पूर्वम्: ८।१।२३
अनन्तरम्: ८।१।२५
 
सूत्रम्
न चवाहाहैवयुक्ते॥ ८।१।२४
काशिका-वृत्तिः
न चवाहाहएवयुक्ते ८।१।२४

च वा ह अह एव एभिर् युक्ते युष्मदस्मदोः वान्नावादयोः न भवन्ति। पुर्वेण प्रकारेण प्राप्ताः प्रतिषिध्यन्ते। ग्रामस्तव च स्वम्, ग्रामो मम च स्वम्, युवयोश्च स्वम्, आवयोश्च स्वम्, युष्माकं च स्वम्, अस्माकं च स्वम्। ग्रामस् तुभ्यां च दीयते, ग्रामो मह्यं च दीयते, युवाभ्यां च दीयते, आवाभ्याम् च दीयते, युष्मभ्यं च दीयते, अस्मभ्यं च दीयते। ग्रामस्त्वां च पशयति, ग्रामो मां च प्शयति, युवां च पश्यति, आवां च पश्यति, युष्मांश्च पश्यति, युष्मान् वा पश्यति, अस्मान् वा पश्यति। वा ग्रामस्तव वा स्वम्, ग्रामो मम वा स्वम्, युवयोर् वा स्वम्, आवयोर् वा स्वम्, युष्माकं वा स्वम्, अस्माकं वा स्वम्। ग्रामस्तुभ्यं वा दीयते, ग्रामो मह्यं वा दीयते, युवाभ्यां वा दीयते, आवाभ्यां वा दीयते, युष्मभ्यं वा दीयते, अस्मभ्यं वा दीयते। ग्रामस्त्वां वा पश्यति, ग्रामो मां वा पश्यति, युवां वा पश्यति, आवां वा पश्यति, युष्मान् वा पश्यति, अस्मान् वा पश्यति। ह ग्रामस्तव ह स्वम्, ग्रामो मम ह स्वम्, युवयोर् ह स्वम्, आवयोर् ह स्वम्, युष्माकं ह स्वम्, अस्माकं ह स्वम्। ग्रामस्तुभ्यं ह दीयते, ग्रामो मह्यं ह दीयते, युवाभ्यां ह दीयते, आवाभ्यां ह दीयते, युष्मभ्यां ह दीयते, अस्मभ्यं ह दीयते। ग्रामस्त्वां ह पश्यति, ग्रामो मां ह पश्यति, युवां ह पश्यति, आवां ह पश्यति, युष्मान् ह पश्यति, अस्मान् ह पश्यति। अह ग्रामस्तव अह स्वम्, ग्रामो मम अह स्वम्, युवयोरह स्वम्, आवयोरह स्वम्, युष्माकम् अह स्वम्, अस्माकमह स्वम्। ग्रामस्तुभ्यमह दीयते, ग्रामो मह्यम् अह दीयते, युवाभ्याम् अह दीयते, आवाभ्याम् अह दीयते, युष्मभ्यम् अह दीयते, अस्मभ्यम् अह दीयते। ग्रामस्त्वाम् अह पश्यति, ग्रामो माम् अह पश्यति, युवाम् अह पश्यति, आवाम् अह पश्यति, युष्मानह पश्यति, अस्मानह पश्यति। एव ग्रामस्तव एव स्वम्, ग्रामो मम एव स्वम्, युवयोरेव स्वम्, आवयोरेव स्वम्, युष्माकम् एव स्वम् अस्माकम् एव स्वम्। ग्रामस्तुभ्यम् एव दीयते, ग्रामो मह्यम् एव दीयते, युवाभ्याम् एव दीयते, आवाभ्याम् एव दीयते, युष्मभ्यम् एव दीयते, अस्मभ्यम् एव दीयते। ग्रांस्त्वाम् एव पश्यति, ग्रामो माम् एव पश्यति, युवाम् एव पश्यति, आवाम् एव पश्यति, युष्मानेव पश्यति, अस्मानेव पश्यति। युक्तग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम्। युक्तयुक्ते प्रतिषेधो न भवति। ग्रामश्च ते स्वम्, नगरं च मे स्वम्।
न्यासः
न चवाहाहैवयुक्ते। , ८।१।२४

