पूर्वम्: ७।४।७२
अनन्तरम्: ७।४।७४
 
सूत्रम्
भवतेरः॥ ७।४।७३
काशिका-वृत्तिः
भवतेरः ७।४।७३

भवतेरभ्यासस्य अकारादेशो भवति लिटि परतः। बभूव, बभूवतुः, बभूवुः। भवतेः इति कृतविकरननिर्देशादिह न भवति, अनुबभूवे कम्बलो देवदत्तेन। लिटि इत्येव, बुभूषति। बोभूयते।
लघु-सिद्धान्त-कौमुदी
भवतेरः ४००, ७।४।७३

भवतेरभ्यासोकारस्य अः स्याल्लिटि॥
न्यासः
भवतेरः। , ७।४।७३

"बभूव" इति। "भुवो वुग्लुङ्()लिटोः" ६।४।८८ इति वृक्()। "अनुबभूवे" इति। कर्मण्यात्मनेपदम्()। श्तिपा निर्देशी यङ्लुग्निवृत्त्यर्थः--वोभावेति॥
बाल-मनोरमा
भवतेरः ३०, ७।४।७३

भवतेरः। भवतेः- अ इति छेदः। भवतेरिति निर्देशः। भूधातोरित्यर्थः। "इक्()श्तिपौ धातुनिर्देशे" इत्युक्तेः। "अत्र लोपोऽभ्यासस्ये"त्यस्मादभ्यासस्येनुव्रतते। "व्यथो लिटि" इत्यस्माल्लिटीति। भूधातोरभ्यासस्य भवन्नकारः "अलोऽन्त्यस्ये" त्यन्त्यस्योकारस्य भवति। तदाह--- अभ्यासोकारस्येति। "नानर्थकेऽलोन्त्यविधि"रिति तु नेह प्रवर्तते, "अनभ्यासविकारे" इत्युक्तेः।

तत्त्व-बोधिनी
भवेतरः २५, ७।४।७३

"अत्र लोपोऽभ्यसस्ये"ति सूत्रादभ्यासपदमनुवर्तते। अत्र प्राचोक्तं-- भवतेरिति कर्तृनिर्देशाद्भावकर्मणोर्नाऽत्वमिति। व्याख्यातं च तत्पौत्रेण-- "कत्र्रर्थयोः श्तिप्शपोर्निर्देशादित्यर्थ" इति। तन्न। धातुनिर्देशमात्रे श्तिपो विधानात्, शपश्च विकरणत्वनानर्थकत्वात्, कत्र्रर्थके परे विहितस्यापि तस्य श्तिपः शित्त्वसामथ्र्यादेवेह प्रवृत्तेः, अन्यथा त्वदुक्तरीत्या "उपसर्गात्सुनोतिसुवती"त्यादीनामपि भावकर्मणोरप्रवृत्तौ सर्वोपप्लव एव स्यात्, अपसिद्धान्तश्चाऽयमिति स्पष्टमेवाकरदृशाम्। प्रयुञ्जते चकर्मण्यप्यकारं कवयः-- "तस्यातपत्रं बिभरांबभूवे", "विभावरीभिर्विभरांबभूविरे" इत्यादि। एतच्च प्रक्रियाप्रसादग्रन्थदूषणं मनोरमायां स्थितम्।

अत्र नव्याः-- "श्तिपः शित्त्वसामथ्र्यादेवेह शपः प्रवृत्ति"रिति यदुक्तं, तन्नापिबतिर्ग्लायतिरित्यादौ पिबद्यादेशप्रवृत्त्या आत्त्वनिवृत्त्या च शित्त्वस्य चरितार्थत्वात्। एवं च "उपसर्गात्सुनोतिसुवति", "भवतेरः" "ध्यायतेः संप्रसारणं चे"त्यादिनिर्देशादकर्तृवाचिन्यपि परे शवादय इत्येव व्याख्येयम्। अन्यथा "इक्श्तिपौ" इति सूत्रे वक्ष्यमाणस्वग्रन्थेन सह विरोधापत्तेः। केचित्तु-- शित्वात्तिपः सार्वधातुकत्वेन भवतिरित्यादौ "आद्र्धदातुकस्येड्वलादे"रितीडागमनिवृत्त्या, "ब्रावीति"रित्यत्र "ब्राउव ईडि" तीडागमप्रवृत्त्या च शित्त्वं चरितार्थमिति व्याचख्युः, तञ्चिन्त्यम्। "तितुत्रे" त्यनेनेंण्निषेधादाद्र्धधातुकत्वेऽपि क्षत्यभावात्। "ब्राउव ई"डित्यत्र "ब्राउवः परस्य हलादेः पित ईडागम" इत्येतन्मात्रस्य मूले व्याख्यातत्वात्सार्वधातुकस्येति विशेषणाऽभावेऽपि क्षत्यभावात्। न च हलादेःपित्प्रत्ययस्य "सार्व्धातुकस्ये"ति विशेषणाऽभावे ब्राउवो लिटि वच्यादेशे सिपस्थलि उवक्थेत्यत्राऽतिप्रसङ्गः स्यादिति वाच्यं, थलोऽत्र पित्तवाऽभावात्। न च स्थानिवद्भावेन पित्त्वं, श्नः शानचः शित्त्वेन लिङ्गेन क्वचिदनुबन्धकार्येऽप्यनल्विध#आविति तन्निषेधात्। तस्मात्पूर्वोक्तरीत्यैव श्तिपः शित्त्वसाम्रथ्यादकर्तर्यपि शपः प्रवृत्तिरिति ग्रन्थो निराकर्तव्य इत्याहुः। तदपरे न क्षमन्ते। थलः पित्त्वाऽभावे हि "असंयोगाल्लिट्कि"दिति कित्त्वात्? "वचिस्वपी"ति संप्रसारणे सत्युवचिथ उवक्थेति न सिध्येत्, किंतु ऊचिथ ऊक्थेति स्यात्। तस्मात्स्थानिवत्त्वेन थलः पित्त्वेऽभ्युपगते उवक्थेत्यादावतिप्रसङ्गवारणाय "पितः सार्वधातुकस् ईडागम" इति व्याख्यातमेव, तथा च ब्रावीतिरित्यत्र ईडागमप्रवृत्त्या शित्त्वं चरितार्थमिति कैश्चिद्यदुक्तं तदपि सम्यगेवेति॥