पूर्वम्: ८।१।२०
अनन्तरम्: ८।१।२२
 
सूत्रम्
बहुवचने वस्नसौ॥ ८।१।२१
काशिका-वृत्तिः
बहुवचनस्य वस्नसौ ८।१।२१

बहुवचनान्तयोः युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः यथासङ्ख्यम् वस् नसित्येतावादेशौ भवतः। ग्रामो वः स्वम्। जनपदो नः स्वम्। ग्रामो वो दीयते। जनपदो नो दीयते। ग्रामो वः पश्यति। जनपदो नः पश्यति।
लघु-सिद्धान्त-कौमुदी
बहुवचनस्य वस्नसौ ३३२, ८।१।२१

उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः॥
न्यासः
बहुवचनस्य वस्नसौ। , ८।१।२१