पूर्वम्: ८।१।६
अनन्तरम्: ८।१।८
 
सूत्रम्
उपर्यध्यधसः सामीप्ये॥ ८।१।७
काशिका-वृत्तिः
उपर्यध्यधसः सामीप्ये ८।१।७

उपरि अधि अधसित्येतेषां द्वे भवतः सामीप्ये विवक्षिते। सामीप्यं प्रत्यासत्तिः कालकृता देशकृता च। उपर्युपरि दुःखम्। उपर्युपरि ग्रामम्। अध्यधि ग्रामम्। अधो ऽधो नगरम्। सामीप्ये इति किम्? उपरि चन्द्रमाः। इह कस्मान् न भवति, उपरि शिरसो घटं धारयति? औत्तराधर्यम् एव विवक्षितं न सामीप्यम् इति द्विर्वचनं न भवति।
न्यासः
उपर्यध्यधसः सामीप्ये। , ८।१।७

"सामीप्ये" इति। प्रत्यासत्तावित्यर्थः। एतच्चोपर्यादीनां विशेषणम्()। सामीप्यं देशकृतम्(), कालकृतञ्च भवति। तत्र "उपर्युपरि ग्रामम्()" इति देशकृतस्योदाहरणम्()। समीपे ग्रामस्येत्यर्थः। द्वितीयात्र "उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु" (वा।११८) इत्याद्युपसंख्यानात्()। कालकृतस्योदाहरणम्()--"उपर्युपरि दुःखम्()" इति। समीपं यद्()दुःखमचिरकालातिक्रान्तमचरकालभावि वा तदेवमुच्यते। "अथेह["अथ"--नास्ति--काशिका] कस्मान्न भवति--उपरि शिरसो घटं धारयति" इति, अस्ति ह्रत्र घटेन शिरसः प्रत्यास्त्तिः? इत्याह--"उपरि शिरसो घटम्()" इत्यादि। न हीह शास्त्रे वस्तुनः सत्तैव शब्दव्युत्पत्तेः प्रथानं कारणम्, किं तर्हि? तद्विवक्षापि, सा चेह नास्ति। औत्तराधर्यमात्रस्य विवक्षितत्वात्()। तेनेह न भवति द्विर्वचनम्()। द्वितीययाऽपि न भवितव्यम्(), नाम्रेडितत्वात्()॥
न्यासः
वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभत्र्सनेषु। , ८।१।७

