पूर्वम्: ७।४।३२
अनन्तरम्: ७।४।३४
 
सूत्रम्
क्यचि च॥ ७।४।३३
काशिका-वृत्तिः
क्यचि च ७।४।३३

अस्य इति वर्तते। क्यचि परतः अवर्णान्तस्य अङ्गस्य ईकारादेशो भवति। पुत्रीयति। घटीयति। खट्वीयति। मालीयति। अकृत्सार्वधातुकयोर् दीर्घः ७।४।२४ इत्यस्य अपवादः। पृथग्योगकरणम् उत्तरार्थम्।
लघु-सिद्धान्त-कौमुदी
क्यचि च ७२५, ७।४।३३

अवर्णस्य ईः। आत्मनः पुत्रमिच्छति पुत्रीयति॥
न्यासः
क्यचि च्?। , ७।४।३३

"अकृत्सार्वधातुकयोर्दीर्घः" ७।४।२५ इत्यस्यायमपवादः। चकारः "अस्य" ७।४।३२ श्यनुकर्षणार्थः। अथ पृ()थग्योगकरणं किमर्थम्(), नास्य "च्चिक्यचोः" इत्येकयोग एव क्रियताम्()? इत्यत आह--"पृथग्योगकरणम्()" इत्यादि। "न च्छन्दस्यपुत्रम्य" ७।४।३५ इत्येवमाद्युत्तरकार्यं क्यचि यथा स्यात्(), च्वौ मा भूत्()--इत्येवमर्थो योगविभागः कृतः॥
बाल-मनोरमा
क्यचि च ४८३, ७।४।३३

क्यचि च। "अस्य च्वौ" इत्यतोऽस्येत्यनुवर्तते। "ई घ्राध्मो"रित्यत ईग्रहणं चेति मत्वा शेषं पूरयति-- अस्येति। अकारस्येत्यर्थः। पुत्रीयतीति। क्यचि पुत्र य इति स्थिते ईत्वे पुत्रीयमिच्छतीत्यत्र पुत्रशब्दान्न क्यच्। गव्यतीति। गामात्मन इच्छतीत्यर्थः। नाव्यतीति। नावमात्मन इच्छतीत्यर्थः। अपदान्तत्वादिति। "लोपः शाकल्यस्ये"त्यस्य पदान्त एव प्रवृत्तेरिति भावः। नन्वन्तर्वर्तिविभक्त्या पदत्वमस्त्येवेत्यत आह-- तथा हीति। यथा पदत्वं न भवति तथोच्यते इत्यर्थः।