पूर्वम्: ७।४।४२
अनन्तरम्: ७।४।४४
 
सूत्रम्
जहातेश्च क्त्वि॥ ७।४।४३
काशिका-वृत्तिः
जहातेश् च क्त्वि ७।४।४३

जहातेरङ्गस्य हि इत्ययम् आदेशो भवति क्त्वाप्रत्यये परतः। हित्वा राज्यं वनं गतः। हित्वा गच्छति। जहातेर् निदेशात् जिहीतेर् न भवति। हात्वा।
लघु-सिद्धान्त-कौमुदी
जहातेश्च क्त्वि ८८६, ७।४।४३

हित्वा। हाङस्तु - हात्वा॥
न्यासः
जहीतेश्च क्त्वि। , ७।४।४३

पूर्ववदीत्त्वे प्राप्ते क्त्वाप्रत्यये हिरादेशो विधीयते। यद्यपि "हि गतौ" (धा।पा।१२५७) इत्यस्यापि हित्वेति सिध्यति, तथापि जहातेरिकारनिवृत्त्यर्थ वचनम्()। अथ किमर्थं जहातेरिति श्तिपा निर्देशः, न "हः" एवोच्यते? इत्याह--"जहातेः" इत्यादि। एतेन "ओहाङ्? गतौ" (धा।पा।१०८९) इत्यस्य निवृत्त्ये निर्देशः क्रियत इति दर्शयति। यदि हि "हः" इति निर्देशः स्यात्(), तदा तस्य साधारणत्वाज्जिहातेरपि स्यात्()। जहातेरिति श्तिपा निर्देशे तु न भवति। अनेन जहातिरेव निर्दिश्यते, न जिहातिः। न हि तस्यैवंविधो निर्देशे यङ्लुगन्तस्य न भवति--जाहात्वेति। ईत्वमप्यत्र न भवति; तद्विधावपि श्तिपा निर्देशात्()। अत्र चेटि कृते "आतो लोप इटि च" ३।४।६४ इत्याकारलोपः॥
तत्त्व-बोधिनी
जहातेश्च क्त्वि १५९९, ७।४।४३

जग्ध्वेति। "झरो झरी"ति पाक्षिको धलोपः।