पूर्वम्: ८।१।२१
अनन्तरम्: ८।१।२३
 
सूत्रम्
तेमयावेकवचनस्य॥ ८।१।२२
काशिका-वृत्तिः
तेमयावेकवचनस्य ८।१।२२

युष्मदस्मदोः एकवचनान्तयोः षष्थीचतुर्थीस्थयोः यथासङ्ख्यं ते मे इत्येतौ आदेशौ भवतः। ग्रामस्ते स्वम्। ग्रामो मे स्वम्। ग्रामस्ते दीयते। ग्रामो मे दीयते। द्वितीयान्तस्य आदेशान्तरविधानसामर्थ्यात् षष्ठीचतुर्थ्योः एवायं योगः।
लघु-सिद्धान्त-कौमुदी
तेमयावेकवचनस्य ३३३, ८।१।२२

उक्तविधयोरनयोष्षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः॥
न्यासः
तेमयावेकवचनस्य। , ८।१।२२

किं पुनः कारणं षष्ठीचतुथ्र्यन्तयोरेवोदाहरणमुपन्यस्तम्(), न द्वितीयान्तयोः? इत्याह--"द्वितीयान्तस्य" इत्यादि॥