पूर्वम्: ७।४।५७
अनन्तरम्: ७।४।५९
 
सूत्रम्
अत्र लोपोऽभ्यासस्य॥ ७।४।५८
काशिका-वृत्तिः
अत्र लोपो ऽभ्यासस्य ७।४।५८

यदेतत् प्रक्रान्तं सनि मीमा इत्यादि मुचो ऽकर्मकस्य इति यावत्, अत्र अभ्यासलोपो भवति। तथैव उदाहृतम्। अभ्यासस्य इत्येतच् च अछिकृतं वेदितव्यम् आ अध्यायपरिसमाप्तेः। इत उत्तरं यद् वक्ष्यामः अभ्यासस्य इत्येवं तद् वेदितव्यम्। वक्ष्यति, ह्रस्वः ७।४।५९ डुढौकिषते। तुत्रौकिषते। सनि मीमाधुरभलभशकपतपदामच इस्, अभ्यासलोपश्च, इत्येवम् सिद्धे यदत्रग्रहनम् इह अक्रियते, तद् विषयावधारणार्थम्, अत्रैव अभ्यासलोपो भवति, सन्वद्भावविषये न भवति। अमीमपत्। अदीदपत्। सन्वल्लघुनि चङ्परे ऽनग्लोपे ७।४।९३ इति सन्वद्भावात् प्राप्नोति। सर्वस्य अभ्यासस्य अयं लोपः इष्यते, तदर्थम् एव केचितत्रग्रहणं वर्णयन्ति। नानर्थके ऽलो ऽन्त्यविधिः इत्यपरे सर्वस्य कुर्वन्ति।
न्यासः
अत्र लोपोऽभ्यासस्य। , ७।४।५८

अत्रेत्यनेन यन्निर्दिश्यते तद्दर्शयितुमाह--"यदेतत्()" इत्यादि। अथात्रग्रहणं किमर्थम्()? "सनि मीमा" ७।४।५४ इत्यादौ प्रकरणे यथा स्यात्(); ददौ, ददतुरित्यादौ मा भूदिति चेत्()? न; यदि ह्रेतत्? प्रयोजनमभिमतं स्यात्? "सनि मीमाधुरभलभशकपतपदामच इसभ्यासलोपश्च" इत्येवमुद्दिश्येत, एवमिहैव प्रकरणे भदिष्यति, नान्यत्र, ततो निष्प्रयोजनमत्रग्रहणमित्यत आह--"सनि मीमाधुरभलभ" इत्यादि। "विषयावधारणार्थम्()" इति। अभ्यासलोपविषयस्य नियमार्थमित्यर्थः। तामेव तस्य विषयनियमार्थतां दर्शयितुमाह--"अत्रैव" इत्यादि। अत्रेत्यनेनेसादिविषयो निर्दिश्यते। इसादिविषय एवाभ्यासलोपो यथा स्यादिति नियमेन यद्व्यवच्छिन्नं तद्दर्शयितुमाह--"सन्वद्भावविषये न भवति" इति। "अमीमपत्()" इति। "भीञ्? हिंसायाम्()" (धा।पा।१४७६) "मीनातिमिनोतिदीङां ल्यपि च" ६।१।४९ इत्यात्त्वम्(), णिच्(), पूर्ववत्? पुक्(), लुङः, च्लेश्चङ्(), णिलोपः, उपधाह्यस्वत्वम्(), द्विर्वचनम्(), अट्(), "सन्वल्लघुनि चङ्परे" ७।४।९३ इत्यादिना सन्वद्भावे "सन्यतः" ७।४।७९ इतीत्त्वम्(), "दीर्घो लघोः" ७।४।९४ इति दीर्घः। "अदीदपत्()" इति। "डुदाञ्? दाने" (धा।पा।१०९१) पूर्ववण्णिजादिः। अत्रग्रहणादिहाभ्यासलोपो न भवति। कथं पुनः सन्यभ्यासलोप उच्यमान इह प्राप्नोति, यन्निवृत्त्यर्थमत्रग्रहणं क्रियते? इत्याह--"सन्वल्लघुनि" इत्यादि। यथैव हि सन्वद्भावातिदेशादित्त्वं भवति, एवमभ्यासलोपः स्यात्()। इहालोन्त्यपरिभाषया "अलोऽन्त्यस्य" १।१।५१ लोपेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्तुंमाह--"सर्वस्य" इत्यादि। कथं पुनः सर्वस्य लभ्यते? इत्यत आह--"तदर्थमेव" इत्यादि। एतेनैवकारेण विषयावधारणार्थतां निरस्यति। यद्येवम्(), सन्वद्भावविषयेऽपि प्राप्नोति? एवं मन्यते--सन्वद्भावविषयेऽप्यभ्यासलोपप्रसङ्गः परिहर्तु शक्यते। तत्र सन्वदिति सनाश्रयकार्यमतिदिश्यते। न चाभ्यासलोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। तदभावादसत्यप्यत्रग्रहणेऽमीमपदित्यादिष्वभ्यासलोपो न भविष्यति। तस्मादतिरिच्यत एवात्रग्रहणमिति न कत्र्तव्यमेव। तत्? क्रियते--सर्वस्याभ्यासलोपो यथा स्यादिति। कथं पुनः क्रियमाणेऽप्यत्रग्रहणे सर्वस्य लोपो लभ्यते? ग्रन्थाधिक्यादर्थाधिक्यमित्येके। अत्रग्रहणेन महत्? सूत्रं प्रयणतैतत्? सूचितम्()--महतः स्थानिनोऽयं लोपः कत्र्तव्यः। एवञ्चायं महतः स्थानिनः कृतो भवति यदि सर्वस्याभ्यासलोपः क्रियते, नान्यथेत्यन्ये। "नानार्थकेऽलोन्त्यविधिरित्यपरे" इति। के पुनस्ते? ये विषयावधारणार्थतामत्रग्रहणस्य वर्णयन्ति ते वेदितव्याः। अनर्थकत्वमभ्यासस्य स्थाने द्विर्वचनपक्षे वेदितव्यम्()। अत्र हि यस्य स्थाने यच्छब्दान्तरं विधीयते तत्? समस्तमेवार्थवत्()। एकदेशस्त्वभ्यासोऽनर्थक एव। द्विष्प्रयोगद्विर्वचनपक्षेऽप्यनर्थान्तरवाचित्वादनर्थान्तरवाचित्वादनर्थकताभ्यासस्य॥
बाल-मनोरमा
अत्र लोपोऽभ्यासस्य ४४८, ७।४।५८

