पूर्वम्: ७।४।२९
अनन्तरम्: ७।४।३१
 
सूत्रम्
यङि च॥ ७।४।३०
काशिका-वृत्तिः
यङि च ७।४।३०

यगि च परतः अर्तेः संयोगादेश्च ऋतः गुणो भवति। अरार्यते। सास्वर्यते। दाध्वर्यते। सास्मर्यते। अर्तेः अट्यर्त्यशूर्णोतीनाम् उपसंख्यानम् इति यङ्। न न्द्राः संयोगादयः ६।१।३ इति द्विर्वचनप्रतिषेध्H यकारस्य नेष्यते। हन्तेर्हिसायां यङि घ्नीभावो वक्तव्यः। जेघ्नीयते। हिंसायाम् इति किम्? जङ्घन्यते।
न्यासः
यङि च। , ७।४।३०

पूरवेम प्राप्तस्य रीङोऽयमपवादः। "अरार्यते" इति। यङ गुणः, रपरत्वम्()। "अजादेर्द्वितीयस्य ६।१।२ इति द्विर्वचनम्(); हलादिशेषः, "दीर्घोऽकितः" ७।४।८३ इति दीर्घत्वम्()। ननु चात्र्तेरहलादित्वाद्यङ न प्राप्नोति? इत्यत आह--"अर्त्तेः" इत्यादि। भवतु नामोपसंख्यानाद्यङ्(), रेफादेश्तु द्विर्वचनेन न भवितव्यम्(), "न न्द्राः संयोगादयः" (६।१।३) इति प्रतिषेधात्()? इत्यत आह--"न न्द्राः संयोगादयः" इति। उक्तं हि ततर--यकारपरस्य रेफस्य प्रतिषेधो वक्तव्यः। तस्माद्रेफादेर्यं इत्येतस्य द्विर्वचनं भवति। "जङ्घन्यते" इति। "नुगतोऽनुनासिकान्तस्य" ७।४।८५ इति नुक्(), "अभ्यासाच्च" ७।३।५५ इति कुत्वम्()॥
तत्त्व-बोधिनी
यङि च ४००, ७।४।३०

यङि च। इह "गुणोऽर्तिसंयोगाद्यो"रित्येतत्सर्वमप्यनुवर्तते। यकारपररेफस्येति। यदि भाष्योदाहरणं सामान्यापेक्षं ज्ञापकं स्यात्तदाऽर्यमाख्यत् आरर्यदित्यादि सिध्यति।