पूर्वम्: ८।१।१३
अनन्तरम्: ८।१।१५
 
सूत्रम्
यथास्वे यथायथम्॥ ८।१।१४
काशिका-वृत्तिः
यथास्वे यथायथम् ८।१।१४

यो य आत्मा, यद् यदात्मीयम्, तत्तद्, यथास्वम्, तस्मिन् यथायथम् इति निपात्यते। यथाशब्दस्य द्विर्वचनं नपुंसकलिङ्गता च निपात्यते। ज्ञाताः सर्वे पदार्थाः यथायथम्। यथास्वभावम् इत्यर्थः। सर्वेषां तु यथायथं यथात्मीयम् इत्यर्थः।
न्यासः
यथास्वे यथायथम्?। , ८।१।१४

"यथास्वम्()" इति। "यथाऽसादृश्ये २।१।७ इति वीप्सायामव्ययीभावः। स्वशब्दो हीहात्मवचनः, आत्मीयवचनो वा--इति दर्शयितुमाह--"यो य आत्मा" इत्यादि। "यथायथम्()" इति। "ह्यस्वो नपुंसके" १।२।४७ इति ह्यसवः॥
बाल-मनोरमा
यथास्वे यथायथम् , ८।१।१४

यथास्वे यथायथम्। वीप्सायामिति। कार्त्स्न्येसंबन्धो वीप्सेत्युक्तम्। स्वशब्दार्थगतकार्त्स्न्ये द्योत्ये यथाशब्दस्य स्वशब्देनाऽव्ययीभाव इत्यर्थः। कृत्स्न श्चासौ स्वश्चेत्यस्वपदविग्रहः, नित्यसमासत्वात्। स्वशब्दस्तु आत्मात्मीयज्ञातिधनवाची। इह तु आत्मात्मीयवाच्येव गृह्रते, नतु ज्ञातिधनवाची, व्याख्यानादित्यभिप्रेत्य विग्रहवाक्यस्य फलितमर्थमाह--द्वे इति। "स्त" इति शेषः। निपातनादिति भावः। न च "नित्यवीप्सयो"रित्येव वीप्सया द्वित्वमिह सिद्धमिति शङ्क्यम्, द्वित्वविषयस्य शब्दस्य लक्षणया कार्त्स्न्यविशिष्टे वृत्तावेव वीप्सायां द्विर्वचनविधानात्। अन्यथा "सर्वो घटः" इत्यादौ सर्वशब्दस्यापि द्वित्वापत्तेरिति भावः। क्लीबत्वमिति। "यथा-यथा इति समुदायस्ये"ति शेषः। अन्यथा अव्ययत्वादलिङ्गत्वं स्यादिति भावः। एवं च कृत्तद्वित्वस्य नपुंसकह्यस्वत्वं च फलितम्। यथायथं ज्ञातेति। अत्र "ज्ञाते"ति तृन्नन्तम्। "तद्योगे "न लोके"ति षष्ठीनिषेधात्कर्मणि द्वितीया। तृजन्तत्वे तु "यथायथस्य ज्ञाते"त्येव।

तत्त्व-बोधिनी
यथास्वे यथायथम् १५९८, ८।१।१४

यीऽयमात्मेत्यादि। आत्मात्मीययोरपि स्वशब्दवाच्यत्वात्। यथायथमिति। "न लोके"त्यनेन कृद्योगषष्ठीनिषेघः, ज्ञातेत्यस्य तृन्नन्तत्वात्। "यो य आत्मा"इत्यर्ते विद्यमानयथायथशब्दस्यार्थमाह---यतास्वभावमिति। "आत्मा यत्नो धृतिर्बुद्धिः स्वबावो ब्राहृ वष्र्म चे"त्यमरः।