पूर्वम्: ८।१।१८
अनन्तरम्: ८।१।२०
 
सूत्रम्
आमन्त्रितस्य च॥ ८।१।१९
काशिका-वृत्तिः
आमन्त्रितस्य च ८।१।१९

आमन्त्रितस्य पदस्य पदात् परस्य अपदादौ वर्तमानस्य सर्वम् अनुदात्तं भवति। पचसि देवदत्त। पचसि यज्ञदत्त। आमन्त्रिताद्युदात्तत्वे प्राप्ते वचनम्। समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः। इह मा भूवन्, अयं दण्डो हर अनेन, ओदनं पच तव भविष्यति, ओदनं पच मम अभविष्यति। इह च यथा स्यात्, इह देवदत्त माता ते कथयति, नद्यास्तिष्ठति लूके, शालीनां ते ओदनं दास्यामि इति। आमन्त्रितान्तं तिङन्तं युष्मदस्मदादेशाश्च यस्मात् पराणि न तेषां सामर्थ्यम् इति तदाश्रया निघातयुष्मदस्मदादेशा न स्युः, समर्थः पदविधिः (*२,१।१।) इति वचनात्।
न्यासः
आमन्त्रितस्य च। , ८।१।१९

"आमन्त्रिताद्युदात्तत्वे प्राप्त इदमुच्यते। इह पदाधिकारमात्रं प्रकृत्य निघातयुष्मदादेशा विधीयमाना यत्रापि नेष्यन्ते, तत्रापि प्रसजन्ति। यत्रापि क्वचिदिष,()यन्ते, तत्रापि क्वचिन्न प्राप्नुवन्ति, अत एतद्दोषपरिजिहीर्षयाऽ‌ऽह--"समानवाक्ये" इत्यादि। यस्मात्? पदात्? परस्यामन्त्रितादेर्निघातादि कार्यं विधीयते, तयोः समान एकस्मिन्? वाक्य आधारभूते सति विघातादयो विधीयन्त इति वक्तव्यम्() किमर्थम्()? इत्याह--"इह" इत्यादि। "अयं दण्डः" इति। अत्रास्तीत्येतदपेक्षते। अप्रयुज्यमानमपि गम्यत इत् तथोक्तम्()। "यत्रान्यत्? क्रियापदं नास्ति तत्रास्तिर्भवन्तीपरः प्रयुज्यते इत्यप्रयुज्यमानोऽपि गम्यते" इति, तदेवमस्तीत्यनेन गम्यमानेन सहितमयं दण्ड इत्येकं धाक्यम्(), हरानेनेत्यपरम्()। तत्र यद्येकवाक्ये निघातादयो नोच्येरन्(), ततो दण्डादिशब्दादतिङन्तात्? परस्य हरेत्यस्य तिङन्तस्य निघातः प्रसज्येत। ननु पदविधिरयम्(), स च सामर्थ्ये सति भवति, न चेह तदस्ति, अतोऽसामथ्र्यान्निधातो न भविष्यतीति चेदिहापि तर्हि न स्यात्()--इह देवदत्त् माता ते कथयति, नद्यास्तिष्ठति कूले, शालीनां त ओदनं दास्यामीति। न ह्रत्रेहेत्यनेन देवदत्तेत्यामन्त्रितस्यास्ति सामथ्र्यम्(); अपि च विद्यत एवायं दण्डो हरानेनेत्यत्र सामथ्र्यम्, तथा ह्रनेनेति सर्वनाम्ना यत करणेन प्रत्यवमुश्यते तद्धरेत्येतदपेक्षते। तच्च प्रत्यासत्तेर्वण्ड एवेत्यस्ति दण्डस्य हरेत्येतस्य च व्यपेक्षालक्षणं सामथ्र्यम्()। "ओदनं पच तव भविष्यति" इति। ओदनं पचेत्यकं वाक्यम्(), तव भविष्यतीत्यपरम्()। "ओदनं पच मम भविष्यति" इति। अत्राप्योदनं पचेत्येकं वाक्यम्(), मम भविष्यतीत्यपरम्()। तत्र यद्येकवाक्ये युष्मदस्मदादेशा नोच्येरन्(), ततः पचेत्येतस्मात्? पदात्? परयोर्युष्मदस्मदोस्तु "तेमयावेकवचनस्य" ८।