द्युति स्वापि इत्येतयोः अभ्यासस्य सम्प्रसारणं भवति। विदिद्युते। व्यदिद्युतत्। विदिद्योतिषते। विदिद्युतिषते। विदेद्युत्यते। स्वापेः सुष्वापयिषति। स्वापिः ण्यन्तो गृह्यते, तस्य अभ्यासनिमित्तेन प्रत्ययेन आनन्तर्ये सति सम्प्रसारनम् इष्यते। इह न भवति, स्वापयतेर् ण्वुल् स्वापकः, तस्मात् क्यचि स्वापकीयति, स्वापकीयते, सन् सिष्वापकीयिष्ति।
हलादिशेषे प्राप्ते तस्यापवादौ द्युतिस्वाप्योः सम्प्रसारणमारभ्यते। "विदिद्युते" इति। "द्युत दीप्तौ" (धा।पा।७४१), लिट्(), अनुदात्तेत्त्वादात्मनेपदम्(); तत्र सम्प्रसरणमनेन, "सम्प्रसारणाच्च"
६।१।१०४ इति परपूर्वत्वम्()। "व्यद्युतत्()" ति। ण्यन्ताल्लुङ; श्लेश्चङ्(), णिलोपः उपधाह्यस्वत्वम्(), द्विर्वचनम्(), अडागमः। "विदिद्युतिषते, विदिद्योतिषते" इति। सन्(), "रलो व्युपधात्()"
१।२।२६ इत्यादिना विकल्पेन कित्त्वम्()। यदा कित्त्वं नास्ति, तदा लघूपधगुणः, "पूर्ववत्सनः"
१।३।६२ इत्यात्मनेपदम्()। "सुस्वापयिषति" इति।
"ञिष्वप्? शये" (धा।पा।१०६८), णिच्(),
तदन्तात्? सन्()।
किं कारणं ण्यन्तस्योदाहरणमुपन्यस्तम्()? इत्यत आह--"स्वपिण्र्यन्तो गृह्रते" इति। तेन ण्यन्तस्योदाहरणमुपदर्शितमित्यभिप्रायः। ण्यन्तस्य ग्रहणं स्वापेरिति निर्देशादेव विज्ञायते। न ह्रण्यान्तस्यैवंविधो निर्देश उपपद्यते। अपि च--अण्यन्तस्य योऽब्यासस्तस्यानेनैव शास्त्रेण सम्प्सारणं सिद्धम्()।
तथा हि--लिटि तावत्? "लिट()भ्यासस्योभयेषाम्()"
६।१।१७ इत्यनेनैव सिद्धम्(), सनि तु "रुदविद"
१।२।८ इत्यादिना सनः कित्त्वे सति वच्यादिसूत्रेण
६।१।१५ कृतसम्प्रसारण एव सुपिभूतो द्विरुच्येत, यङ्यपि "स्वपिस्यमिव्येञां यङि"
६।१।१९ इति कृतसम्प्रसारण एवासौ द्विरुच्यते।
तस्मादण्यन्तस्यानेन शास्त्रेण सम्प्रसारणस्य सिद्धत्वात्? स्वापिण्र्यन्तो गृह्रते।
यदि स्वापिण्र्यन्तो गृह्रते। तदा स्वापयतेर्ण्वुल्()--स्वापकः, स्वापकमिच्छतीति क्यच्(), स्वापकीय इति स्थिते स्वापकीयितुमिच्छतीति सन्()--सिध्वापकीयिषति,
अत्रापि सम्प्रसारणं प्राप्नोति? इत्याह--"तस्य" इत्यादि। तस्य स्वापेरभ्यासस्य नि मत्तं यः प्रत्ययस्तेनानन्तर्ये सत्यव्यवधान इदं सम्प्रसारणमिष्यते, तेन सिध्वापकीयिषतीत्यत्र न भवति। न ह्रभ्यासनिमित्तं यः प्रत्ययः इह स स्वापेरनन्तरः; ण्वुला क्यचा च व्यवधानात्()।
कथं पुनरभ्यासनिमित्तेन प्रत्ययेनानन्तर्ये सति सम्प्रसारणं लभ्यते,
यावता नायं विशेषः सूत्रोपात्तः? एवं मन्यते--अभ्यासेनाभ्यासनिमित्तं यः प्रत्ययः सन्निधापितः, तस्य प्रत्ययविशेषनिमित्तत्वात्(); तत्र लेनाभ्यासनिमित्तेन प्रत्ययेन स्वापिरङ्गं विशिष्यते--अभ्यासनिमित्ते प्रत्यये यदङ्गं स्वापिरिति। एवञ्च विशेष्यविशेषणभावे सक्यभ्यासनिमित्ते प्रत्ययेऽनन्तरे सति स्वापेरङ्गस्य योऽभ्यासस्तस्यैव सम्प्रसारणेन भवितव्यम्()। न तु व्यवहितेन प्रत्ययान्तरेण हि यो व्यवहितः प्रत्ययः सन्नभ्यासे निमित्त तदपेक्षया स्वापिरङ्गं भवति, न च सिध्वापव्यवहितेन प्रत्ययान्तरेण हि यो व्यवहितः प्रत्ययः सन्नभ्यते निमित्तं तदपेक्षया स्वापिरङ्गं भवति, न च सिध्वापकौयिषतत्यभ्यासनिमित्तं यः प्रत्ययः स स्वारेरङ्गस्यानन्तरः,
यस्तु स्वापेरनन्तरो ण्वुल्? तदपेक्षया स्वापिरङ्ग भवति, न चासावभ्यासनिमित्तं भवति। इह तर्हि कस्मान्न भवति--स्वपनं स्वापो घञ्(), स्वापं करोतति णिच्(),
स्वापयितुमिचछतीति सन्? सिष्वापयिषतीति? उच्यते;
अकारलोपश्य स्थानिवद्भावात्? स्वापेर्योऽभ्यासस्तस्य सम्प्रसारणेन भवितव्यम्()। न चाकारलोपस्य स्थानिवद्भावे सति स्वापेरभ्यासः, किं तर्हि शब्दान्तरस्य स्वाप इत्येतस्य॥