पूर्वम्: ७।४।६०
अनन्तरम्: ७।४।६२
 
सूत्रम्
शर्पूर्वाः खयः॥ ७।४।६१
काशिका-वृत्तिः
शर्पूर्वाः खयः ७।४।६१

अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते, अन्ये हलो लुप्यन्ते। चुश्च्योतिषति। तिष्ठासति। पिस्पन्दिषते। शर्पूर्वाः इति किम्? पपाच। खयः इति किम्? सस्नौ। खर्पूर्वाः खय इति वक्तव्यम्। उचिच्छिषति इत्यत्र उच्छेः अन्तरङ्गत्वात् तुकि कृते द्विर्वचनम्, तत्र हलादिः शेषे सति अभ्यासे तकारः श्रूयेत।
लघु-सिद्धान्त-कौमुदी
शर्पूर्वाः खयः ६५१, ७।४।६१

अभ्यासस्य शर्पूर्वाः खयः शिष्यन्तेऽन्ये हलो लुप्यन्ते। तस्तार। तस्तरतुः। तस्तरे। गुणोर्ऽतीति गुणः। स्तर्यात्॥
न्यासः
शर्पूर्वाः खयः। , ७।४।६१

पूर्वेण शरां सेषे प्राप्ते खयां शेष आरभ्यते। अनादिशेषश्चायमादिशेषं बाधते। न हि शरामवस्थाने खयां शेषशब्दो विशेषणमुपपद्यते। स हि निवृत्त्या विशिष्टमवस्थानमाह--इत्युक्तम्()। न चोभयोरवस्थाने निवृत्त्या विशिष्टमवस्थानं भवति। तस्मादादिशेषस्यायमनादिशेषोऽपवादः। "चुश्चोतिषति" इति। "श्चुतिक्र्षरणे" (धा।पा।४१), सन्(), इट्()। "तिष्ठासति" इति। "षष्ठा गतिनिवृत्तौ" (धा।पा।९२८)। "पिस्पन्दिषते" इति। "स्पदि किञ्चिच्चलने" (धा।पा।१४), अनुदात्तेत्(), इदित्वान्नुम्(), "पूर्ववत्सनः" १।४।६१ इत्यात्मनेपदम्()। "सस्नौ" इति। "ष्णा शौचे" (धा।पा।१०५२)। पूर्वेवण्णल औत्वम्()। "खर्पूर्वाः" इत्यादि। "उचिच्छिवति" इति। "उच्छी विवासे" (धा।पा।२१६), सन्? उछिष्? इति स्थिते द्विर्वचनं प्राप्नोति, तुक्? च; तत्र वर्णाश्रयेणान्तरङ्गत्वात्? तुक्()। तस्मान्? कृते, द्विर्वचनं प्राप्नोति, चुत्वञ्च, ततर परत्वात् द्विर्वचने कत्र्तव्ये चुत्वस्यासिद्धत्वाद्()द्विर्वचनं प्राप्नोति छिष्()शब्दस्य। तत्र छकारस्य शेषो न प्राप्नोति; अशर्पूर्वत्वात्()। न ह्रं तकारः अर्भवति, ततश्च पूर्वेण हलादिशेषे कृते सत्यभासे तकारः श्रूर्यत। अथापीदमस्ति--"पूर्वत्रासिद्धोयमद्विर्वचने" (जै।प।वृ।७०) इति चुत्वं पश्चाद्()द्विर्वचनं क्रियते, तथापि हलादिशेषेण छकारे निवृत्ते "निमित्तापाये नैमित्तिकस्याप्यपायः" (व्या।प।४७) इति चुत्वे निवृत्ते उचिच्छिषतीत्यतर तकार एवाभ्यासे श्रूयेत। तस्मात्? खर्पूर्वाः खय इति वक्तव्यन्()। एवं हि सति च्छकारस्य शेषे कृते तकारो निवत्र्तत इति न भवत्यनिष्टप्रसङ्गः॥
बाल-मनोरमा
शर्पूर्वाः खयः १०४, ७।४।६१

