पूर्वम्: ८।१।२८
अनन्तरम्: ८।१।३०
 
सूत्रम्
न लुट्॥ ८।१।२९
काशिका-वृत्तिः
न लुट् ८।१।२९

पूर्वेण अतिप्रसक्ते प्रतिषेध आरभ्यते। लुडन्तं नानुदात्तं भवति। श्वः कर्ता। श्वः कर्तारौ। मासेन कर्तारः। तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वे सति सर्वतासिरेव उदात्तः। यत्र तु टिलोपः, तत्र उदात्तनिवृत्तिस्वरो भवति।
न्यासः
न लुट्?। , ८।१।२९

"()आः कत्र्ता" इति। करोतेर्लुट्(), तासिः, "लुटः प्रथमस्य डारौरसः" २।४।८५ इत्येकवचनस्य डादेशः, डिति टिलोपः। "तासेः परस्य" इत्यादि। आगमः प्रत्ययस्वरेणाद्युदात्तः। तस्य यत्र टिलोपो नास्ति--इत्र्तारो, कत्र्तार इत्यादौ, तत्र "नास्यनुदात्तेन्ङित" ६।१।१८० इत्यादिना लसार्वधातुकस्यानुदात्तत्वे कृते तासेरेवोदात्तत्वं भवति। यत्र तु टिलोपस्तत्र "अनुदात्तस्य च यत्रोदात्तलोपः ६।१।१५५ इति लसार्वधातुकमेवोदात्तं भवति॥