पूर्वम्: ७।४।७७
अनन्तरम्: ७।४।७९
 
सूत्रम्
बहुलं छन्दसि॥ ७।४।७८
काशिका-वृत्तिः
बहुलं छन्दसि ७।४।७८

छन्दसि विषये अभ्यासस्य श्लौ बहुलम् इकारादेशो भवति। पुर्णां विवष्टि। वशेरेतद् रूपम्। तथा वचेः जनिमा विवक्ति। सचेः वत्सं न माता सिषक्ति। जघर्ति सोमम्। न च भवति। ददाति इत्येवं ब्रूयात्। जजनदिन्द्रम्। माता यद्वीरं दधनद्धनिष्ठा।
न्यासः
बहुलं छन्दसि। , ७।४।७८

"विविष्टि" इति। "वश कान्तौ" (धा।पा।१०८०), "बहुलं छन्दसि" २।४।७६ इति शपः श्लुः, व्रशस्चादिसूत्रेण ८।२।३६ षत्वम्()। "विवक्ति" इति। "वच परिभाषणे" (धा।पा।१८४२)। "सिषक्ति" इति। "सच समवये" (धा।पा।९९७), "सच सेचने" (धा।पा।१६३) इति वा। "जिगर्त्ति, जिघर्त्ति" इति। "गृ घृ सेचने" (धा।पा।९३७,९३८)। सर्वत्र पूर्ववच्छपः श्लुः। "जजनम्(), दधनम्()" इति। "जन जनने" (धा।पा।११०५), "धन धान्ये" (धा।पा।११०४)। लुङ्()मिपोऽम्(), जुहोत्यादित्वाच्छपः श्लुः; "बहुलं छन्दस्यामाङ्योगेऽपि" ६।४।७५ इत्यङ्()निषेधः॥