१।२२ इति तेमयावादेशो स्याताम्(), अस्ति ह्रत्रापि सामथ्र्यम्()। तथा हि--युष्मच्छब्ददाच्योऽस्मच्छब्दवाच्यश्च योऽर्थस्तत्साधनेन पाकेन तत्त्वामिकौदनो भविष्यतीत्येवम्भूता पाकस्य युष्मदस्मदोश्च व्यपेक्षा विद्यते। असः समानवाक्यग्रहणे तु सति न किञ्चिदनिष्टमापद्यते। "इह च" इत्यादि। चशब्दः समुच्यये। इदञ्चापरमत्त्या इष्टेः प्रयोजनमिति दर्शयति। "इह देवदत्त माता ते कथयति" इत्येकं वाक्यम्(), "नद्यास्तिष्ठति कूले" इति द्वितीयम्()। "शालीनां त ओदनं दास्यामि" इति तृतीयम्()। तत्र प्रथमे वाक्ये--इहेत्यस्मात्? पदात्? परस्य देवदत्तस्यामन्त्रितस्यानेन निघातो यथास्यात्(), द्वितीये--नद्या इत्वस्मात्परस्य युष्मच्छब्दस्य "तेमयावेकवचनक्य" ८।१।२२ इति त इत्येवमादेशो यथा स्यादित्येवमर्थं समानवाक्ये निघातादयो वेदितव्याः। अस्मच्छब्दादेशोदाहरणमिह नोपन्यस्तम्(); युष्मच्छब्दादेशोदाहरणेनैवावगम्यमानत्वात्()। तात्पुनः शालौनामोदनं मे देहीत्येवंजातीयकं तत्र द्रष्टव्यम्()। किं पुनः स्याद्यदि समानवाक्ये निघातयुष्मदस्मदादेशा नोच्येरण्()? इत्यत आह--"आमन्त्रितान्तम्()" इत्यादि। प्रथमे तावद्वाक्ये--इहेत्येतदधिकरणप्रधानम्(), अधिकरणञ्चाधेयापेक्षम्(), तच्चाधेयं माता न तु देवदत्तः। इह ते स्विता माता कथयतीत्यर्थः। तस्मादिहशब्देन नास्तिदेवदत्तत्यस्यामन्त्रितस्य सामथ्र्यम्()। द्वितीये तु नद्या इत्येतस्मात्? परं तिष्ठतीत्येतत्? तिङन्तम्()। न च तस्या नद्या इत्यनेन सामथ्र्यम्(); किं तर्हि? कूल इत्यस्य। त#ऋतीयेऽपि--शालीनामित्यस्मात्? पदाद्युष्मच्छब्दः परः, म तु शालीनामित्यनेन तस्य सामथ्र्यमस्ति, किं तर्हि? ओदनस्येति। ततः सामथ्र्याभावात्? तदाश्रया निघातादयो न त्युः। "तदाश्रयाः" इति। इहेत्येतत्? पदं "नद्या" इत्येच्छालीनामित्येतच्छाश्रयो निमित्तं यथां ते तथोक्ताः। अथ वा--तत्? सामथ्र्यमाश्रयो येषां ते तथोक्ताः। असल्यां ह्रस्यामिष्टौ पदादधिकारात्? पदविधिर्निघातादि कार्यं भवति, स च सामथ्र्यनिबन्धनः। तच्च सामथ्र्यमिह नास्तीति कुतो निघातादेः प्रसङ्गः! तस्मादसामर्थ्येऽपि यथा स्यादित्येवमर्थं समानवाक्ये निघातादि कार्य वक्तव्यम्()