पूर्वम्: ७।४।८७
अनन्तरम्: ७।४।८९
 
सूत्रम्
उत् परस्यातः॥ ७।४।८८
काशिका-वृत्तिः
उत् परस्य अतः ७।४।८८

चरफलोः अभ्यासात् परस्य अतः उकारादेशो भवति यङ्यङ्लुकोः परतः। चञ्चूर्यते। चञ्चूरीति। पम्फुल्यते। पम्फुलीति। परस्य इति किम्? अभ्यासस्य मा भूत्। अतः इति किम्? अलो ऽन्त्यस्य मा भूत्। उदिति तपरकरणं चञ्चूर्ति, पम्फुलीति इत्यत्र लघूपधगुणनिवृत्त्यर्थम्। दीर्घस्य असिद्धत्वातिह लभुत्वं न निवर्तते।
न्यासः
उत्परस्यातः , ७।४।८८

"अभ्यासस्य मा भूत्()" इति। असति परग्रहणेऽभ्यासाधिकारादभ्यासस्यैव स्यादित्यभिप्रायः। "अलोऽन्त्यस्य मा भूत्()" इति। यदि "अतः" इति नोच्येत, ततोऽलोऽन्त्य (१।१।५२) परिभाषयाऽभ्यासात्परस्य धातुरूपस्य योऽन्त्योऽल्? तस्य स्यादिति मन्यते। अथ तपरकरणं किमर्थम्(), यावता मात्रिकस्य स्थान आन्तरतम्याद्विधीयमानो मात्रिक एव भविष्यति? इत्यत आह--"तपरकरणम्()" इत्यादि। असति तपरकरण उकारे कृते चञ्चूर्ति, पम्फुल्तीत्यत्र "पुगन्तलघूपधस्य" ७।३।८६ इति गुणः स्यात्(), स मा भूदित्येवम्रथं तपरकरणं क्रियते। ननु चञ्चूर्तीत्यत्र दीर्घत्वमेव गुणस्य बाधको भविष्यति, तत्किमेतन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह--"दीर्घत्वम्()" इत्यादि। असिद्धत्वं तु "पूर्वत्रासिद्धम्()" ८।२।१ इत्यनेन। यदि तर्हि लक्षणान्तरेण प्राप्तो गुणस्तपरकरणेन निवत्र्तते, गुणवद्दीर्घत्वमपि न स्यात्()/ नैष दोषः; तपरकरणे हि दीर्घत्वमपि सिद्धमिति। तेन दीर्घस्य निवृत्तिर्न शक्यते वक्तुम्()। तथा च --"अत उत्? सार्वधातुके" ६।४।११० इति तपरकरणेन दीर्घत्वमशक्यं निवत्र्तयितुमिति मन्यमानेन "न भकुर्च्छुराम्()" ८।२।७९ इति करोतेर्दीर्घत्वप्रतिषेध आरभ्यते। अत इति तपरकरणमिह मा भूत्()--फलन्तं प्रयुङ्क्ते फालयति, फालयतेः क्विप्(), तदन्तात्? "आचारे पुनः सर्वप्रातिपदिकेभ्यः" (वा।१८६()) इति क्विप्(), तदन्ताद्यङ्()--पन्फाल्यते, पम्फालोति। कथञ्च प्राप्नोति? एकदेशविकृतस्यानन्यत्वात्()॥