पूर्वम्: ७।४।२६
अनन्तरम्: ७।४।२८
 
सूत्रम्
रीङ् ऋतः॥ ७।४।२७
काशिका-वृत्तिः
रीङृतः ७।४।२७

ऋकारान्तस्य अङ्गस्य अकृद्यकारे असार्वधातुके यकारे च्वौ च परतो रीङित्ययम् आदेशो भवति। मात्रीयति। मात्रीयते। पित्रीयति। पित्रीयते। चेक्रीयते। मात्रीभूतः। क्ङिति इत्येतन् निवृत्तम्, तेन इह अपि भवति, पितुरागतं पित्र्यम्। ऋत इति तपरकरणं किम्? चेकीर्यते। निजेगिल्यते।
लघु-सिद्धान्त-कौमुदी
रीङ् ऋतः १०४८, ७।४।२७

अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः। यस्येति च। पित्र्यम्। उषस्यम्॥
न्यासः
रीडृतः। , ७।४।२७

यिग्रहणमनुवत्र्तते, अकृत्सार्वधातुकयोरिति च। "मात्रीयति" इति। "सुप आत्मनः क्यच्()" ३।१।८। "पित्रीयते" इति। "कर्त्तुः क्यङ् सलोपश्च" ३।१।११ इति क्यङ्()। "चेक्रीयते" इति। करोतेर्यङ्()। "पित्र्यम्()" इति। "पितुर्यच्च" ४।३।७९ इति यत्प्रत्ययः; रीङादेशे कृते "यस्येति च" ६।४।१४८ इतीकारलोपः। कथं पुनः क्ङितोत्युचयमाने तत्रादेशो भवति? इत्याह--"क्ङितीत्येतदिह निवृत्तम्()" इति। यद्येवं यिग्रहणस्यापि निवृत्तिः प्राप्नोति, तदेकयोगनिर्दिष्टत्वात्()? नैतदस्ति; स्वरितत्वप्रतिबद्धा हि शब्दानामनुवृत्तिः। इह च यिग्रहणस्यैव स्वरितत्वं प्रतिज्ञायत इति तदेवानुवत्र्तते, क्ङिद्ग्रहणस्य स्वरितत्वं न प्रतिज्ञायत इति न तदिहानुवत्र्तते। "चेकीर्यते" इति। "कृ विक्षेपे" (धा।पा।१४०९), "ऋत इद्धातोः" ७।१।१०० इतीत्त्वे रपरत्वम्()। "हलि च" ८।२।७७ इति दीर्घः। "निजेगिल्यते" इति। "गृ? निगरणे" (धा।पा।१४१०), "लुपसद" ३।१।२४ इत्यादिना यङ्(), "यो यङि" ८।२।२० इति लत्वं रेफस्य। अथ दीर्घग्रहणं किमर्थम्(), न रिङित्येवोच्येत, "अकृत्सार्वधातुकयोः" ७।४।२५ इतिदीर्घत्वेनैव सिद्धमिति, तत्राप्ययमर्थः--उत्तरसूत्रे पुना रिङ्ग्रहणं न कत्र्तव्यं भवति, एतदेव हि तत्रानुवर्त्तिष्यते? न सिध्यति; नाप्राप्ते दीर्घत्वे रिङारभ्यमाणस्तस्य बाधकः स्यात्()। भवतु नाम ऋकारस्य यो दीर्घस्तस्य बाधकः, यस्तु कृत आदेशे स्थान्यन्तरस्य प्राप्नोति तस्य कथं बाधकः, न ह्रस्मिन्? प्राप्ते रिङारभ्यते? एवं तर्हि मन्दधियां सुखप्रतिपत्त्यर्थ दीर्घोच्चारणम्()। ङकारोऽन्त्यादेशार्थः॥
बाल-मनोरमा
रीङृतः १२१५, ७।४।२७

रीङृतः। अङ्गस्येत्यधिकृतम् ऋता विशेष्यते। तदन्तविधिः। "अयङ् यि क्ङिती"त्यतो यीत्यनुवर्तते। "अकृत्सार्वधातुकयो"रित्यतोऽकृत्सार्वधातुकयोरिति, "च्वौ चे"ति सूत्रं च, तदाह--अकृदित्यादिना। पित्र्यमिति। पितरो देवता अस्येति विग्रहः। यति पितृशब्दस्य रीङ्। "ङिच्चे"त्यन्तादेशः। "यस्येति चेति ईकारलोपः। क्यचि पित्रीयतीत्यादौ "अङ्गकार्ये कृते पुनर्नाङ्गकार्य"मिति वचनात् "अकृत्सार्वदातुकयो"रिति दीर्घे अप्राप्ते ईकारोच्चारणम्। उषस्यमिति। उषः देवता अस्येति विग्रहः। भत्वेन पदत्वाऽभावात्सकारस्य न रुत्वादि। द्यावापृथिवी। द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध-एतेभ्यः-छो यच्च स्यादित्यर्थः। अणः, पत्युत्तरपदण्यस्य चापवादः।

तत्त्व-बोधिनी
रीङृतः ९९८, ७।४।२७

रीङृतः। अङ्गवृत्तपरिभाषया "अकृत्सार्वे"ति दीर्घो न प्रवर्तत इति दीर्घग्रहणमित्याहुः। यस्येति चेति। "पित्रीयती"त्यत्र रूङ्()विधिः सावकाश इति भावः। उषस्यमिति उषस्()शब्दः स्त्रीलिङ्गो दिवो दुहितरं देवतां ब्रावीति।