पूर्वम्: ८।१।२५
अनन्तरम्: ८।१।२७
 
सूत्रम्
सपूर्वायाः प्रथमाया विभाषा॥ ८।१।२६
काशिका-वृत्तिः
सपूर्वायाः प्रथमाया विभाषा ८।१।२६

विद्यमानपूर्वात् प्रथमान्तात् पदातुत्तरयोः युष्मदस्मदोः विभाष वान्नावादयो न भवन्ति। ग्रामे कम्बलस्ते स्वम्, ग्रामे कम्बलस्तव स्वम्। ग्रामे कम्बलो मे स्वम्, ग्रामे कम्बलो मम स्वम्। ग्रामे कम्बलस्ते दीयते, ग्रामे कम्बलस्तुभ्यं दीयते। ग्रामे कम्बलो मे दीयते, ग्रामे कम्बलो मह्यं दीयते। ग्रामे छात्रास्त्वा पश्यन्ति, ग्रामे छात्रास्त्वां पश्यन्ति। ग्राम् छात्रा मा पश्यन्ति, ग्रामे छात्रा मां प्श्यन्ति। सुपूर्वायाः इति किम्? कम्बलस्ते स्वम्। कम्बलो मे स्वम्। पथमायाः इति किम्? कम्बलो ग्रामे ते स्वम्। कम्बलो ग्रामे मे स्वम्। युष्मदस्मदोर् विभाषा अनन्वादेशिति वक्तव्यम्। इह मा भूत्, अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलो मे स्वम्। अपर आह सर्व एव वान्नावादयो ऽनन्वादेशे विभाषा वक्तव्याः। कम्बलस्ते स्वम्, कम्बलस्तव स्वम्। कम्बलो मे स्वम्, कम्बलो मम स्वम्। अनन्वादेशे इति किम्? अथो कम्बलस्ते स्वम्। अथो कम्बलो मे स्वम्। न तर्हि इदानीमिदं वक्तव्यम् सपूर्वायाः प्रथमाया विभाषा इति? वक्तव्यं च किं प्रयोजनम्? अन्वादेशार्थम्। अनवादेशे हि विभाषा यथा स्यात्। अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलस्ते स्वम्। अथो ग्रामे कम्बलो मे स्वम्, अथो ग्रामेकम्बलो मे स्वम्, अथो ग्रामे कम्बलो मम स्वम्।
न्यासः
सपूर्वायाः प्रथमाया विभाषा। , ८।१।२६

सहशब्दोऽत्र विद्यमानवचनः, पृर्वशब्दो व्यवस्थावाची। सह विद्यमानं पूर्व यस्याः सा सपूर्वा--पञ्चम्यर्थे बहुव्रीहिः, "वोपसर्जनस्य" ६।३।८१ इति सहस्य सभावः। "प्रथमायाः" इति। प्रत्ययग्रहणपरिभाषया (भो।प।७) तदन्तग्रहणं विज्ञायते। अत एवाह--"प्रथमान्तात्? पदात्()" इति। "युष्मदस्मदोर्विभाषा" इत्यादि। आदेशः=कथनम्(), अन्दादेशः=अनुकथनम्()। न अन्वादेशोऽनन्वादेशः। तत्रानन्वादेशे युष्मदस्मदोर्विभाधा भवतीति वक्तव्यम्()। किमर्थमित्याह--"इह" इत्यादि। "सर्व एव" इत्यादि। ये सपूर्वात्? प्रथमान्तात्? पदात्परयोर्युष्मदस्मदोः प्राप्नुवन्त्यादेशाः, ये च ततोऽन्ये ते सव एवानत्वादेशे विभाषा वक्तव्याः यद्येवम्? अनेन वचनेनैव सर्वत्र विकल्पस्य सिद्धत्वादपार्थकमिदं सूत्रमिति मन्ममान आह--"न तर्हि" इत्यादि। "अन्वादेशार्थम्? इति। यद्येतन्नोच्येत, ततोऽनन्वादेश इत्यभिधानात्? सपूर्वात्? प्रथमान्तादन्वादेशे विकल्पो न स्यात्()। तस्मात्? सपूर्वात्? प्रथमान्तादन्वादेशेऽपि विकल्पो यथा स्यादित्येवमर्थं क्रियमाणेऽप्युपसंख्याने सूत्रमिदं कत्र्तव्यमेव। अ()स्मस्तु क्रियमाणे तदुपसंख्यानं न कत्र्तव्यम्()। कथम्()? सिंहावलोकितत्यायेन विभाषाग्रहणं पूर्वत्राप्युपतिष्ठते। सत्र व्यवस्थितविभाषाग्रहणादनन्वादेशे सर्वत्र विकल्पो भविष्यति, अन्वादेशे तु नित्यं दान्नावादयः, सपूर्वायाः प्रथमाया अन्वादेशेऽपि विकल्प इति॥
बाल-मनोरमा
सपूर्वायाः प्रथमाया विभाषा , ८।१।२६

