक" इति भावति। कपो वौकल्पिकत्वात् पक्षे बहुमालः। सर्वत्र "स्त्रियाःपुंवदि"ति पुंवत्त्वम्।