पूर्वम्: ७।४।९२
अनन्तरम्: ७।४।९४
 
सूत्रम्
सन्वल्लघुनि चङ्परेऽनग्लोपे॥ ७।४।९३
काशिका-वृत्तिः
सन्वल् लघुनि चङ्परे ऽनग् लोपे ७।४।९३

लघुनि धात्वक्षरे परतो यो ऽभ्यासः तस्य चङ्परे णौ परतः सनीव कार्यं भवति अनग्लोपे। सन्यतः ७।४।७९ इत्युक्तम्, चङ्परे ऽपि तथा। अचीकरत्। अपीपचत्। ओः पुयण्ज्यपरे ७।४।८० इत्युक्तम्, चङ्परे ऽपि तथा। अपीपवत्। अलीलवत्। अजीजवत्। स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ७।४।८१ इत्युक्तम्, चङ्परे ऽपि तथा। असिस्रवत्, असुस्रवत्। अशिश्रवत्, अशुश्रवत्। अदिद्रवत्, अदुद्रवत्। अपिप्रवत्, अपुप्रवत्। अपिप्लवत्, अपुप्लवत्। अचिच्यवत्, अचुच्यवत्। लुघुनि इति किम्? अततक्षत्। अररक्षत्। जागरयतेः अजजागरत्। अत्र केचिद् गशब्दम् लभुमाश्रित्य सन्बद्भावम् इच्छन्ति, सर्वत्रैव लघोरानन्तर्यम् अभ्यासेन न अस्ति इति व्यवधाने ऽपि वचनप्रामाण्याद् भवितव्यम्, तदसत्। येन न अव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यातित्येकेन व्यवधानम् आश्रीयते, न पुनरनेकेन। यद्येवम्, कथम् अचिक्षणतिति? आचार्यप्रवृत्तिर् ज्ञापयति भवत्येवं जातीयकानाम् इत्त्वम् इति। यदयं तद् बाधनार्थं सम्रत्यादीनाम् अत्वम् विदधाति। चङ्परे इति किम्? अहं पपच। परग्रहणं किम्? चङि एव केवले मा भूत्, अचकमत। अनग्लोपे इति किम्? अचकथत्। दृषदमाख्यातवानददृषत्। वादितवन्तं प्रयोजितवानवीवदतित्यत्र यो ऽसौ णौ णेर्लोपो नासावग्लोप इत्याश्रीयते। किं कारणम्? चङ्परे इति णिजातेर् निमित्तत्वेन आक्षेपात्, ततो ऽन्यस्य अको लोपः परिगृह्यते। मीमादीनाम् अत्र ग्रहणात् सन्वद्भावेन अभ्यासलोपो न भवति इत्युक्तम्। किं च सन्वतिति सनाश्रयं कार्यमतिदिश्यते, न च लोपः सनम् एव अपेक्षते, किं तर्हि, इस्भावाद्यपि। तदभावातमीमपतित्यादौ अभ्यासलोपो न भविष्यति।
लघु-सिद्धान्त-कौमुदी
सन्वल्लघुनि चङ्परेऽनग्लोपे ५३४, ७।४।९३

चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरः, तस्य सनीव कार्यं स्याण्णावग्लोपेऽसति॥
न्यासः
सन्वल्लघुनि चङ्परेऽनग्लोपे। , ७।४।९३

