पूर्वम्: ७।४।४९
अनन्तरम्: ७।४।५१
 
सूत्रम्
तासस्त्योर्लोपः॥ ७।४।५०
काशिका-वृत्तिः
तासस्त्योर् लोपः ७।४।५०

तासेः अस्तेश्च सकारस्य सकारादौ प्रत्यये परतः लोपो भवति। तासेः कर्तासि। कर्तासे। अस्तेः त्वम् असि। व्यतिसे। अस्तेः अकारासकारयोः लुप्तयोः से इति प्रत्ययमात्रम् एतत् पदम्, तेन सात् पदाद्योः ८।३।११३ इति षत्वं न भवति।
लघु-सिद्धान्त-कौमुदी
तासस्त्योर्लोपः ४०८, ७।४।५०

तासेरस्तेश्च सस्य लोपस्स्यात् सादौ प्रत्यये परे।
न्यासः
तासस्त्योर्लोपः। , ७।४।५०

"अनद्यतने लुट्()" ३।३।१५ तासिः, सिप्()। "कत्र्तासे" इति। "थासः से" ३।४।८०। "त्वमसि" इति। "स भुवि" (धा।पा।१०६५), पूर्ववच्छपो लुक्। "व्यतिसे" इति। "कत्र्तरि कर्मव्यतीहारे" १।३।१४ इत्यात्मनेपदं भवति। "थासः से" ३।४।८०, "श्नसोरल्लोपः" ६।४।१११ इत्यकारलोपः। अथ "आदेशप्रत्यययोः" (८।३।५९) इति षत्वं कस्मान्न भवति? इत्यत आह--"अस्तेरकारसकारयोः" इत्यादि। अकारसकारयोर्हि लुप्तयोः प्रत्ययमात्रमवशिष्यते, तदेव पदम, अतः "सात्पदाद्योः" (८।३।१११) इति प्रतिषेधात्? षत्वं न भविष्यतीति भावः॥
बाल-मनोरमा
तासस्त्योर्लोपः ४०, ७।४।५०

तदाह--तासस्त्योः। "सः स्यार्धधातुके" इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात् "यस्मिन्विधि"रिति तदादिविधिः, तदिदमाह--सादाविति। एवं रादावित्त्राप्यूह्रम्।

तत्त्व-बोधिनी
तासस्त्योर्लोपः ३१, ७।४।५०

"सः स्यार्धदातुके" इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात् "यस्मिन्विधि"रिति तदादिविधिः, तदिदमाह-- सादाविति। एवं रादावित्यत्राप्यूह्रम्।