"एभिर्युक्ते" इति। "नपुंसके भावे क्तः" ३।३।११४ एभिर्योग इत्यर्थः। अथ वा--"तयोरेव कृत्यक्त खलर्थाः" ३।४।७० इति कर्मणि क्तः। एभिर्युक्ते सम्बद्धे। कस्मिन्()? युष्मच्छब्देऽस्मच्छब्दे च। यद्यपि तौ द्विर्वचनान्तौ प्रकृतौ, तथापीह प्रत्येकमभिसम्बन्धादेकवचनं कृतम्()। "तव, मम" इति। "युष्मदस्मद्भ्यां ङसोऽश्()" ७।१।२७, "तवममौ ङसि" ७।२।९६। "युवयोरावयोः" इति। "युवावौ द्विवचने" ७।२।९२। "युष्माकमस्माकम्()" इति। "साम आकम्()" ७।१।३३। "तुभ्यं मह्रम्()" इति। "ङेप्रथमयोरम्()" ७।१।२८ इत्यम्(), "तुभ्यमहौ ङयि" ७।२।९५। "धुष्मभ्यमस्मभ्यम्()" इति। "भ्यसो भ्यम्()" ७।१।३०। "त्वां माम्()" इति। "त्वमावेकवचने" ७।२।९७ इति त्वमादेशौ, "द्वितीयायां च" ७।२।८७ इत्यात्त्वम्()। "युष्मान्(), अस्मान्()" इति। "शसो न" ७।१।२९, "पूर्ववदात्त्वम्()"। "युक्तग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम्()" इति। साक्षादव्यवधानेन चादिभिर्योगः। तस्य प्रतिपत्तिर्यथा स्यादित्येवमर्थ युक्तग्रहणम्()। कथं पुनर्युक्तग्रहणे साक्षाद्योगप्रतिपत्तिर्भवति? एवं मन्यते--अपरिसमाप्तत्वादस्य वाक्यस्य तृतीयानिर्देश एव युक्तग्रहणमध्याहरिष्यति, यथा--"तुल्यार्थे रतुलोपमाभ्याम्()" २।३।७२ इत्यत्र। तस्माद्युक्तग्रहणं न कत्र्तव्यमेव? तत्? क्रियते साक्षाद्योगप्रतिपत्तिर्यथा स्यादिति। अन्यस्त्वाह--पदविधिरयम्(), पदविधिश्च समर्थानामेव भवति, तत्र पदविधित्वादेव योगे लब्धे यद्युक्तग्रहणं क्रियते तत्? साक्षाद्योगप्रतिपत्तिर्यथा स्यादिति? एतच्चायुक्तम्(); असामर्थ्येऽपि निघातादिकार्यं समानवाक्ये भवतीत्युक्तमेतत्()। कदा पुनश्चादिभिः साक्षाद्युष्मदस्मदोर्योगः? यदा तदर्थगतान्? समुच्चयादीनर्थास्ते द्योतयन्ति। इहैते चादयः समुच्चयादिना द्योत्येनार्थेनार्थवन्तः, तत्र यदा युष्मदस्मदनुगतानेव समुच्चयादीन्? धर्मान्? द्योतयन्ति, तदा चादिभिः साक्षाद्युष्मदस्मदोर्योगः। यदा तु ग्रामादिसम्बन्ध्यन्तरगताः, तदा युक्तयोगः, न तु साक्षाद्योगः। तत्र युक्तयोगे प्रतिषेधो न भवति--ग्रामश्च ते स्वं नगरञ्च मे स्वमिति। तत्र ग्रामशब्दो नगरशब्दश्च चशब्देन युक्तः; तदर्थगस्तस्य समुच्चयस्य तेन द्योतनात्()। युष्मदस्मच्छब्दौ तु ग्रामनगराभ्यां युक्तौ; तयोस्ताभ्यां स्वस्वामिकत्वसम्बन्धस्यार्थस्येह सम्भवात्()। ननु च साक्षाद्योगप्रतिपत्त्यर्थं युक्तग्रहणम्()--युक्तयुक्ते मा भूदित्येवमर्थं कथं क्रियते, न च चादियोगे प्रतिषेध उच्यमानो युक्तयुक्ते प्राप्नोति, न हि यश्चादिभिर्युक्तयुक्तेन योगः स चादियोगो भवति, त()त्कसाक्षाद्योगप्रतिपत्त्यर्थेन युक्तग्रहणेन? एवं तह्र्रेतदेव युक्तग्रहणं ज्ञापयति--इह प्रतिषेधकाण्डे युक्तयुक्तेऽपि प्रतिषेधो भवतीति। तेनोत्तरसूत्रे यद्वक्ष्यते--"पस्यार्थैर्युक्तयुक्तेऽपि प्रतिषेधः" इति तदुपपन्नं भवति॥
बाल-मनोरमा
न चवाहाऽबैवयुक्ते , ८।१।२४

