पूर्वम्: ७।४।५४
अनन्तरम्: ७।४।५६
 
सूत्रम्
आप्ज्ञप्यृधामीत्॥ ७।४।५५
काशिका-वृत्तिः
आप्ज्ञप्यृधाम् ईत् ७।४।५५

आप् ज्ञपि ऋध इत्येतेषाम् अङ्गानाम् अच ईकारादेशो भवति सनि सकारादौ परतः। आपीप्सति। ज्ञपि ज्ञीप्सति। ऋद्H ईर्त्सति। ज्ञपेः द्वावचौ, तत्र णेः पूर्वविप्रतिषेधेन लोपः, इतरस्य तु ईत्वम्। सनि इत्येव, प्राप्स्यति। सि इत्येव, जिज्ञपयिषति। अर्दिधिषति। सनीवन्तर्ध इति ज्ञपेः ऋधेश्च इटो विकओपः।
न्यासः
आप्ज्ञप्यृधामीत्?। , ७।४।५५

"ईप्सति" इति। "आप्लृ व्याप्तौ" (धा।पा।१२६०)। "ज्ञीप्सति" इति। "ज्ञा अवबोधने" (धा।पा।१५०७), णिच्(), "अर्त्ति" ७।३।३६ इत्यादिना पुक्(), "मारणतोपणनिशामनेषु ज्ञा" (धा।पा।८११) "मिच्च" इति मित्संज्ञायां ह्यस्वः, "णेरनिटि" ६।४।५१ इति णिलोपः। "ईत्र्सति" इति। "ऋधु वृद्धौ" (धा।१२७१), ईकारः, रपरत्वं च, श्रकारस्य "खरि च" ८।४।५४ इति चत्र्वम्()--तकारः। इह च ज्ञापिनाङ्गेनाज्विशेषयितव्यः, न त्वचा ज्ञापिः, व्यभिचाराभावात्()। न हि ज्ञपरजन्ततां व्यभिचरति। अचि तु ज्ञपिनाङ्गेन विशिष्यमाणे सर्वस्य ज्ञपिसम्बन्धिनोऽच ईत्त्वेन भवितव्यम्(), तथा च णेरपीत्त्वे कृते ज्ञीप्सतीति न सिध्येदित्येतच्चोद्यमाशङ्क्याह--"ज्ञपेद्र्वावचौ" इत्यादि। तत्रेत्त्वास्यावकाशोऽजाद्यः, णिलोपस्यावकाशः--कारणा, हारणा; द्वितीयस्याच उभयप्रसङ्गे णिलोप एव भवति पूर्वविप्रतिषेधेन--ज्ञीप्सतीति। "इतरस्य" इति। अकारस्य। "अर्दिधिषति" इति। लघूपधगुणः, रपरत्वम्(), "अजादेर्द्वितीयस्य" ६।१।२ इति "धि" इत्येतद्()द्विरुच्यते। रेफस्य तु द्विर्वचनं न भवति; "न न्द्राः संयोगादयः" ६।१।३ इति प्रतिषेधात्()। अभ्यासस्य जश्त्वम्()--जकारः। तकारो मुखसुखार्थः॥
बाल-मनोरमा
आप्ज्ञप्यृधामीत् ४४७, ७।४।५५

आप्ज्ञप्यृधामीत्। सादौ सनीति। "सनि मीमाघुरभे"त्यतः सनीति, अच इति चानुवर्तते। "सः स्याद्र्धधातुके" इत्तः सीत्यनुवृत्तं सनो विशेषणम्। तदादिविधिरिति भावः।

तत्त्व-बोधिनी
आप्ज्ञप्यृधामीत् ३८८, ७।४।५५

आप्ज्ञ। "सनि मीमे" त्यतः --अच इत्यनुवर्तते, "सः स्याद्र्धधातुके" इत्यतः सीति च। तदाह-- अव ईत्स्यादाविति। "सी"त्यस्य सनो विशेषमात्सादाविति लाभः।