यकारादौ क्ङिति प्रत्यये परतः शीङः अङ्गस्य अयङित्ययम् आदेशो भवति। श्य्यते। शाशय्यते। प्रशय्य। उपशय्य। यि इति किम्? शिश्ये। क्ङिति इति किम्? शेयम्।
"शय्यते" इति। "सार्वधातुके यक्()"
३।१।६७। "शाशय्यते" इति यङ्(),
परत्वान्नित्यत्वाच्च द्विर्वचनात्? प्रागयङादेशः, ततः शय्येत्यस्य द्विर्वचनम्(), "दीर्घोऽकितः"
७।४।८३ इत्यभ्याससय दीर्घत्वम्()। "प्रशय्य" इति। "समानकर्तृकयोः पूर्वकाले क्त्वा"
३।४।२१, "कुगतिप्रादयः"
२।२।१८ इति समासः, "समासेऽनञ्पूर्वे क्त्वो ल्यप्()"
७।१।३७ "येम्()" इति। "ञचो यत्()"
३।१।९७। "शय्या" [नास्ति--काशिकायाम्()] इति। "सज्ञायां समजनि"
३।३।९९ इत्यादिना क्यप्()॥