पूर्वम्: ७।४।१७
अनन्तरम्: ७।४।१९
 
सूत्रम्
श्वयतेरः॥ ७।४।१८
काशिका-वृत्तिः
श्वयतेरः ७।४।१८

श्वयतेः अङ्गस्य अकारादेशो भवति अङि परतः। अश्वत्, अश्वताम्, अश्वन्।
न्यासः
�आयतेरः। , ७।४।१८

"अ()आत्()" इति। "टु ओ()इआ गतिवृद्ध्योः" (धा।पा।१०१०)। "जृ()स्तम्भुभ्रुचु" ३।२।५८ इत्यादिनाङ् द्वयोरकारयोः पररूपत्वम्()॥
बाल-मनोरमा
�आयतेरः १२५९, ७।४।१८

()आयतेरः। ()आयतेः-- अ इति च्छेदः। ()आयतेरिति श्तिपा निर्देशः। ()इआधातोरित्यर्थः। "अलोऽन्त्यस्ये"त्यन्त्यस्य इकारस्येति लभ्यते। "ऋदृशोऽङो" इत्यतोऽङीत्यनुवर्तते। तदाह--()आयतेरिकारस्येति। अ()आ अ त् इति स्थिते सवर्णदीर्घमाशङ्क्याह--पररूपमिति। आद्र्धधातुकोपदेशे अदन्तत्वाऽभावान्न अल्लोपः। अ()आन्निति। अ()आः अ()आतम् अ()आत। अ()आम् अ()आआव अ()आआम। अङभावपक्षे त्वाह--विभाषेति। इयङिति। "चङी"ति द्वित्वमित्यपि ज्ञेयम्। तदाह--अशि()इआयदिति। अङश्चङश्चाऽभावे तु अ()इआ ईत् इति स्थिते इकारस्य सिचि वृद्धौ सत्यामायादेशे अ()आआयीदित प्राप्ते आह-- ह्म्यन्तेति न वृद्धिरिति। ()इआग्रहणादिति भावः। न च "नेटी"त्येव सिचि अ()इआ ईत् इति स्तिते सिचि वृद्ध्यपेक्षया परत्वादन्तरङ्गत्वाच्च इकारस्य गुणे एकारे कृते इगन्तत्वाऽभावेन सिचि वृद्ध्यप्राप्त्या अयादेशे कृते यान्तत्वादेव हलन्तलक्षणवृद्धेर्निषेधसिद्धेः "ह्म्यन्ते"त्यत्र ()इआग्रहणं व्यर्तमिति व्याच्यम्, अनवकाशतया अपवादत्वेन गुणं बाधित्वा सिचि वृद्धेः प्राप्तौ तन्निषेधार्थत्वादित्यलम्। वृदित्यस्य व्याख्यानम्-- यजादयो वृत्ता इति। ननु भ्वादयो वृत्ता इति कुतो न व्याख्यायते इत्यत आह-- भ्वादिस्त्वाकृतिगण इति। चुलुम्पतीति। चुलुम्पधातुर्लोपार्थकः, तस्यापि भ्वादिगणे पाठाच्छब्विकरणत्वमिति भावः। इति भ्वादय इति। नचैवं सति "अद भक्षणे" इत्यादीनां वक्ष्यमाणानां धातुत्वं क्थमिति शङ्क्यं, शब्विकरणा भ्वादयः समाप्ता इत्यर्थात्।

इति बालमनोरमायां भ्वादयः।

अथ चातुरर्थिक प्रकरणम्।

-------------------

तत्त्व-बोधिनी
�आयतेरः १२६४, ७।४।१८

()आयतेरः। अलोऽन्त्यपरिभाषालभ्यमाह-- इकारस्येति। पररूपमिति। अतो लोपस्तु न भवति, "आद्र्धधातुकोपदेशे यदकारान्त" मिति व्याख्यातत्वात्। इयङिति॥ लघूपधगुणापेक्षयाऽन्तरङ्गत्वादिति भावः। अ()आयीदिति। नन्विहान्तरङ्गत्वाद्गुणायादेशयोः कृतयोर्यान्तत्वादेव वृद्धिनिषेधो भवेदिति किमनेन णि()इआग्रहणेनेति। चेत्। अत्राहुः--- "न सिच्यन्तरङ्गमस्ती"ति ज्ञापनार्थं णि()इआग्रहणम्। तेन चिरिणोतिजिरिणोत्योर्यङ्लुगन्तानां चिनीप्रभृतीनां च सिचि बहिरङ्गा वृद्धिरेव भवति। अचिरायीत्। अजिरायीत्। अचेचायीत्। अनेनायीदिति। तेनेति। उक्तं च वार्तिककृता-- "कास्यनेकाज्घणं चुलुम्पाद्यर्थ"मिति। चुलुम्पतीति। लुम्पतीत्यर्थः, चुलुम्प लोपे इति कविकल्पद्रुमे उक्तत्वात्। इति तत्त्वबोधिन्यां भ्वादयः।