पूर्वम्: ७।४।३९
अनन्तरम्: ७।४।४१
 
सूत्रम्
द्यतिस्यतिमास्थामित्ति किति॥ ७।४।४०
काशिका-वृत्तिः
द्यतिस्यतिमास्थाम् इत् ति किति ७।४।४०

द्यति स्याति मा स्था इत्येतेषाम् अङ्गानाम् इकारादेशो भवति तकारादौ किति प्रत्यये परतः। द्यति तिर्दितः। निर्दितवान्। स्यति अवसितः। अवसितवान्। मा मितः। मितवान्। स्था स्थितः। स्थितवान्। ति इति किम्? अवदाय। किति इति किम्? अवदाता।
न्यासः
द्यतिस्यतिमास्थामिति किति। , ७।४।४०

छन्दसि, यजुषि, ऋचीति सर्व निवृत्तम्(); तेन सामान्येनायं विधिः। "दो अवखण्डने" (धा।पा।११४८), "षो अन्तकर्मणि" (धा।पा।११४७)। "मा माने" (धा।पा।१०६२), "माङ माने" (धा।पा।११४२), "मेङप्रणिदाने" (धा।पा।९६१)--"गामादाग्रहणेष्वविशेषः" (व्या।प।१२४) इति त्रयाणामपि ग्रहणम्()। "ष्ठा गतिनिवृत्तौ" (धा।पा।९२८)। तत्राद्यस्य "दो दद्घोः" ७।४।४६ इति दत्त्वे प्राप्ते शेषाणां "घुमास्था" ६।४।६६ इत्यादिसूत्रेण ईत्त्वे प्राप्त इत्त्वं विधीयते॥ "अवदाय" इति। पूर्ववत्? क्त्वो ल्यप्()। "अवदाता" इति। तृच्()। द्यतिस्यतति श्तिपा निर्देशोऽयं यङलुग्निवृत्त्यर्थः। तेन तयोर्यथाप्राप्तमेव भवति--दादत्तः, दादत्तवान्(), सासीतः, सासीतवान्()। तपरकरणं मुखसुखार्थम्(), न तु दीर्घनिवृत्त्यर्थम्()। "भाव्यमानोऽण्? सवर्णान्न गृह्णाति" (व्या।प।३५) इति दीर्घस्याप्राप्तेः॥
बाल-मनोरमा
द्यतिस्यतिमास्थामित्ति किति ८८१, ७।४।४०

द्यतिस्यति। एषां चतुर्णां द्वन्द्वात्षष्ठी। "दो अवखण्डने" इत्यस्य द्यतीति निर्देशः। "षो अन्तकर्मणी"त्यस्य तु स्यतीति निर्देशः। इत्-ति- कितीति च्छेदः। ईत्त्वेति। "घुमास्थे"ति ईत्त्वस्य, "दो दद्धो"रिति दद्भावस्य च यथासंभवमपवाद इत्यर्थः। दोधातोरुदाहरति-- दित इति। मा माङ् मेङिति। "गामादाग्रहणेष्वविशेषः" इति वचनादिति भावः।

तत्त्व-बोधिनी
द्यतिस्यतिमास्थामिति किति ७२४, ७।४।४०

द्यतिस्यति। दोऽवखण्डने, षोऽन्तकर्मणि, मा माने, माङ् माने ,मेङ् प्रणिदाने, ष्ठा गतिवृत्तौ। श्तिपा निर्देशो धातुविशेषणार्थः। न हि श्तिपं विना श्यन् सुलभः। यत्तु प्रसादकृतोक्तं-- "श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थः, दादत्तः [सासात"] इति। तन्न। यङ्लुकि हि इटा भाव्यं-- दादितः सासित इति। तत्र "ति कितीति वचनान्नाऽस्ति प्रसङ्गः। किं च "दो दद्धो"रिति विधीयमान आदेशोऽनेकाल्त्वात्सर्वस्येति निर्विवादम्। तथा च हन्तेर्यङ्लुगन्तस्य वधादेशवत्साभ्यासस्य प्रवर्तेतेति दादत्त इति त्वदुदाह्मतरूपं कथमुक्तिसम्भवं लभेतेत्याहुः।