पूर्वम्: ७।४।३८
अनन्तरम्: ७।४।४०
 
सूत्रम्
कव्यध्वरपृतनस्यर्चि लोपः॥ ७।४।३९
काशिका-वृत्तिः
कव्यधवरपृतनस्यर्चि लोपः ७।४।३९

कवि अध्वर पृतना इत्येतेषाम् अङ्गानां क्यचि परतो लोपो भवति ऋचि विषये। कव्यन्तः सुमनसः। अध्वर अध्वर्यन्तः। पृतना पृतन्यन्तः तिष्ठन्ति।
न्यासः
काव्यध्वरपृतनस्यचिं लोपः। , ७।४।३९

"काव्यन्तः" इति। "अलोऽन्त्यस्य" १।१।५१ लोपः। क्यजन्ताच्छतृप्रत्ययः, तदन्ताज्जस॥