पूर्वम्: ८।१।५४
अनन्तरम्: ८।१।५६
 
सूत्रम्
आम एकान्तरमामन्त्रितमनन्तिके॥ ८।१।५५
काशिका-वृत्तिः
आम एकान्तरम् आमन्त्रितम् अनन्तिके ८।१।५५

आमः उत्तरम् एकपदान्तरम् आमन्त्रितान्तम् अनन्तिके नानुदात्तं भवति। आम् पचसि देवदत्त ३। आम् भो देवदत्त ३। भो इत्यामन्त्रितान्तम् अपि, नामन्त्रिते समानाधिकरणे सामान्यवचनम् इति नाविद्यमानवद् भवति। आमः इति किम्? शाकं पचसि देवदत्त ३। एकान्तरम् इति किम्? आम् प्रपचसि देवदत्त ३। आमन्त्रितम् इति किम्? आम् पचति देवदत्तः। अनन्तिके इति किम्? आम् देवदत्त। आम एकान्तरम् आमन्त्रितं यत् तस्य एकश्रुतेरनुदात्तस्य च प्रतिषेध इष्यते। तदुभयम् अनेन क्रियते इति केचिदाहुः। प्लुतोदात्तः पुनरसिद्धत्वान् न प्रतिषिद्यते। अपरेषां दर्शनम्, अनन्तिके इत्यनेन यन् न दूरं न सन्निकृष्टं तत् परिगृह्यते, तेन अस्मिन्नेकद्श्रुतेः प्राप्तिरेव न अस्ति, प्लुतोदात्तो ऽपि नोदाहर्तव्यः इति।
न्यासः
आम एकान्तरमामन्त्रितमनन्तिके। , ८।१।५५

"एकान्तरम्()" इति। अन्तरयतीत्यन्तरम्()। व्यवधायकमित्यर्थः। एकं पदमन्तरं यस्य तत्तथोक्तम्()। एकेन निपातेन व्यवहितमित्यर्थः। "आम्? पचसि देवदत्तात्रि इति। निघाते प्रतिषिद्धे "आमन्त्रितस्य" ६।१।१९२ इति धाष्ठिकमामन्त्रिताद्युदात्तत्वं भवति। "दूराद्धूते च" ८।२।८४ इति प्लुतः। "आम भो देवदत्तात्रि" इति। भवद्भगवदघवतामोच्चावस्य" (८।३।१।वा।२) इति भवच्छब्दावयवस्यावशब्दस्यौत्त्वम्(); दकारस्य रुत्वम्(), तस्य "भोभगोअधोअपूर्वस्य" ८।३।१७ इत्यादिना यकारः, तस्य "हलि सर्वेषाम्()" ८।३।२२ इति लोपः। ननु चात्र भोःशब्दस्य "आमन्त्रितं पूर्वमविद्यमानवत्()" (८।१।७२) इत्यविद्यमानत्वादेकान्तरता नोपपद्यते? इत्यत आह--"भो इत्यामन्त्रितान्तमपि" इत्यादि। "भोः" इति सामान्यवचनम्()। अत्र "भोः" इति यद्यप्यामन्त्रितम्(), तथापि नाविद्यमानवत्(), "नामन्त्रिते" ८।१।७३ इत्यादिनाऽविद्यमानवद्भावस्य प्रतिषेधात्()। "तदुभयमप्यनेन क्रियते" [तदुभयमनेन--काशिका] इति। कथं पुनरुभयमप्यनेन कर्तुं शक्यम्(), यावतानुदात्ताधिकारादनुदात्तस्यैवानेन युज्यते प्रतिषेधः? न शक्यते कर्तुमप्रकृताया असंशब्दिताया एकश्रुतेः? नैष दोषः; "अनन्तिके" ८।१।५५ इति नञत्र विरोधे वर्तते, अधर्मानृतादिवत्()। अन्तिकविरुद्धमनन्तिकम्()। दूरमित्यर्थः। दूरात्? सम्बुद्धौ चकश्रुतिरुच्यते;"एकश्रुति दूरात्? सम्बुद्धौ" १।२।३३ इति वचनात्()। एवं हि प्रपचसि देवदत्तेत्येवमादिष्वामन्त्रितनिघातं कृतार्थं बाधित्वा यत्राम एकान्तरमामन्त्रितमनन्तिकम्(), तचैकश्रुतिरेव भवति; यदिदं नारभ्येत। अतो नाप्राप्तायामेकश्रुतौ इवमारभ्यत इति तां तावद्बाधते, ततस्तस्याञ्च बाधितायां बाधकाभावात्? प्राप्नुवत्? तं निघातमपि बाधत एव। कुतः? निघातप्रतिषेधाधिकारे वचनात्()। एकश्रुतिप्रतिषेधे हि विधित्सिते सत्येकश्रुतिप्रकरण एव (१।२।३३-४०) प्रतिषेधं कुर्यात्(), नाम एकान्तरमिति; तत्राप्ययमर्थः--"आमन्त्रितमनन्तिके" (८।१।५५) इति वक्तव्यं न भवति। तस्मान्निघातप्रतिषेधाधिकारे वचनान्निघातमपि बाधत इति युक्तम्()--तदुभयमनेन क्रियत इति। नैष दोषो यदि तह्र्रप्रकरणापन्नाशब्दिताप्येकश्रुतिरनेन प्रतिषिध्यते। इह "दूराद्धूते च" तदुभयमनेन क्रियत इति। नैष दोषो यदि तह्र्रप्रकरणापन्नाशब्दिताप्येकश्रुतिरनेन प्रतिषिध्यते। इह "दूराद्धूते च" ८।२।८४ इति यः प्लुतोदात्तः प्राप्नोति; सोऽपि प्रतिषिध्यते? इत्यत आह--"प्लृतोदात्तः पुनः" इत्यादि। तस्मिन्? कत्र्तव्येऽसिद्धत्वात्? प्लुतोदात्तो नास्त्येव, स कथं प्रतिषिध्येत!["प्रतिषिध्यते"--प्रांउ।पाठः] असिद्धत्वं तु "पूर्वत्रासिद्धम्()" ८।२।४ इति वचनात्()।