"सन्यतः" ७।४।७९ इत्यादिना सूत्रत्रयेण यदभ्यासस्य सनि कार्यं भवति तल्लघुनि चङ्पर इत्यतिदिश्यते। "लघुनि" "चङ्परे" इति। व्यधिकरणे सप्तम्यौ--चङपरे णौ परतो यत्? पूर्वं लघु तस्मिन्? परतो योऽभ्यासस्तस्य सन्वद्भवतीति। "चङपरे" इति बहुव्रीहिः--चङ्? परो यस्मादिति तच्चङ्परम्(); न तु चङ्? चासौ परश्चेति तत्पुरुष। तेन सामथ्र्याण्ण्यन्तस्यैवायमतिदेशो विज्ञायते; अन्यथा हि यदि प्रकृत्यन्तस्यायमतिदेशः स्यात्(), तदा "सन्वच्चङि" इत्येवं ब्राऊयात्()। "अनन्लोपे" इति। "चङ्परे" इत्यस्यैतद्विशेषणम्()। अगिति प्रत्याहारग्रहणम्। अको लोपोऽग्लोपः, स यस्य नास्ति तदनग्लोपम्()। "अपीपचत्()" इति। पचेर्णित्(), लुङ्(), च्लेश्चङ्(), उपधाह्यस्वत्वम्(), द्विर्वचनमभ्यासकार्यम्(), हलादिशेषे च कृतेऽनेन सन्वद्भावः, "सन्यतः" ७।४।७९ इतीत्त्वम्(), उत्तरसूत्रेण ७।४।९४ दीर्घत्वम्()। "अततक्षत्(), अररक्षत्()" इति। अत रेफतकारयोः संयोगपरत्वाद्? गुरुसंज्ञायां सत्यां न भवति सन्वद्भावः। "अजजागरत्()" इति। अत्र जकाराकारस्य दीर्घत्वाद्गुरुत्वम्()। "अत्र केचित्()" इत्यादि। तेषां "अजीजागरत्()" इति भवितव्यम्()। किं पुनः कारं त एवमिच्छन्ति, यावता लघुनि चङ्पर इत्यच्यते, व्यवहितश्चात्र लघुनि चङ्परे? इत्यत आह--"सर्वत्रैव" इत्यादि। "अचीकरत्()" इत्यादावपि ककारादिना वर्णेन व्यवधानाल्लघोरानन्तर्यमभ्यासे नास्ति; उच्यते चेदं वचनम्(), अतो वचनप्रामाण्या द्वय्वधान एव सन्वद्भावेन भवितव्यम्()। ततश्च यथा "अचीकरत्()" इत्यादौ व्यवधानेऽपि भवति, तथेहापि व्यवधाने सन्वत्कार्येण भवितव्यम्()। अथ चेद्व्यवधानान्न भवति, अत्रापि न स्यादिति भावः। "तदसत्()" इति। "अजजागरत्()" इत्यत्र गृशब्दं लघुमाश्रित्य यत्? सनवद्भावमिच्छन्ति, सर्वत्रैवेत्यादिना च यत्? कारणमुक्तम्(), तदुभयमत्राशोभनम्(); अयुक्तत्वात्()। कथम्()? इतयाह--"येन" इत्यादि। एकेन वर्णेन व्यवधानमस्ति सर्वत्र। वर्णसङ्घातेन व्यवधानमस्ति नास्ति च। तत्र "येन नाव्यधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्()" (व्या।प।४६) इति यन्नियतभाव्येकेन वर्णेन व्यवधानमशक्यं परिहर्त्तुम्(), तदेवाश्रीयते, न तु वर्णसङ्गातेन। "अजजागरत्()" इत्यत्र वर्णसङ्घातेन व्यवधानम्()। यदि तर्हि वर्णसङ्घातेन व्यवधानं नाश्रीयते, व्यञ्जनसङ्घातेन व्यवधाने न सिद्धयति? इत्यभिप्रायेणाह--"कथमचिक्षणत्()" इत्यादि। "क्षणु हिंसायाम्()" (धा।पा।१४६५) इत्येतस्यैतद्रूपम्()। अत्रापि ज्ञापकेन सिद्ध्यतीत्यत आह--"आचार्यप्रवृत्तिः" इत्यादि। क्षणोतिना ये सदृशाः संयोगादयस्त एवञ्जातीयाः। क्षणोतिप्रकारः इत्यर्थः। तेषां यदीत्त्वं न स्यात्(), तदा तद्बाधनार्थं "अत्स्मृदृ()त्वरप्रथभ्रद" ७।४।९५ इत्यादिनात्त्वं न विदध्यात्(), विदधाति च। तस्मादेतदेवात्त्वविधानलक्षणमाचार्यप्रवृत्तिज्र्ञापयति--"भवत्येवञ्जातीयकानामित्त्वम्()" इति। "अहं पपच" इति। उत्तमे णलि यदा "णलुत्तमो वा" ७।१।९१ इति णित्त्वं नास्ति तदेदं प्रत्युदाहरणं भवति। अत्र लघुपरतोऽक्षरम्(), न तु चङ्परम्()। "अचकमत" इत्यादि। कमेश्चोपसंख्यानम्()" (वा।