पूर्वम्: ७।४।७६
अनन्तरम्: ७।४।७८
 
सूत्रम्
अर्तिपिपर्त्योश्च॥ ७।४।७७
काशिका-वृत्तिः
अर्तिपिपर्त्योश् च ७।४।७७

अर्ति पिपर्ति इत्येतयोः अभ्यासस्य इकारादेशो भवति श्लौ। इयर्ति भूमम्। पिपर्ति सोमम्।
लघु-सिद्धान्त-कौमुदी
अर्तिपिपर्त्योश्च ६१३, ७।४।७७

अभ्यासस्य इकारोऽन्तादेशः स्यात् श्लौ। पिपर्ति॥
न्यासः
अर्तिपिपत्र्योश्च। , ७।४।७७

"इयर्ति, पिपर्ति" इति। "ऋ सृ गतौ" (धा।पा।१०९८,१०९९) "पृ? पालनपूरणयोः" (धा।पा।१०८६), जुहोत्यादिकत्वाच्छपः श्लुः गुणः द्विर्वचनम्(), "उरत्()" ७।४।६६ इत्यत्त्वम्(), अनेनेत्त्वम्(), रपरत्वञ्च। अर्त्तेः "अभ्यासस्यासवर्णे" ६।४।७८ इतीयङ्()। अथार्तिग्रहणं किमर्थम्(), यावता निजादिभ्योऽयं परः पठ()ते। ये च निजादिब्य परे ते सर्व एव च्छान्दसाः, तथा हि तान्? पठित्वा छन्दसीत्युक्तम्()। छान्दसत्वाच्चार्तेः "बहुलं छन्दसि" (७।४।७८) इत्येवं सिद्धम्()? एवं तह्र्रेतज्ज्ञापयति--भाषायामप्यर्त्तेः प्रयोगो भवतीति॥
बाल-मनोरमा
अर्तिपिपत्र्योश्च ३२३, ७।४।७७

अर्तिपिपत्र्योश्च। "अत्र लोपः" इत्यस्मादभ्यासस्येति, "भृञामि"दित्यस्मात् इदिति, "निजां त्रयाणा"मित्यतः श्लाविति चानुवर्ततते इत्यभिप्रेत्य शेषं पूरयति--- अभ्यासस्येत्यादिना। तथाच अभ्यासे ऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य गुणे रपरत्वे पिपर्तीति वक्ष्यति। तत्र उत्तरखण्डे ऋकारस्य उत्वं शङ्कितुमाह--

तत्त्व-बोधिनी
अर्तिपिपत्र्योश्च २७९, ७।४।७७

अर्तिपिपत्र्योश्च। अर्तेरुदाहरणमियतीति वक्ष्यति।