पूर्वम्: ८।१।२९
अनन्तरम्: ८।१।३१
 
सूत्रम्
निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम्॥ ८।१।३०
काशिका-वृत्तिः
निपातैर् यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुतम् ८।१।३०

न इति वर्तते। यत् यदि हन्त कुवित् नेत् चेत् चण् कच्चित् यत्र इत्येतैर् निपातैर् युक्तं तिङन्तं नानुदात्तं भवति। यत् यत् करोति। यत् पचति। यदि यदि करोति। यदि पचति। हन्त हन्त करोति। नेत् नेज् जिह्मायन्त्यो नरकं पताम्। चेत् स चेद् भुङ्क्ते। स चेदधीते। चण् णिद्विशिष्टो ऽयं चेदर्थे वर्तते। अयं च मरिष्यति। अयं चेन्मरिष्यति इत्यर्थः। समुच्चयादिषु तु यः चशब्दः, तेन योगेन विधिरयं न भवति। कच्चित् कच्चिद् भुङ्क्ते। कच्चिदधीते। यत्र यत्र भुङ्क्ते। यत्र अधीते। निपातैः इति किम्? यत् कूजति शकटम्। गच्छत् कूजति शकटम् इत्यर्थः। इणः शतरि रूपम् एतत्। युक्तम् इति किम्? यत्र क्व च ते मनो दक्षं दधस उत्तरम्।
न्यासः
निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चेण्कच्चिद्यत्रयुक्तम्?। , ८।१।३०

यद्यपि निपातैरित्येतदपेक्षमाणावां यदादीनां सामथ्र्यम्(), तथापि गमकत्वाद्युक्तशब्देन समास एषां युक्त एव। अथ वा--मत्र न समासः, विभक्तिस्त्वव्ययत्वादेषां लुप्तेते न श्रूयते। युक्तग्रहणं त्विहापि साक्षाद्योगप्रतिपत्त्यर्थम्(), तेन युक्तयुक्ते प्रतिषेधो न भवति। एतच्च प्रयुदाहरणेऽपि स्पष्टीकरिष्यामः। अत्र यद्यत्रयोग्र्रहणमाभ्यां पूर्वस्यापि तद्युक्तस्य प्रतिषेधो यथा स्यादित्येवमर्थम्()। यद्धि ततः परं तिङक्तं तस्य "यद्()वृत्तान्नित्यम्()" ८।१।६६ इत्येवं सिद्धः प्रतिषेधः, पूर्वस्य तु तेन न सिध्यति। तदा हि यद्वृत्तादिभिः पञ्चमी "तस्मादित्यत्तरस्य" १।१।६६ इति परस्यैव निघातप्रतिषेधं प्रतिपादयति, नेतरस्य। "यत्करोति" इति। करोतिशब्द उकारप्रत्ययस्योदात्तत्वान्मध्योदात्तः। "नेज्जिह्रायन्तो नरकं पताम" ["नोज्जिह्रायन्तो"--प्रांउ।पाठः] इति। पतेर्लट्(), मस्(), शप्(), "अतो दीर्घो यञि" ७।३।१०१ इति दीर्घः। ङिददुपदेशत्वाल्लसार्वधातुकत्वादनुदात्तत्वे ६।१।१८० कृते धातुत्वरेणाद्युदात्तमेतत्()। "स चेट्भुङक्ते" इति। "भुजोऽनवने" १।३।६६ इत्यात्मनेपदम्(), रुधादित्वात्वात्? श्नम्()। पूर्ववल्लसार्वधातुकानुदात्तत्वम्(); "इनसोरल्लोपः" ६।४।१११, "अनुदात्तस्य च यत्रोदात्तलोपः" ६।१।१५५ इत्युदात्तत्वे कृते भुङ्क्त इत्येतदन्तोदात्तम्()। "स चेदधीते" इति। इङ्? धातुस्वरेणोदात्तः। ङित इति लसार्वधातुकमेवानुदात्तम्()। आदिशब्दापेक्षया निघाते प्राप्ते न प्रतिपदोक्तपरिभाषोपतिष्ठते (व्या।प।३), साहचर्यञ्च व्यवस्थाकारणं न भवतीति। तेन "यावद्यथाभ्याम्()" ८।१।३६ इति यथाशब्दसाहचर्याद्यावच्छब्दोऽपि नाव्ययमेव परिगृह्रते, किं तर्हि? परिमाणशब्दोऽपि लाक्षणिकः। यावतोऽदवान्? प्रतिगृह्णीयादित्यत्रापि निघातप्रतिवेधो भवति। "यत्तदेतेभ्यः परिमाणे वतुम्()" ५।२।३९ इति वतुबन्तोऽत्र यावच्छब्दः। "यत्र क्व च ते मनो दक्षं दधस उत्तरम्()" इति। "दध धारणे" (धा।पा।८) लट्(), धास्(), "धासः से" ३।४।८०। अत्र यत्रेत्यनेनैधिकरणप्रधाने उत्तरमित्येतदाधेयं युक्तम्(), तेन युक्तं तिङन्तम्(), अतः साक्षाद्योगो नास्तीति प्रतिषेधो न भवति॥