२०८) इति "कमु कान्तौ" (धा।पा।४४३) इत्येतस्मात्? प्रकृत्यन्तादेव लुङ्(), चङ्()। "अचकथत्()" इति। "कथ वाक्यप्रबन्धे" (धा।पा।१८५१) चुरादावदन्तः। अत्र "अतो लोपः" ६।४।४८ इत्यकारलोपः। अत्र त्वग्लोपस्य स्थानिवद्भावे सति व्यवधानेऽपि न स्यात्()। अतः प्रत्युदाहरणान्तरमाह--"दृषदमाख्यदददृषत्()" इति। "तत्करोति तदाचष्टे" (वा।२००()) इति णिच्()। "णाविष्ठवत्? कार्यं प्रातिपदिकस्य" (वा।८११) इतीष्ठवद्भावाट्टिलोपः। अत्राज्झलोर्लोपः, नाक एव केवलस्येति नास्त्यत्र स्थानिवद्भावः। अन्यार्थं त्वग्लोप इति क्रियमाणमचकथदित्यत्रापि सन्वद्भावं निवत्र्तयतीत्यस्योपन्यासः। "अवीवदत्()" इति। वदतेण्र्यन्ताद्? वादितवन्तं प्रयोजितवानिति "हेतुमति च" ३।१।२६ इति णिच्(), पुनर्णिच्युत्पन्ने "णेरनिटि" ६।४।५१ इति णिलोपे कृते सत्यप्यग्लोप्यङ्गं भवति, अतो न भवितव्यं सन्वद्भावेनेति यो मन्यते, तं प्रत्याह--"वादितवन्तं प्रयोजितवान्()" इत्यादि। "चङ्परे" इत्यादिना णिलोपस्याग्लोपित्वेनानाश्रयणे कारणमाह। "चङपरे" इत्यनेन हि सन्वद्भावनिमित्तेन णिजातिराक्षिप्ता। तस्माद्गोबलीवर्दन्यायेन णिजातिर्निमित्तत्वेनाश्रीयते। अतो णिजातेरन्यस्याको लोपः प्रतिषेधनिमित्तत्वेन परिगृह्रते, न तु तस्या एव णिजातेः। तस्माण्णिलोपस्याग्लोपित्वेनानाश्रयणात्? तल्लोपेऽग्लोप्यङ्गं न भवति। अतो भवत्येवात्र सन्वद्भावः। सन्वदित्यतिदेशेन यथाचीकरदित्यादावभ्यासस्येत्त्वं भवति तथामीमपदित्यादावप्यभ्यासलोपेन मीमादीनां भवितव्यमिति यश्चोदयेत्(), तं प्रत्याह--"मीमादीनाम्()" इत्यादि। आदिशब्देन ध्वादीनां ग्रहणम्()। "किञ्च" इत्यादिना परीहारान्तरम्()। सन्वदित्यतिदेशेन हि सनाश्रयणेव कार्यमतिदिश्यते। सनाश्रयञ्च किं कार्यम्()? यत्? सनमपेक्षते, नापरं किञ्चित्()। न च "अत्र लोपेऽभ्यासस्य" ७।४।५८ इत्यनेन विधीयमानो लोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। आदिशब्देन ध्वादीनां ग्रहणम्()। "किञ्च" इत्यादिना परोहारान्तरम्()। सन्वदित्यतिदेशेन हि सनाश्रयमेव कार्यमतिदिश्यते। सनाश्रयञ्च किं कार्यम्()? यत्? सनमपेक्षते, नापरं किञ्चित्()। न च "अत्र लोपेऽभ्यासस्य" ७।४।५८ इत्यनेन विधीयभानो लोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। आदिशब्देन--"अब्ज्ञप्यृधामीत्()" ७।४।५५ इतीत्त्वम्(), "मुचोऽकर्मकस्य" ७।४।५७ इति गुणश्च परिगृह्रते। तेन "अभीमपत्()" इत्यादाविसादेशो न भवति। अभ्यासलोपेऽपि न भवतीत्यभिप्रायः॥
तत्त्व-बोधिनी
स्वल्लघुनि चङ्परेऽनग्लोपे १३०, ७।४।९३

चङ्पर इत्येतावतैव णिरिति न लभ्यते, श्रिद्रुरुआउवामपि चङ्परत्वात्। अत आह-- "अह्गसंज्ञानिमित्तमिति। अङ्गस्याभ्यास इति। अङ्गस्य ये द्वे विहिते तयोः पूर्वोऽभ्यास इत्यर्थः। अङ्गस्येति नावर्तत इति। अ()स्मस्तु व्याख्याने "चङ्परे" इत्येतावतैव णिरिति लभ्यते, श्रिद्रुरुआउषु परेषु अङ्गत्वाऽसंभवादतो व्याचष्टे-- चङ्परे णौ यदङ्गमिति। चङपरे इत्यस्यैव व्याख्यानं "णा"विति ज्ञेयम्। अनग्लोपे किम्?। अचकथत्।