न चवाहा। च इत्यव्ययं समुच्चये, वा इति विकल्पे, हा इत्यद्भुते, अह इति खेदे, एव इत्यवधारणे, एतेषां द्वन्द्वः युक्त इति भावे क्तः। तदाह--चादिपञ्चकयोगे इति। पञ्चानामन्यतमेन योगे इत्यर्थः। एते इति। वांनावादय इत्यर्थः। "युष्मदस्मदोः षष्ठी"त्यादिसूत्रेभ्यस्तत्तदनुवृत्तेरिति भावः। इत्यादीति। "कृष्णो मम हा प्रसीदति"। अद्भुतमिदमित्यर्थः। "कृष्णो ममाऽह न प्रसीदति "। अहेति खेदे। कृष्णो ममैव सेव्यः। ननु " न चवाहाहैवैः" इत्येवास्तु, मास्तु युक्तग्रहणम्। "वृद्धो यूना" इत्यादिवत्तृतीययैव तल्लाभादित्यत आह--युक्तग्रहणादिति। अत्र चाद्यर्थैः समुच्चयादिभिर्युष्मदस्मदर्थोः साक्षादन्वयस्तत्रैवायं निषेध इत्यर्थः। हरो हरिश्चेति। अत्र "च" शब्दस्य हरिहरियोः साक्षादन्वयः। समुच्चितयोर्हरिहरियोः स्वामीत्यत्रान्वयः। "स्वामी"त्यस्य मे इत्यनेनान्वयः। ततश्च चशब्दस्य अस्मच्छब्देन साक्षादन्वयाऽभावान्मेआदेशस्य निषेधो नेति भावः।

तत्त्व-बोधिनी
न चावाहाऽहैवयुक्ते ३५९, ८।१।२४

युक्तग्रहणादिति। यत्र युष्मदस्मदर्थगतान् समुच्चयादींश्चादयो द्योतयन्ति तदा चादिभिः सहाऽर्थद्वारा युष्मदस्मदोः साक्षाद्योगः, तत्रैवायं निषेध इत्यर्थः। हरो हरिश्चेति। अत्र "च"शब्दो हरहरिगतसमुच्चयमाह। हरिहराभ्यां त्स्मदः सम्बन्धो, नतु समुच्चयेनेति न साक्षाद्योगः किंतु परम्परायोग इति न निषेध इति भावः। पश्यार्थैश्चाऽना। अकएव निपातनाद्भावे "पघ्राघ्माधे"डिति शः। दर्शनं पश्यः। तच्चेह ज्ञानमात्रम्। "अदर्शनं लोपः"इत्यत्र यथा, न तु चाक्षुषज्ञानमेव, "अनालोचने"इति निषेधात्।