पूर्वम्: ८।१।६६
अनन्तरम्: ८।१।६८
 
सूत्रम्
पूजनात् पूजितमनुदात्तम् (काष्ठादिभ्यः)॥ ८।१।६७
काशिका-वृत्तिः
पूजनात् पूजितम् अनुदात्तं काष्ठादिभ्यः ८।१।६७

पूजनेभ्यः काष्ठादिभ्यः उत्तरपदं पूजितम् अनुदात्तं भवति। काष्ठ काष्ठाध्यापकः। काष्ठाभिरूपकः। दारुण दारुणाध्यापकः। दारुणाभिरूपकः। अमातापुत्र अमातापुत्राध्यापकः। अयुत अयुताभिरूपकः। अयुताध्यापकः। अद्भुत अद्भुताध्यापकः। अनुक्त अनुक्ताध्यापकः। भृश भृशाध्यापकः। घोर घोराध्यापकः। परम परमाध्यापकः। सु स्वध्यापकः। अति अत्यध्यापकः। मलोपश्च। इति वार्तिककारमतम्। मयूरव्यंसकादित्वात् समासः। समासे च एतदनुदात्तत्वम्। समासान्तोदात्तत्वापवाद इष्यते। दारुणम् अध्यापकः इत्येवम् आदिषु न भवति। मलोपश्च इत्यनेन अप्ययम् एव विषय आख्यायते, यत्र विभक्तेरभावात् मकारो न श्रूयते तत्र औदात्तत्वम् इति। असमासे हि मलोपो न एव इष्यते। दारुणंधीते दारुणमध्यायकः इति। पूजनातित्येव पूजितपरिग्रहे सिद्धे पूजितग्रहणम् अनन्तरपूजितप्रतिपत्त्यर्थं। एतदेव ज्ञापकम् इह प्रकरणे पञ्चमीनिर्देशे ऽपि नानन्तर्यमाश्रीयते इति। तथा च यद्वृत्तान् नित्यम् ८।१।६६ इत्यत्र उदाहृतम्। अनुदात्तम् इति वर्तमाने पुनरनुदात्तग्रहणम् प्रतिषेधनिवृत्त्यर्थम्।
न्यासः
पूजानात्पूजितमनुदात्तं काष्ठादिभ्यः। , ८।१।६७

"पूजनात्()" इति। सुपां सुपो भवन्तीति (७।१।३९।वा) बहुवचनस्य स्थान एकवचनम्(), अत एवाह--"पूजनवचनेभ्यः" इति। "उत्तरपदम्()" इति। सुबन्तं वेदितव्यम्()। ननु तिङिति वत्र्तते? सत्यमेतत्(); उत्तरत्र ८।१।६८ तिङिति वचनादिह सुबन्तस्य ग्रहणं विज्ञायते। अपि च वक्ष्यत्येतत्()--इहैव समासे चैतदनुदात्तत्वमिति। समासश्च काष्ठादीनां सुबन्तेनैव सम्भवति, न तिङन्तेनेति युक्तमिह सुबन्तस्यैव पदस्य गरहणम्()। सर्व एते काष्ठादयोऽद्भुतपर्यायाः पूजनवचना भवन्ति। अद्भुतं योऽधीते स काष्ठाध्यायक इत्युच्यते। एवं दारुणादिषु वेदितव्यम्()। इह सर्व एवैते काष्ठादयः क्रियाविशेषणभूताः समस्यन्ते, न च क्रियाविशेषणानां समासः क्वचिद्विहितः, तत्कथमत्र समासः? इत्याह--"मयूरव्यंसकादित्वात्? समासः" इति। "समासे चैतत्()" इत्यादि। चकारोऽवधारणार्थः। समास एवेत्यर्थः। कथं पुनः समास एवैतल्लभ्यते? "चादिलोपे विभाषा" ८।१।६३ इत्यतो मण्डूकप्लुतिन्यायेन विभाषाग्रहणानुवृत्तेः। सा व्यवस्थितविभाषेति विज्ञानाच्च। यद्येवम्(), कथं वार्त्तिककारेणोक्तम्()--मलोपश्चेति, काष्ठादिषु हि योऽकारान्तास्तेषां विभक्तेरम्भावे कृते मकारः सम्भवति, समासे चैतदनुदात्तत्वेन भवितव्यम्(), तत्र विभक्तेरभावान्मकारो न सम्भवतीति मलोपवचनमयुक्तं स्यात्()? इत्यत आह--"मलोपश्चेत्यनेनापि" इत्यादि। एवमस्माभिरनुदात्तत्वस्य विषय आख्यातः। मलोप श्चेत्यनेनापि स एवाख्यायते; यस्मात्? समासे मलोपो न भवति; विभक्तेर्लुप्तत्वात्()। असमासे विभक्तेरम्भावे कृते मकारस्य श्रवणमेव भवति, न तु लोपः। अथासमासे मलोपार्थमित्येतदुक्तमित्येव कस्मान्न विज्ञायते? इत्याह--"असमासे["अथासमासे"---कांउ।पाठः] हि इत्यादि। अथ पूजितग्रहणं किमर्थम्(), यावता पूजनशब्दोऽयं पूजितापेक्षत्वात्? सम्बन्धिशब्दः, तेन सम्बन्धिशब्दत्वात्? पूजितमर्थादुपस्थापयति, तन्त्रान्तरेणापि पूजितग्रहणं पूजितस्यैव परिग्रहो भविष्यति? इत्यत आह--"पूजनादेव" इत्यादि। पूजनग्रहणादेव पूजितग्रहणे लब्धे पूजितग्रहणं यत्? क्रियते तस्यैतत्? प्रयोजनम्()--विशिष्टस्याव्यवहितस्य प्रत्यासन्नस्य ग्रहणं यथा स्यादित्येवमर्थम्()। तेनोत्तरसूत्रे (८।१।६८) यत्? काष्ठं देवदत्तः पचतीत्यत्र व्यवहितस्य न भविष्यति। ननु पञ्चमीनिर्देशादेव व्यवहितस्य न भविष्यति? इत्यत आह--"एतदेव" इत्यादि। यादृशमिदं ज्ञापकं तदनुरूपम्? "यद्()वृत्तान्नित्यम्()" ८।१।६६ इत्यत्र यत्कामास्ते जुहुमः, यद्र()ङ्? वायुर्वातीत्येवमाद्युदाह्मत मित्यर्थः। एतेन ज्ञापनस्य प्रयोजनं दर्शितम्()। अथानुदात्तग्रहणं किमर्थम्(), यावता "अनुदात्तं सर्वमपादादौ" ८।१।१८ इत्यतोऽनुदात्तग्रहणमनुवर्तत ["अनुवत्र्तेत इत्याह"---कांउ।पाठः] एव? इत्याह--"अनुदात्त इति वत्र्तमाने" ["अनुदात्तमिति"--काशिका] इत्यादि। तद्ध्यनुदात्तग्रहणं "न लुट्()" ८।१।२९ इति प्रतिषेधेन सम्बद्धम्(), अतस्तदनुवृत्तौ सोऽप्यनुवत्र्तते। तथा च सति यस्यामन्त्रितादेः पूजितस्य निघातप्राप्तिरस्ति तस्यायं काष्ठादिभ्यः परस्य निघातप्रतिषेधो विज्ञायेत। तस्मात्? प्रतिषेधनिवृत्त्यर्थमन्यदिहानुदात्तग्रहणं क्रियते॥