पूर्वम्: ७।४।६९
अनन्तरम्: ७।४।७१
 
सूत्रम्
अतः आदेः॥ ७।४।७०
काशिका-वृत्तिः
अत आदेः ७।४।७०

अभ्यासस्य आदेः अकारस्य दीर्घो भवति लिटि परतः। अतो गुणे पररूपत्वस्य अपवादः। आट, आटतुः, आटुः। आदेः इति किम्? पपाच। पपाठ।
न्यासः
अत आदेः। , ७।४।७०

लिटीत्यनुवत्र्तते। किद्ग्रहणं तु निवृत्तम्()। "अतो गुणे" ६।१।९४ इति पररूपत्वे प्राप्ते दीर्घत्वमारभ्यते। तपरकरणं स्वभावत एव यो ह्यस्वस्तस्य दीर्घो यथा तेनोपदेशे वो दीर्घस्तस्य ह्यस्वत्वे कृतेऽपि दीर्घो न भवति--"आच्छि आयामे" (धा।पा।२०९), आच्छ, आच्छतुः, आच्चुरिति। लिट्(), तिपो णल्(), तसोऽतुम्(), झेरुस्(), द्विर्वचने हलादिशेषे "ह्यस्वः" ७।४।५९ किञ्च स्याद्? यद्यत्र दीर्घः स्यात्()? "तस्मारुआउड्()द्विहलः" (७।४।७१) इति नुट्? स्यात्()। "आदेः" इति वचनादिहान्तस्य दीर्घो न भवति--पपाचेत्यादौ॥
बाल-मनोरमा
अत आदेः ९४, ७।४।७०

ततश्च अनुप्रयुज्यमानादस्धातोर्लिटि भूभावनिवृत्तौ णलि एधाम् अस् अ इति स्थिते द्वित्वे हलादिः शेषे अ अस् इति स्थिते सवर्णदीर्घं बाधित्वा अतो गुण इति पररूपे प्राप्ते--अत आदेः। "अत्र लोप" इत्यस्मादभ्यासस्येत्यनुवर्तते। "दीर्घ इण" इत्यतो दीर्घ इति इति च। तदाह--अभ्यासस्येति। अत्र यद्वक्तव्यं तन्नामधातुप्रक्रियायाम् "अ इवाचरति अती" त्यादिग्रन्थस्य व्याख्यानावसरे वक्ष्यते। एधामासेति। नचाऽत्रानुप्युज्यमानाभ्यामस्तिभूभ्यामाम्प्रत्ययवदित्यात्मनेपदं शङ्क्यं, तत्र कृञ्ग्रहणेन प्रत्याहारग्रहणाऽभावस्य भाष्ये उक्तत्वात्। एधामासतुरित्यादीति। एधामासुः। एधामासिथ। एधामासथुः। एधामास। एधामासिव। एधामासिम। इति लिट्प्रक्रिया। एधितेति। लुटस्तादेशे एध्-त इति स्थिते शबपवादस्तस्। लुटः प्रथमस्येति डा। टिलोपः। एधितेति रूपम्। दीधीवेवीटामिति लघूपधगुणो न। एधिताराविति। लुट आताम्। तास् इट्। आतामित्यस्य रौभावः। रि चेति सलोपः। एधितार इति। झस्य रस्। तास्। इट्। रि चेतिसलोपः। रुत्वविसर्गौ। एधितास इति। थासः से। तास् इट्। तासस्त्योरिति सलोपः। एधितासाथे इति। आथाम् टेरेत्वं।तास्। इट्।

तत्त्व-बोधिनी
अत आदेः ७३, ७।४।७०

पररूपापवाद इति। "अपवाद" इत्ययं ग्रन्तो नामधातुप्रक्रियास्थस्वग्रन्थेन सह विरुध्यते। तत्र हि "अ इवाचरति अति। प्रत्ययग्रहणमुपनीय कास्यनेकाजित्युक्तेर्नाम्। औ। अतुः। उः। द्वित्वम् "अतो गुणे", "अत आदेः" इति दीर्घः। णल औ वृद्धि"रित्युक्तत्वात्। हलादिःशेषात्प्रागेव परत्वात् "अत आदे" दिति दीर्घे कृते तु पररूपशङ्कापि तत्र नास्तीति चिन्त्योऽयं ग्रन्थ इति नव्याः।