पूर्वम्: ७।४।७४
अनन्तरम्: ७।४।७६
 
सूत्रम्
निजां त्रयाणां गुणः श्लौ॥ ७।४।७५
काशिका-वृत्तिः
णिजां त्रयाणां गुणः श्लौ ७।४।७५

निजादीनां त्रयाणां अभ्यासस्य गुणो भवति श्लौ सति। णिजिर् नेनेक्ति। विजिर् वेवेक्ति। विष्लृ वेवेष्टि। त्रिग्रहणम् उत्तरार्थम्, एषां हि वृत्करणम् समाप्त्यर्थं पठ्यते एव इति। श्लौ इति किम्? निनेज।
न्यासः
णिजां त्रयाणां गुणः �आऔ। , ७।४।७५

बहुवचननिर्देशादाद्यर्थो गम्यत इत्यत आह--"एवाम्()" इत्यादि। "णिजिर्? शौचपोषणयोः" (धा।पा।१०९३), "विजिर्? पृथग्भावे" (धा।पा।१०९४), "विष्लृ व्याप्तौ" (धा।पा।१०९५)--इत्येते णिजादयो जौहोत्यादिकाः। "त्रिग्रहणमुत्तरार्थम्()" इति। "भृञामित्()" ७।४।७६ इतीत्त्वम्()। त्रयाणामेव यथा स्यादधिकानां मा भूदित्येवमर्थं त्रिग्रहणम्()। एतदर्थमपि कस्मान्न भवति? इत्यत आह--"एवाम्()" इत्यादि। यद्यत्र त्रिग्रहणं क्रियते निजादीनामन्ते बृत्करणं किमर्थम्()? एतद्गणकारः प्रष्टव्यः, न सूत्रकारः। "अन्यो हि गणकारोऽन्यश्च सूत्रकारः" इत्युक्तं प्राक्। गणकारेणापि वैचित्र्यार्थं वृत्करणं कृतमिति वेदितव्यम्()। विचित्रा हि गणस्य कृतिर्गणकारेण। अथ गुणग्रहणं किमर्थम्(), एकार एव नोच्येत? अशक्यमेवेदं वक्तुम्(); एवं ह्रुच्यमाने द्वेव्यमपि कश्चिद्विजानीयात्()--हलादिशेषापवादोऽयं निजादीनामेकर इति। गुणग्रहणे हि संज्ञाविधाने नियम इतीक एव भवति, हलस्तु हलपादिशेषेण निवृत्तिर्भवति॥
तत्त्व-बोधिनी
निजां त्रयाणां गुणः श्लौ २८८, ७।४।७५

निजाम्। श्लाविति किम्?। निनेज।