पूर्वम्: ७।४।८४
अनन्तरम्: ७।४।८६
 
सूत्रम्
नुगतोऽनुनासिकान्तस्य॥ ७।४।८५
काशिका-वृत्तिः
नुगतो ऽनुनासिकान्तस्य ७।४।८५

अनुनासिकान्तस्य अङ्गस्य यो ऽभ्यासः तस्य अकारान्तस्य नुगागमो भवति यङ्यङ्लुकोः परतः। तन्तन्यते। तन्तनीति। जङ्गम्यते। जङ्गमीति। यंयम्यते। यंयमीति। रंरम्यते। रंरमीति। नुकित्येतदनुस्वारोपलक्षणार्थं द्रष्टव्यम्। स्थानिना हि आदेशो लक्ष्यते। तेन यंयम्यते इत्येवम् आदौ अझल्परत्वे ऽपि अनुस्वारो भवति। पदान्तवच्चेति वक्तव्यम्। वा पदान्तस्य ८।४।५८ इति परसवर्नविकल्पो यथा स्यातिति। अतः इति किम्? तेतिम्यते। तपरकरणं तु भूतपूर्वस्य अपि दीर्घस्य निवृत्त्यर्थम्, बाभम्यते। अनुनासिकान्तस्य इति किम्? पापच्यते।
न्यासः
नुगतोऽनुनासिकान्तस्य। , ७।४।८५

"दीर्घोऽकितः" ७।४।८३ इत्यनेन दीर्घत्वे प्राप्ते वचनमिदमारभ्यते। "तन्तन्यते" इत्यादीनि तमिगमियमिरमीणां रूपाणि। यदि नुक्? क्रियते, यम्यम्यते इत्यादौ "नश्चापदान्तस्य झलि" ८।३।२४ इति झल्युच्यमानोऽनुस्वारो न सिध्यति, अझल्परत्वात्()? इत्यत आह--"नुगित्ये तत्()" इत्यादि। कथं पुनर्नुगित्येतदनुस्वारोपलक्षणार्थं शक्यते द्रष्टुम्()? इत्याह--"स्थानिना हि" इत्यादि। नुका हि स्थानिनाऽत्रादेशोऽनुस्वार उपलक्ष्यते। तस्मादनुस्वार एवागमोऽत्र विधीयते, न तु नुक्()। यम्यम्यत इत्यादौ यद्यप्यझल्परताऽस्ति, तथाप्यनुस्वारः सिध्यति। एवं "अनुस्वारस्य ययि परसवर्णः" ८।४।५७ प्राप्नोति, इष्यते च पक्षेऽनुस्वारस्य श्रवणम्(), तन्न सिध्यति, अपवान्तत्वात्()? इत्यत आह--"पदान्तवच्च" इत्यादि। पदान्तवदनुस्वारो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--तदन्तविधिर्नवानुनासिकान्तस्यानुस्वारो भवतीति नार्थोऽन्तग्रहणेन, तत्क्रियते--पदान्तस्यानुत्वारस्य यो धर्मा स नुकोऽपि स्यादित्येवमर्थम्(); तेनानुस्वारस्य पक्षे श्रवणं भविष्यतीति। "तेतिम्यते" इति। "तिम ष्टिम आद्र्रीभावे" (धा।पा।११२३,११२४)। अथ तपरकरणं किमर्थम्(), यावता नास्ति किञ्चिदन्यदस्य व्यावत्र्यमिति सर्वत्र ह्यस्वाभावात्()? इत्यत आह--"तपरकरणम्()" इत्यादि। वत्र्तमानस्य दीर्घस्याभावाद्भूतपूर्वस्यापि दीर्घस्य निवृत्त्यर्थं तपरकरणं भविष्यतीति। "बाभाम्यते" इति। "भाम क्रोधे" (धा।पा।४४१)॥