किन्तु लिटस्तादेशे "लिटस्तझयो"रिति तस्यैशि "लिटि धातो"रिति द्वित्वे "हलादिः शेषः" इत्यभ्यासे प्रथमहल्व्यतिरिक्तहलां निवृत्तौ सस्पर्धे इति प्राप्ते--शूर्पर्वाः। अभ्यासस्येति। "अत्र लोपोऽभ्यासस्ये"त्यतस्तदनुवृत्तेरिति भावः। "शर्पूर्वाः" इत्यत्र शर् पूर्वो येभ्य इत्यतद्गुणसंविज्ञानो बहुव्रीहिः। तेन शर्न शिष्यते। शिष्यन्त इति। "हलादिः शेषः" इत्यतः शेष इत्यनुवृत्तं कर्मणि घञन्तं बहुवचनान्ततया विपरिणम्यत इति भावः। तथा च प्रकृते अभ्यासे खय् पकारः शिष्यते। "न न्द्राः संयोगादय" इति रेफस्य द्वित्वनिषेधो न शङ्क्यः, द्वितीयैकाजवयवस्यैव तन्निषेधात्। तदाह--पस्पर्ध इति। नच व्रवश्चेत्यत्राभ्यासे चकार एव शिष्येतेति वाच्यं, हलादिः शेष इत्यतो हि आदिरित्यप्यनुरवर्तते। शव्र्यतिरिक्तवर्णापेक्षया धात्वादिभूता इत्यर्थः। पस्पर्धाते, पस्पर्धिरे, पस्पर्धिषे पस्पर्धाथे, पस्पधिंध्वे , पस्पर्धे पस्पर्धिवहे पस्पर्धिमहे इति लिटि रूपाणि सुगमानि। स्पर्धितेति। लुटि एध धातुवद्रूपाणि सुगमानीति भावः। स्पर्धिष्यत इति। लृटि एधदातुवद्रूपाणीति भावः। स्पर्धतामिति। लोटि एधवद्रूपाणीति भावः। अस्पर्धतेति। लङि एधिवद्रूपाणीति भावः। हलादित्वादडेव न त्वाडिति विशेषः। स्पर्धेतेति। विधिलिङि एधिवद्रूपाणि। अडागमः, न त्वाडिति विशेषः। अस्पर्धिष्यतेति। लृङि एधिवद्रूपाणि। अस्पर्धिष्टेति। लुङि एधिवद्रूपाणि। अडागमः, न त्वाडिति विशेषः। अस्पर्धिष्यतेति। लृङि एधिवद्रूपाणि। अडागमो विशेषः, न त्वाट्। गाधृ प्रतिष्ठेति। चतुर्थान्तो धातुः। ऋकारो "नाग्लोपिशास्वृदिता"मिति निषेधार्थः। अजगाधत् प्रतिष्ठा-- आधारे स्थितिः। ग्रन्थः-- ग्रन्थनं, रचनम्। जगाधे इति। लिटि द्वित्वादि। अभ्यासस्य ह्यस्वः। चुत्वम्। बाधृ इति। प्रतिघातः--पीडनम्। नाथृनाधृ इति। द्वितीयचतुर्थान्तौ धातू। उपतापः-- ज्वरप्रयुक्ता पीडा। आशीः-- आशासनम्। द्वितीयान्तस्य नाथृधातोर्विशेषमाह-- आशिषि नाथ इति। अत्र "नाथ" इति षष्ठी। "अनुदात्तङित" इत्यत आत्मनेपदमित्यनुवर्तते। अनुदात्तेत्वादेव सिद्धे नियमार्थमिदं वार्तिकं तदाह-- अस्याशिष्येवेति। आशासनार्थवृत्तेरेव नाथधातोरात्मनेपदम्। याच्ञाद्यर्थवृत्तेषु "शेषात्कर्तरी"ति परस्पैपदमेवेत्यर्थः। नाथत इति। आशास्ते इत्यर्थ-। अन्यत्रेति। याच्ञाद्यर्थे विद्यमानस्येत्यर्थः। अथ चतुर्थान्तस्य नाधधातोरुदाहरति-- नाधते इति। दधेति। चतुर्थान्तोऽयम्।

तत्त्व-बोधिनी
शर्पूर्वाः खयः ७८, ७।४।६१

शर्पूर्वाः। अतद्गुणसंविज्ञानोऽयं बहुव्रीहिः। तेन शरो न शेषः, कि #ं तु खयामेव। इह स्पर्ध इत्यत्र रेफस्यापि द्वित्वं भवति, द्वितीयस्यैकाचः संबन्धिरेफस्यैव "नन्द्राः" इति निषेधादिति बोध्यम्। गाधृ। ऋकारो "नाग्लोपिशास्वृदिता"मिति निषेधार्थः। अजगाधत्। आस्पदं स्थापना अवस्थानं वा प्रतिष्ठा। एकत्र स्थापनं संदर्भो वा ग्रन्थः। नाथृ नाधृ। उपतापो रोगः। अनुदात्तेत्त्वादेव सिद्धे नियमार्थं वार्तिकमित्याह---

आशिषि नाथ इति वाच्यम्। आशिष्येवेति। अत एकहल्मध्ये। एकशब्दोऽत्राऽसहायवचनः। एकयोर्हलोर्मध्ये इत्यर्थः। तद्व्याचष्टे-- असंयुक्तेति। इष्टानुरोधेन लिटीत्यावत्र्य आदेशविशेषणमेत्वस्य नमित्तं च क्रियत इत्याह--