पूर्वम्: ८।१।१७
अनन्तरम्: ८।१।१९
 
सूत्रम्
अनुदात्तं सर्वमपादादौ॥ ८।१।१८
काशिका-वृत्तिः
अनुदात्तं सर्वम् अपादादौ ८।१।१८

अनुदात्तम् इति च, सर्वम् इति च, अपादादौ इति च, अपादादौ इति च एतत् त्रयम् अधिकृतं वेदितव्यम् आ पादपरिसमाप्तेः। इत उत्तरं यद् वक्ष्यामः अनुदात्तं सर्वम् अपादादौ इत्येवं तद् वेदितव्यम्। वक्ष्यति आमन्त्रितस्य च ७।१।१९ इति। पचसि देवदत्त। अपादादौ इति किम्? यत् ते नियानं रजसं मृत्यो अनवधर्ष्यम्। बहुवचनस्य वस्नसौ ८।१।२१। ग्रामो वः स्वम्, जनपदो नः स्वम्। अपादादौ इति किम्? रुद्रो विश्वेश्वरो देवो यष्माकं कुलदेवता। स एव नाथो भगवानस्माकं शत्रुमर्दनः। पादग्रहणेनात्र ऋक्पादः श्लोकपादश्च गृह्यते। सर्वग्रहणम् सर्वम् अनूद्यमानं विधीयमानं च अनुदात्तं यथा स्यातिति। तेन युष्मदस्मदादेशानाम् अपि वाक्यभेदेन अनुदात्तत्वं विधीयते। युष्मदस्मदादेशाश्च सर्वस्य सुबन्तस्य पदस्य यथा स्युः, यत्र अपि स्वादिपदं पदसंज्ञं भवति। ग्रामो वां दीयते। जनपदो नौ दीयते।
न्यासः
अनुदात्तं सर्वमपादादौ। , ८।१।१८