सपूर्वायाः। वां-नावाद्यादेशा अनन्वादेशे पाक्षिकाः, अन्वादेशे तु नित्या इत्युक्तम्। अन्वादेशेऽपि क्वचिद्विकल्पार्थमिदम्। सहशब्दोऽत्र "सलोमक" #इत्यादिवद्विद्यमानवाची। वीद्यमानं पूर्वं यस्य इति विग्रहः, "तेन सहेति तुल्ययोगे" इति सहस्य समासः। तुस्ययोगवचनं प्रायिकमिति वक्ष्यमाणत्वात्। "प्रथमे"त्यनेन तदन्तं गृह्रते। तदाह--विद्यमानेत्यादिना। परयोरित्यनन्तरं "युष्मदस्मदो"रिति शेषः। भक्तस्त्वमिति। "देवदत्ते"त्यद्याहार्यम्। हे देवदत्त त्वमपि भक्तः, अहमपि भक्त इत्यन्वयः। तेनेति। भक्तत्वेनेत्यर्थः। त्रायते इति पालयतीत्यर्थः। अत् पूर्ववाक्योपात्तयुष्मदस्मदर्थयोरिह पुनरूपादानादन्वादेशोऽयम्। अत्र "तेने" त्येतत् पूर्वं विद्यमानं पदं, ततः परं "हरि"रिति प्रथमान्तं, ततः परस्य युष्मच्छब्दस्यान्वादेशेऽपि त्वादेशविकल्पः। तथा "त्रायते" इत्येतत्पूर्वं विद्यमानं पदम्, ततः परं "सः" इति प्रतमान्तम्, ततः परस्याऽस्मच्छब्दस्यान्वादेशेऽपि मादेशविक्लपः। "त्रायत" इत्येतन्मध्यमणिन्यायेनोभयत्र संबध्यते। तेने निमित्तनिमित्तिनोः समानवाक्यस्थत्वं, स इत्यस्य विद्यमानपूर्वत्वं च बोध्यम्।

तत्त्व-बोधिनी
सपूर्वायाः प्रथमाया विभाषा ३६१, ८।१।२६

सपूर्वायाः। "सह"शब्दोऽत्र "सलोमक"इत्यत्रेव विद्यमानवचनः। "तेन सहेती"त्यत्र तुल्ययगवचनं प्रायिकमिति वक्ष्यमाणत्वाद्विद्यमानवचनस्यापि सहस्य समासः। "वोपसर्जनस्ये"ति सभावः। "प्रथमाया"इति च प्रत्ययग्रहणात्तदन्तविधिरित्यावोच्याह--विद्यमानपूर्वादित्यादि। "एते वानावादय आदेशाः"इत्यविशेषोत्तयैव विभाषया सिद्धे, किमर्थमिदं व चनमित्याशङ्कां परिहन्नाह--अन्वादेशेऽपीति। भक्तस्त्वमित्यादि। त्वं हरेस्त्वं भक्तस्तेनैव कारणेनाऽहमपी ति व्याचक्षाणानां तु यच्छब्दाध्याहारक्लेश इति बोध्यम्। अत्र "तेने"ति पूर्वं विद्यमानं पदं, ततो हरिरिति प्रथमान्तं, ततः परस्य युष्मच्छब्दस्यादेशः। तथा "त्रायते"इकत्यस्मात्परं"स"इति प्रथमान्तं, ततः परस्याऽस्मच्छब्दस्यादेशः।