पूर्वम्: ८।१।२७
अनन्तरम्: ८।१।२९
 
सूत्रम्
तिङ्ङतिङः॥ ८।१।२८
काशिका-वृत्तिः
तिङ्ङतिङः ८।१।२८

तिङन्तं पदम् अतिङन्तात् पदात् परम् अनुदात्तं भवति। देवदत्तः पचति। यज्ञदत्तः पचति। तङिति किम्? नीलम् उत्पलम्। शुक्लं वस्त्रम्। अतिङः इति किम्? भवति पचति।
न्यासः
तिङ्ङतिङः। , ८।१।२८

"नीलमुत्पलम्()" इति। उत्पलमित्येतत्? "नव्विषयस्यानिसन्तस्य" (फि।सू।२।२६) इत्याद्युदात्तं भवति। "भवति पचति" इति। पचतिक्रिया भवतीत्ययमस्यार्थः। पचतिशब्दे शप्तिपावनुदात्तौ, अकारो धातुस्वरेणोदात्तः, "उदात्तादनुदात्तस्य स्वरितः" ८।४।६५ इति शबकारः स्वरितः। ननु च समासवाक्ये निघातादय उच्यन्ते, इदञ्च वाक्यमेव न भवति, तत्? किमेतन्निवृत्त्यर्थेनातिङग्रहणेन? किं पुनः कारणमेतद्वाक्यं न भवति? अख्यातं साव्ययकारकविशेषणं वाक्यम्()" इत्यत्र वाक्यलक्षण एकत्वस्य विवक्षितत्वात्(), इह चाख्यातस्य द्वित्वात्()? नैष दोधः; अत्राप्याख्यातं यदकारकं तद्विवक्षितम्()। तच्चास्मिन्नेकमेव भवतिशब्दः, पचतीत्येतत्तु कारकम्()। तथा हि भाष्ये उक्तम्()--"पचत्यादयः क्रियाः ["क्रियाः भवन्ति" नास्ति का। मुद्रिते] भवन्ति, क्रियायाः कर्त्र्यो भवन्ति" इति। यदपीदमुक्तम्()--"एकतिङ्? पदसमूहो वाक्यम्()" इति, अत्रापि प्रधानं यत्? तिङ्? तदधिकृत्यैकतिङित्युक्तम्()। अत्र चैकमेव तिङन्तं प्रधानम्()। यद्येतत्(), किं तर्हि अत्र तिङन्तं तत्()? भवतीति। पचतीत्येतत्? पुनः साधनत्वादप्रधानम्()॥