अत्र लोपोऽभ्यासस्य। "सनि मीमे"ति "आप्ज्ञप्यृधामी"दिति "दम्भ इच्चे"ति , "मुचोऽकर्मकस्य गुणो वे"ति पूर्वसूत्रचतुष्टयविहितकार्यमत्रेत्यनेन परामृश्यते। तदाह-- सनि मीमेत्यारभ्यते। सूत्रचतुष्टकार्ये कृते सतीत्यर्थः। ईप्सतीति। आप् धातोः सनि आकारस्य इत्त्वे "अजादेर्द्वितीयस्ये"ति प्स इत्यस्य द्वित्वेऽभ्यासलोप इति भावः। रपरत्वमिति। ऋधेः सनि इडभावे ऋकारस्य ईत्त्वे रपरत्वमित्यर्थः। चत्र्वमिति। ईर्ध् स इति स्थिते धस्य चर्त्वे "न न्द्राः" इति रेफं वर्जयित्वा "अजादेर्द्वितीयस्ये"ति, "त्स" इत्यस्य द्वित्वे अभ्यासस्य लोप इति भावः। "पूर्वत्राऽसिद्धीयमद्वित्वे" इति वचनाच्चर्त्वे कृते द्वित्वमिति बोध्यम्। इट्पक्षे आह-- अर्दिधिषतीति। सनः सादित्वाऽभावादीत्त्वाऽभावे गुणे रपरत्वे अर् ध् इ स इति स्थिते धिस् इत्यस्य द्वित्वमिति भावः। भ्रस्ज्धातोः सन इटि "भ्रस्जो रोपधयो"रिति रमागमाऽभावे आह--बिभ्रज्जिषतीति। सस्य श्चुत्वेन शः, शस्य जश्त्वेन जः। क्ङिदभावात् "ग्रहिज्ये"ति संप्रसारणं न। बिभर्जिषतीति। इटि रमागमपक्षे भ्रस्ज् इस इति स्थिते अकारादुपरि साकरात्प्राग्रेफागमे भकाराद्रेफस्य सकारस्य च निवृत्तौ भर्ज् इस इति स्थिते भर्ज् इत्यस्य द्वित्वं हलादिशेषे अभ्यासस्य इत्त्वे जश्त्वे सनः षत्वे च रूपम्। तदेवमिट्पक्षे रमागमतदभावाभ्यां रूपद्वयम्। बिभ्रक्षतीति। इडभावे रमागमाऽभावे च रूपम्। जस्य कुत्वं सस्य षः। बिभक्र्षतीति। इडभावे रमागमे च रूपम्। तदेवमिडभावपक्षे रमागमतदभावाभ्यां द्वे रूपे।

तत्त्व-बोधिनी
लोपोऽभ्यासस्य ३८९, ७।४।५८

ईप्सतीति। "अजादेर्द्वितीयस्ये"तिप्सशब्दस्य द्वित्वम्। बिभ्रज्जिषतीति। इटि तदभावे च रमागमविकल्पाच्चत्वारि रूपाणि। सुस्वूर्षतीति। "अज्झनगमा"मिति दीर्घे सत्युत्वम्।