पूर्वम्: ७।४।३०
अनन्तरम्: ७।४।३२
 
सूत्रम्
ई घ्राध्मोः॥ ७।४।३१
काशिका-वृत्तिः
ई घ्राध्मोः ७।४।३१

घ्रा ध्मा इत्येतयोः यङि परतः ईकारादेशो भवति। जेघ्रीयते। देध्मीयते।
न्यासः
ई घ्रध्मोः। , ७।४।३१

अत्र दीर्घोच्चारणं किमर्थम्(), दीर्घो यथा स्यात्(), ह्यस्वो मा भूत्()? नैतदस्ति; ह्यस्वस्यापि हि विधाने अकृत्सार्वधातुकयोर्दीर्घः" ७।४।२५ इत्येवं सिध्यति, "च्वौ च" (७।४।२६) इति यथायोगं दीर्घो भविष्यति? एवं तह्र्रेतज्ज्ञापयति--"संज्ञापूर्वको विधिरनित्यः" (व्या।प।६४) इति। तेन स्वायम्भुवमिति सिद्धं भवति॥
तत्त्व-बोधिनी
ई घ्राध्मोः ४०८, ७।४।३१

ई घ्माध्मोः। दीर्घोच्चारणं प्राग्वत्। जेघ्रीतः [वस्तुतस्तु] "अस्य च्वौ" इत्याद्यर्थ दीर्घग्रहणमिति तु सुवचम्। शाशय्यते इति। परत्वादन्तरङगत्वाच्चाऽयङादेशे कृते द्वित्वम्।

इति तत्त्वबोधिन्यां यङन्तक्रिया।

अथ यङ्लुगन्तप्रक्रिया।