पूर्वम्: ७।४।३४
अनन्तरम्: ७।४।३६
 
सूत्रम्
न च्छन्दस्यपुत्रस्य॥ ७।४।३५
काशिका-वृत्तिः
न च्छन्दस्यपुत्रस्य ७।४।३५

छन्दसि विषये पुत्रवर्जितस्य अवर्णान्तस्य अङ्गस्य क्यचि यदुक्तं तन् न भवति। किं चोक्तम्? दीर्घत्वम् ईत्वं च। मित्रयुः। संस्वेदयुः। देवाञ् जिगाति सुम्नयुः। अपुत्रस्य इति किम्? पुत्रीयन्तः सुदानवः। अपुत्रादीनाम् इति वक्तव्यम्। जनीयन्तो ऽन्वग्रवः।
न्यासः
न च्छन्दस्यपुत्रस्य। , ७।४।३५

"क्यचि यदुक्तं तन्नभवति" इति। किं पुनस्तत्()? इत्याह--"दीर्घत्वमीत्वञ्च" इति। ननु च "अनन्तरस्य विधिर्वा भनत प्रतिषेधो वा" (व्या।प।१९) इत्यनन्तरस्य ईत्वस्य प्रतिषेधेन भवितव्यम्(), न तु व्यवहितस्य दीर्घत्वस्य? नैष दोषः; "अ()आआधस्यात्()" ७।४।३७ इत्य()आआघयोराद्वचनं ज्ञापकम्()--दीर्घत्वस्याप्ययं प्रतिषेधो भवतीति; अन्यथा दीर्घत्वेनैव सिद्धत्वादाकारकरणमनर्थकं स्यात्()। "मित्रयुः" इति। "क्याच्छन्दसि" ३।२।१७० इत्युप्रत्ययः; "अतो लोपः" ६।४।४८ इत्यकारलोपः। "अपुत्रादीनामिति वक्तव्यम्()" ति। पुत्रादीनां प्रतिषेधो न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"क्यचि च" (७।४।३३) इत्यस्यानन्तरं पुत्रस्येति वक्तव्यम्(), किमर्थमिदम्()? "नच्छन्दसि" इति प्रतिषेधं वक्ष्यति तद्बाधनार्थम्() एवं "अपुत्रस्य" इति नञ्? उच्चारयितव्यो न भवति। तदिदं "क्यचि च" (७।४।३३) इत्यस्यानन्तरं पुत्रस्येति वक्तव्ये यदिहापुत्रस्येति वचनं तत्? पूत्रादीनां प्रतिषेधो यथा स्यादित्येवमर्थम्()। एतच्च पुत्रस्योपलक्षणत्वाल्लभ्यते॥