"यत्? ते नियतम्()" इत्यादि। अत्र "मृत्यो" इत्येतदामन्त्रितं पदं भवति रजसमित्येतस्मात्? पदात्? परन्()। किन्तु मृत्यो अनवधृष्यभित्यस्य पदस्यादौ वत्र्तत इति न भवति निघातादेशः। अस्मिन्नसति "आमन्त्रितस्य च" ६।१।१९२ इत्यामन्त्रिस्य षाष्ठिकमेवाद्युदात्तत्वं भवति। "रुद्रो वि()आ" इति। अत्र "देवः"--इत्यस्मात्पदात्? परं "युष्माकम्()" इत्येतत्? पदं भवति, किन्तु "युष्माकं कुलदेवता" इत्यस्य पादस्यादौ वत्र्तत इति न भवति वसादेशः। अनन्तरेऽपि प्रत्युदाहरणे "अस्माकं शत्रुमर्वनः" इत्यस्य पादस्यादौ वर्त्त्तेऽस्माकमित्येतत्पदम्()। तेन "भगवान्()" इत्यस्मात्? पदात्? परस्यापि तस्य नसादेशो न भवति। "पादग्रहणेनात्र ऋक्पादः श्लोकपादश्च गृह्रते" इति। विशेषानुपादानात्()। अथ सर्वग्रहणं किमर्थम्(), यावता "अनुदात्तं पदमेकवर्णम्()" ६।१।१५२ इति पदेषु स्वरित उदात्तो वैव एव भवति; तस्य चानुदात्त आदिष्टे सर्वमेवानुदात्तं पदं जायते? इत्याह--"सर्वग्रहणम्()" इत्यादि। "अनूद्यमानम्()" इत्यादिना सर्वग्रहणस्य प्रयोजनमाचष्टे। तद्()द्विविधं पदम्()--अनूद्यमानम्(), विधीयमानञ्च। तत्र यत्? सिद्धमेव कार्यन्तरार्थं संकीत्र्यते नदनूद्यमानं पदम्(), यत्त्वपूर्वमेव विधीयते तद्विधीयमानम्(); तदुभयमप्यनुदात्तं यथा स्यादित्येवमर्थं सर्वग्रहणम्()। तेन किं सिद्धं भवति? इत्याह--"तेन" इत्यादि। युष्मदस्मदादेशा हि विधीयमानत्वादसिद्धसत्ताकाः। सिद्धस्य हि वस्तुनो धर्मान्तरं खस्यते कर्तुम्(), यथा--निष्पन्नरूपस्य वाससो रागः, नानिष्पन्नस्य; तथा तस्यैवानुपजातावस्थस्य। तत्रासति सर्वग्रहणे यदेव सिद्धसत्ताकं पदमनूद्यमानमामन्त्रितादि, तस्यैदानुदात्तत्वं विधीयते, न तु युष्मदस्मदादेशानाम्()। सर्वग्रहणे तु सति तेषामपि विधीयते। अथ क्रियमाणेऽपि सर्वग्रहणे कथं युष्मदस्मदादेशानामप्यनुदात्तत्वं शक्यं विधातुम्()? न हि तेन तेषां विधानकाले यदसिद्धत्वं तदपनीतम्()? इत्यत आह--"वाक्यभेदेन" इत्यादि। सर्वग्रहणसामथ्र्यादत्र व#आक्यभेद उक्तो भवति, न ह्रन्यथा सर्वग्रहणस्यानुदात्तत्वं शक्यं विज्ञातुम्()। तत्रैकेन वाक्येनादेशा विधीयन्ते द्वितीयेन च तेषामनुदात्तत्वम्()। कथं तर्हि विधीयमानमित्युक्तम्(), यावता विहितानामेव युष्मदस्मदादेशानां वाक्यान्तरेणानुदात्तत्वं विधीयते? यदिह प्रकरणे विधीयमानं तद्विहितं सदुत्तरकालमनुदात्तं यथा स्यात्()--इत्ययं तेत्राभिप्रायो वेदितव्यः। यद्यसिद्धस्य धमन्तिरमशक्यं विधातुम्(), तत्कथं "लुङलङ्लृङ्क्ष्वडुदात्तः" (६।४।७१) इत्यत्र विधीयमानस्याट उदात्तत्वं विधीयते? तत्रापि वचनप्रामाण्याद्वाक्यभेदः कृतो भवेत्()--तत्रैकेन वाक्येनाङ्()विधीयते, अपरेण तु विहितस्योदात्तत्वम्(); इह त्वसति सर्वग्रहणे वाक्यभेदो न लभ्यत इत्यनुदात्तत्वमेव न स्यात्? अनुदात्तवचनस्यामन्त्रितादिषु चरितार्थत्वात्()। "युष्मदस्मदादेशाश्च" इति। चशब्दः प्रयोजनान्तरसमुच्चये। इदञ्चान्यत्? सर्वग्रहणस्य प्रयोजनम्()--युष्मदस्मदोर्वान्नावादय आदेशा सर्वस्य सुबन्तस्य पदस्य यथा स्युरिति; अन्यथा ह्रसति सर्वग्रहणे "युष्मदस्मदोः" ८।१।२० इति षष्टीनिर्देशाद्विभकिं()त विहाय तयोः केवलयोरेव स्युः। ननु च "पदस्य" ८।१।१६ इति वत्र्तते, विभक्यन्तं हि पदम्(), तत्रान्तरेणापि सर्वग्रहणं सर्वस्य सविभक्तिकस्यैव पदस्य भविष्यति? इत्यत आह--"यत्रापि" इत्यादि। स्वादौ पदं स्वादिपदम्(), "सप्तमी" (२।१।४०) इति योगविभागात्? समासः; तत्पुनर्यस्य "स्वादिष्वसर्वनामस्थाने" १।४।१७ इति पदसंज्ञा विहिता। असति सर्वग्रहणे यत्र विभक्त्यन्तं पदं तत्रैव सविभक्तिकस्य पदस्य स्युः। यत्र विभक्तौ परतः पूर्व पदं तत्र न स्युः, इष्यन्ते च तत्रापि सर्वस्य। तस्माद्यत्रापि स्वादिपदं चतुर्थीद्विवचनादौ तत्रापि सर्वस्य सुबन्तस्य यथा स्युः इत्येवमर्थं "सर्वम्()" त्युचेयते। ननु चामन्त्रितस्य पदात्? परस्यानुदत्तत्वं वक्ष्यति। तत्र नाप्राप्ते आमन्त्रिताद्युदात्तत्व इदमनुदात्तत्वमारभ्यत इति तस्यापदादः, ततश्च तेन तस्मिन्? बाधिते प्रकृतिल्वरत्वमामन्त्रितल्यापद्येत; सर्वग्रहणात्तु सर्वस्वरप्राप्तिरामन्त्रितानुदात्तत्वेन बाध्यते, तस्मात्? सर्वस्वरप्राप्तिबाधनार्थमपि सर्वग्रहणं कस्मान्न भवति? नार्हत्येवं भवितुम्(); अनुदात्तशब्दो ह्रयमामन्त्रितसमानाधिकरणः सर्वस्वरप्रा()प्त बाधिष्यते। न ह्राद्युदात्तत्वे प्रतिषिद्धे प्रकृतिस्वरे क्रियमाणेऽनुदात्त शब्देनामन्त्रितमुच्यते। तस्मात्? पूर्वोक्तमेव सर्वग्रहणस्य प्रयोजनम्()॥
तत्त्व-बोधिनी
अनुदात्तं सर्वमापादादौ ३५६, ८।१।१८

अनुदात्तं सर्वमपादादौ। इदं पदत्रयमा पादपरिसमाप्तचेरधिक्रियते।