पूर्वम्: ७।४।८६
अनन्तरम्: ७।४।८८
 
सूत्रम्
चरफलोश्च॥ ७।४।८७
काशिका-वृत्तिः
चरफलोश् च ७।४।८७

चर फल इत्येतयोः अभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः। पञ्चूर्यते। पञ्चूरीति। पम्फुल्यते। पम्फुलीति।
न्यासः
चरफलोश्च। , ७।४।८७

"चर गतौ" (धा।पा।५५९)। "ञि फला विशरणे" (धा।पा।५१६), "फल निष्यत्तौ" (धा।पा।५३०)-द्वयोरपि ग्रहणम्()। निष्यत्त्यर्थस्याकार उच्चारणार्थः, नानुबन्धः, प्रयोजनाभावात्(), ततश्च निरनुबन्धकपरिभाषया (व्या।प।५३) निरनुबन्धस्य निष्पत्त्यर्थस्यैवास्य ग्रहणं प्राप्नोति, न विशरणार्थस्य? नैष दोषः; चकारोऽत्र क्रियते, स च विशरणार्थस्य समुच्चयार्थो भविष्यति। "चञ्चूर्यते" इति। "लुपसद" ३।१।२४ इत्यादिना यङ। उत्तरसूत्रेणाकारस्योकारे कृते "हलि च" ८।२।७७ इति दीर्घः। योगभाग उत्तरार्थः॥