पूर्वम्: ७।४।७८
अनन्तरम्: ७।४।८०
 
सूत्रम्
सन्यतः॥ ७।४।७९
काशिका-वृत्तिः
सन्यतः ७।४।७९

सनि परतो ऽकारान्ताभ्यासस्य इकारादेशो भवति। पिपक्षति। यियक्षति। तिष्ठासति। पिपासति। सनि इति किम्? पपाच। अतः इति किम्? लुलूषति। तपरकरणं किम्? पापचिषते।
लघु-सिद्धान्त-कौमुदी
सन्यतः ५३५, ७।४।७९

अभ्यासस्यात इत् स्यात् सनि॥
न्यासः
सन्यतः। , ७।४।७९

"पिपक्षति" इत्यादि। पचियज्यो रूपे। "पिपासति" इति। पातेः, पिबतेर्वा। "लुलूषति" इति। "लूञ्? छेदने" (धा।पा।१४८३)। "इको झल्()" १।२।९ इति कित्त्वाद्गुणाभावः। "सनि ग्रहगुहोश्च" ७।२।१२ इतीट्प्रतिषेधः। तपरकरणं किमर्थम्()? पापच्यतेः सन्? पापचिषत इत्यत्र मा भूत्()। किं पुनः कारणमत्र ह्यस्वो न भवति? दीर्घविधानसामथ्र्यात्()। यदि "सनि योऽभ्यासः" इत्येवं विज्ञायेत, [विज्ञायते-प्रांउ। पाठः] ततो मुखसुखार्थम्()॥
बाल-मनोरमा
सन्यतः १५७, ७।४।७९

सन्यतः।सनि-अत इति च्छेदः। "अत्र लोप" इत्यतोऽभ्यासस्येत्यनुवर्तते। "भृञामि"दित्यस्मादिदिति। तदाह--अभ्यासस्येति। कि कम् अ त इति स्थितम्।

तत्त्व-बोधिनी
सन्यतः १३१, ७।४।७९

"अत्र लोपोऽभ्यसस्ये"त्यतोऽभ्यासस्येति, "भृञामि" दित्यत इद्ग्रहणं चानुवत्र्तते। तदाह-- अभ्यासस्येत्यादि। तपरकरणं किम्?। पापच्यतेः सन्। पापचिषते। न च सनि योऽभ्यासः सन्निमित्त इति विज्ञानात्तरपरकरणाऽभावेऽपि नोक्तातिप्रसङ्गः, अभ्यासस्येह यङ्निमित्तत्वादिति वाच्यं, तादृशविवक्षायामधीषिषति प्रतीषिषतीत्यादावव्याप्तः। न हि कार्यी निमित्तत्वेनाश्रीयते। यद्याश्रीयेत तर्हि "द्विर्वचनेऽची"ति निषेधेन रिस्()शब्दस्य द्वित्वाऽप्रवृत्तावरिरिषतीत्यादि न सिध्येत्। नन्वेवं पिपक्षतीत्यादावपव्याप्तिः, अभ्यासस्य सन्परत्वाऽभावात्। न च "येन नाव्यवधान" न्यायेन सन्प्रकृत्या व्यवहितेऽप्यभ्यासस्येत्वं स्यादेवेति वाच्यं, प्रतीषिषतीत्यादावभ्यासस्याऽव्यवहितसन्परत्वसंभवादुक्तव्यायस्याऽप्रवृत्तेरिति चेत्। अत्राहुः-- सना धातुमाक्षिप्य सनि सति यो धातुः सन्नन्तस्तदीयाभ्यासस्येति व्याख्यानान्नोक्तदोषः। न च सनि परे अभ्यासस्येति यथाश्रुतं परित्यज्योक्तव्याख्याने किं मानमिति वाच्यम्, तपरकरणस्यैव तत्र मानत्वात्। किं च अकारग्रहणमपि तत्र मानम्। अन्यथा "सन" इत्येव ब्राऊयात्, तावताप्यधीषिष[ति प्रतीषिष] तीत्यादावित्त्वप्रृत्तिसिद्धेरिति।