पूर्वम्: ७।४।१९
अनन्तरम्: ७।४।२१
 
सूत्रम्
वच उम्॥ ७।४।२०
काशिका-वृत्तिः
वच उम् ७।४।२०

वचेः अङ्गस्य अङि परतः उमागमो भवति। अवोचत्, अवोचताम्, अवोचन्।
लघु-सिद्धान्त-कौमुदी
वच उम् ६०१, ७।४।२०

अङि परे। अवोचत्, अवोचत। अवक्ष्यत्, अवक्ष्यत। (ग। सू।) चर्करीतं च। चर्करीतमिति यङ्लुगन्तस्य संज्ञा, तददादौ बोध्यम्॥ ऊर्णुञ् आच्छादने॥ २५॥
न्यासः
वच उम्?। , ७।४।२०

"अवोचत्()" इति। "वच परिभाषणे" (धा।पा।१८४२), "अस्यतिक्तिख्यातिभ्यः" ३।१।५२ इत्यादिनाङ्()। मकारसय तदेव प्रयोजनम्()॥
बाल-मनोरमा
वच उम् २८५, ७।४।२०

वच उम्। शेषपूरणेन सूत्रं व्याचष्टे--- अङि परे इति। "ऋदृशोऽङी त्यतस्तदनुवृत्तेरिति भावः। मित्त्वादन्त्यादचः परः। आद्गुणः। तदाह-- अवोचदिति। अवक्ष्यत् अवक्ष्यत। इङ् त्विति। "इङ् अध्ययने" इति धातुस्तु ङित्त्वादात्मनेपदीत्यर्थः। इण्गताविति। "इणो य"णित्यादौ विशेषणार्थो णकारः। एतीति। शपो लुकि तिपः पित्त्वेन ङित्त्वाऽभावाद्()गुणः। इत इति। अपित्त्वेन ङित्त्वान्न गुणः। इ--अन्तीत्यत्र ङित्त्वाद्गुणाऽभावे इयङि प्राप्ते---