पूर्वम्: ७।४।९५
अनन्तरम्: ७।४।९७
 
सूत्रम्
विभाषा वेष्टिचेष्ट्योः॥ ७।४।९६
काशिका-वृत्तिः
विभाषा वेष्टिचेष्ट्योः ७।४।९६

वेष्टि चेष्टि इत्येतयोः अभ्यासस्य विभाषा अतित्ययम् आदेशो भवति चङ्परे णौ परतः। अववेष्टत्, अविवेष्टत्। अचचेष्टत्, अचिचेष्टत्। अभ्यासह्रस्वत्वे कृते अत्त्वं पक्षे भवति।
न्यासः
विभाषा वेष्टिचेष्ट्योः। , ७।४।९६

"वेष्ट वेष्टने" (धा।पा।२५५), "चेष्ट चेष्टायाम्()" (धा।पा।२५६)--एतयोरभ्यासस्य लघुपरता नास्तीत्यप्राप्त एव सन्वद्भाव इति अनेन विभाषाऽकारो विधीयते॥
बाल-मनोरमा
विभाषा वेष्टिचेष्ट्योः ४११, ७।४।९६

विभाषा वेष्टिचेष्ट्योः। "अत्र लोपः" इत्यस्मादभ्यासस्येत्यनुवर्तते। "अत्स्मृदृ()त्वरे" त्यतोऽदिति, "सन्वल्लघुनी"इत्यतश्चङ्परे इति। चङ् परो यस्मादिति बहुव्रीहिः। णावित्यार्थिकम्। तदाह -- अभ्यासस्याऽत्त्वमिति। अबिभ्रजदिति। उपधाह्यस्वपक्षे लघुपरत्वात्सन्वत्त्वादभ्यासस्य इत्त्वम्। "दीर्घो लघो"रिति तु न, संयोगापरत्वादलघुत्वात्। काण्यादीनां वेति। "णौ चङ्युपधाया इति ह्यस्व" इति शेषः। ण्यन्ताः कणरणेति। "कण निमीलने" "रण शब्दे", "भण शब्दे" "श्रण दाने", "लुप छेदने", "हेठ विबाधाया"मिति षट् धातवो ण्यन्ताः काण्यादयो भाष्ये पठिता इत्यर्थः। ह्वायीति। "ह्वेञ् स्पर्धायां शब्दे च"। आत्त्वे युकि च निर्देशः। "वण शब्दे" दन्त्योष्ठ()आदिः, "लुठ प्रतिघाते"टवर्गद्वितीयोपधः, "लप व्यक्तायां वाचि"ति चत्वारो ण्यन्ता भाष्योक्तेभ्योऽधिका न्यासग्रन्थे पठिता इत्यर्थः। चाणिलोटी इति। "चण दाने" तालव्यादिः। "लुट स्तेये" टवर्गप्रथमान्तो भ्वादिः। चुरादौ भाषार्थकोऽपि। एतावपि ण्यन्तौ द्वौ भाष्यन्यासग्रन्थाभ्यामन्यत्र क्वचिद्ग्रन्थे पठितावित्यर्थः। इत्थं द्वादशेति। अनेन मतभेदेन काण्यादयो द्वादशेत्यर्थः। अचीकणदिति। उपधाह्यस्वपक्षे लघुपरत्वात्सन्वत्त्वदीर्घौ च। अचकाणदिति। उपधाह्यस्वाऽभावपक्षे रूपम्। अरीरणत्- अरराणत्। अबीभणत्- अबभाणत्।अशिश्रणत्- अशश्राणत्। अलूलुपत्-अलुलोपत्। अजीहिठत्-अजिहेठत्। अजूहवत्-अजुहावत्। अवीवणत्- अववाणत्। अलूलुठत् - अलुलोठत्। अलीलपत- अललापत्। अचीचमत्- अचचाणत्। अलूलुटत्- अलुलोटत्।