पूर्वम्: ७।४।८३
अनन्तरम्: ७।४।८५
 
सूत्रम्
नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्॥ ७।४।८४
काशिका-वृत्तिः
नीग् वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ७।४।८४

वञ्चु स्रंसु ध्वंसु भ्रंसु कस पत पद स्कन्द इत्येतेषाम् अभ्यासस्य नीगागमो भवति यङि यङ्लुकि च। वञ्चु वनीवच्यते। वनीवञ्चीति। स्रंसु सनीस्रस्यते। सनीस्रंसीति। ध्वंसु दनीध्वस्यते। दनीध्वंसीति। भ्रंसु बनीभ्रस्यते। बनीभ्रंसीति। कस चनीइकस्यते। चनीकसीति। पत पनीपत्यते। पनीपतीति। पद पनीपद्यते। पनीपदीति। स्कन्द चनीस्कद्यते। चनीस्कन्दीति।
न्यासः
सन्योरिति सप्तम्यन्तमिदं वा स्यात्?? षष्ठ�न्तं वा? तत्र यदि सप्तम्यन्तं स्यात् तदायमर्थः स्यात्?--सन्यङोः परत इति, ततश्चेटः सन्भक्तत्वात्? सन्ग्रहणेनेन ग्रहणात्?, सनश्चेह द्विर्वचननिमित्तत्त्वान्निमित्तस्य च कार्यिणोऽयोगादिटो द्विर्वचनं न स्यात्?, ततश्चाटिटिषतीत्यादि न सिद्ध्येत्?। षष्ठ�न्ते त्वस्मिन्? प्रत्ययग्रहणपरिभाषया (भो।पसू।७) तदन्त उपस्थापिते सत्ययमर्थो जायते--सनन्तस्य यङन्तस्य च यः प्रथम एकाज्? द्वितीयो वा तेनेटो द्विर्वचनं भवतीति। तथा चाटिटिषतीत्यादि सिध्यतीत्यतदालोच्याऽ‌ऽह--॒सन्यङोरिति षष्ठ�न्तमेतत्? इति। अत्र च ज्ञापको योगविबाग इति। यदि हि ॒सन्यङोः॑ इति सप्तम्यन्तं स्यात्? ॒श्लुसन्यङः॑ इत्येकमेव योगं कुर्यात्?। ननु चासत्यपि प्रयोजने ज्ञापकमस्ति, अस्ति चेह योगविभागस्य प्रयोजनम्?, किं तत्?? सामथ्र्याद्यथासंख्यं यथा स्यात्?--सनि प्रथमस्य, यङि द्वितीयस्येति? नैतदस्ति; यदि ह्रत्र यथासंख्यमभिप्रेतं स्यात्? तदा ॒नीग्वञ्चु॑ , ७।४।८४

"अटाट()ते" इति। यङ्()विधौ "सूचिसूत्रिमूत्र्यट()त्र्यशूर्णोतीनामुपसंख्यानम्()" (वा।१९८) ति यङ्()। "र्प्रोर्णोनूयते" इति। "अकृत्()सार्वधातुकयोः" ७।४।२५ इति दीर्घः। "जुगुप्सिषते" इति। गुपेः "गुप्तिज्किद्भ्यः सन्()" (३।१।५) ति सन्? तदन्तात्? "धातोः कर्मणः समानकर्तृकात्()" ३।१।७ इत्यादिनेच्छायां पुनः सन्()। "लोलूयिषते" इति। यङ्न्तात् सन्()॥
न्यासः
नीग्वञ्चुरुआंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्?। , ७।४।८४

"वन्चु चन्चु तन्चु त्वन्चु भ्रुन्चु ग्लुन्चु ["मुन्चु" इति प्रांउ। न्यासपाठः] गत्यर्थाः" (धा।पा।१८९-१९४)। "रुआन्सु ध्वन्सु अवरुआंसने" (धा।पा।७५४,७५५), "कस गतौ" (धा।पा।८६०) "शल हुल पत्लृ गतौ" (धा।पा।८४३-८४५), "स्कन्दिर्? गतिशोषणयोः" (धा।पा।९७९)। "वनीवच्यते" इति। "अनिदिताम्()" ६।४।२४ इत्यादिनानुनासिकलोपः। "वनीवञ्चीति" इति। अत्र न भवत्यनुनासिकलोपः। यङी लुप्तत्वात्? "न लुमताङ्गस्य" १।१।६२ इति प्रत्ययलक्षणनिषेधात्()। अथ नीकि कृते ह्यस्वत्वं कस्मान्न भवति? दीर्घोच्चारणसामर्थायत्()॥
तत्त्व-बोधिनी
नीग्वञ्चुरुआंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ४०५, ७।४।८४

इत्यादीति। दनीध्वनस्यते। बनीभ्रस्यते। चनीकस्यते। पनीपत्यते। पनीपद्यते। चनीस्कद्यते। एं वनीञ्चीति सनीरुआंतीति दनीध्वंसीतीत्यादि यङ्लुक्युदाहर्तव्यम्।

*हन्तेर्हिसायां यङि घ्नीभावो वाच्यः। घ्नीभाव इति। ह्नीभावे कृतेऽपि "अभ्यासाच्चे"ति कुत्वेन जेघ्नीयत इति सिध्यति, तथापि प्रक्रियालाघवाय "घ्नी"त्युक्तमिति मनोरमा। अन्ये तु "सेर्हिः" "मेर्नि"रिति इकारोच्चारणसामथ्र्याद्यता "एरु"रित्युत्वं न भवति तथा ह्नीभावे हि कृते "अभ्यासाच्चे"ति कुत्वं न स्यादित्याशयेन घ्नीभावः कृत इत्याहुः। अत्र च दिग्यादेशेनैव घ्रीभावेन द्वित्वं न बाध्यते पुनः प्रसङ्गविज्ञानादिति केचित्। वस्तुतस्तु यङन्तावयवस्य द्वितीयाऽवजवधिकस्य द्वित्वं, ध्नीभावस्तु प्रकृतिमात्रस्येति विषयभेदाद्द्वत्वं निर्बाधमेव।