आख्यातं साध्ययकारकविशेषणं वाक्यम्(), तस्यादिर्वाक्यादिः। असूयादीनपेक्षमाणस्यापि गमकत्वात्? समासः। "असूयासम्मतिकोपकुत्सनभत्र्सनेषु यदि तद्वाक्यं भवति" इति। एतेनासूयादीनां वाक्यं प्रति विशेषणभावं दर्शयति। ननु चामन्त्रितस्य विशेष्यत्वात्? प्राधान्यम्(), वाक्यस्य विशेषणत्वादप्राधान्यम्(), तत्र प्राधान्यादामन्त्रितं प्रत्येवैषां ["प्रत्येषां"--प्रांउ।पाठः] विशेषणत्वं युक्तम्()? नैतदस्ति; आमन्त्रितविशेषणत्वे हि सति तेषामसूयादिवृत्तेरेवामन्त्रितस्य द्विर्वचनं स्यात्()--असूये असूय इत्यादौ वाक्ये, माणवक माणवकेत्यादौ तु वाक्ये न स्यात्()। वाक्यविशेषणत्वं [वाक्यविशेषणत्वे--प्रांउ।पाठः] ह्रसूयादीनां सर्वत्र भवति। तस्माद्वाक्यविशेषणतैघासूयादीनां युक्त; व्याप्तेः। कदा पुनर्वाक्यमसूयादिषु भवति? यदा तस्मिन्? वाक्ये प्रयुच्यमाने असुयादयो गम्यन्ते। असहनम्? अक्षान्तिः। पूजनम्? शब्देन गुणाविष्करणम्()। "एते च प्रयोक्तृधर्माः" इति। यो वाक्यं प्रयुङक्ते तस्यैते धर्मा गुणविशेषा इत्यर्थः। प्रयोक्तृधर्मत्वं च तेषां प्रयोक्तरि वृत्तेः। "नाभिधेयधर्माः" इति। अभिधेये तेषामवृत्तेः। न हि यथा माणवकादावभिधेय आभिरूप्यादयो धर्मा वत्र्तन्ते, तथाऽसयादयः। तथा हि--"माणवका मणवक आभिरूपका अभिरूपक रिक्तं त आभिरूप्यम्()"--इत्येवं वाक्यप्रयोगे प्रयोक्तृगता एवासूयादयः प्रतयन्ते, न तु माणवकादिगताः। "रिक्तम्()" इति। असारमित्यर्थः। "शक्तिके शक्तिके" इति। कुत्सिता शक्ता। "प्रागिवात्? कः" ५।३।७०, "केऽणः" ७।४।१३ इति ह्यस्वः; टाप्(), "प्रत्ययस्थात्()" ७।३।४४ इतीत्त्वम्(), "सम्बुद्धौ च" ७।३।१०६ इत्येत्त्वम्()। "आन्नेडितस्यैव" इति। भत्र्सने यदुक्तमिहोदाहरणं तदधिकृत्यैतदुक्तम्(), न तु "आम्रेडितं भत्र्सने" ८।२।९५ इत्यनेनाम्रेडितस्यैव प्लुतः क्रियते, अपि तु पर्यायेण; "भत्र्सने पर्यायेण" (वा।९३०) इति वचनात्()। "शोभनः खल्वसि माणवक" इत्यत्रास्ति पूजनम्(), न त्वामन्त्रितं वाक्यादि। "उदारो देवदत्तः" इत्यत्रास्ति पूजनम्()। वाक्यादित्वञ्चोदारशब्दस्य, न त्वामन्त्रितत्वम्()। ननु चासूयायाः कुत्सनं कार्यम्(), भत्र्सनं कोपस्य, तत्र कुत्सनमत्संनयोद्विर्वचने कृते ततः प्रतीयमानाभ्यां कुत्सनभत्र्सनाभ्यां कोपासूययोरपि प्रतीतिर्भविष्यति; कार्यस्य कारणाव्यभिछारात्(), तस्मात्? कोपासूययोग्र्रहणं न कत्र्तव्यमेव? नैवम्(); न हि कोपासूयाप्रभवे एव कुत्सनभत्र्सने। तथा हि--पित्रादयः पुत्रादीननसयन्तोऽपि कुत्सयन्ति, अकुप्यन्तोऽपि भत्र्सयन्ते। यद्यपि तदानीं कायवाग्विकारोऽस्ति, तथापि न त्वसावसूया, नापिकोपः; तयोश्चैतसिकत्वात्()। अतः कार्यकरणभावसस्याभावात्? कुत्सनभत्र्सनप्रतीत्या कोपासूययोः प्रतीतिर्नोपपद्यते। अथ कोपासूयाप्रभवे एव विशिष्टे कुत्सनभत्र्सने, ये ते गृहीत्वा कोपासूययोरनुमानं करिष्यत इति चेत्()? न; विशेषस्यावधारयितुमशक्यत्वात्()। तथा हि--यथाऽसयन्कुत्सयति तथाऽनसूवन्नपि। यथा कुप्यन्नपि भत्र्सयते तथाऽकुप्यन्नपि। तस्मात्? कोपासूययोरपि ग्रहणं कत्र्तव्यम्()॥
बाल-मनोरमा
उपर्यध्यधसः सामीप्ये , ८।१।७

उपर्यध्यधसः। उपरि, अधि, अधः एतेषां द्वे स्तः सामीप्ये गम्ये इत्यर्थः। सामीप्यं च उपर्युपरि ग्राममित्यत्र अधोऽधो लोकमित्यत्र च देशतः, अध्यधि सुखमित्यत्र तुकालत इति ज्ञेयम्।

तत्त्व-बोधिनी
उपर्यध्यधसः सामीप्ये १५९२, ८।१।७

उपर्यध्य। सामीप्यं प्रत्यासत्तिः, तच्च कालकृतं देशकृतं वा। अध्यधि सुखमिति। कालकृतस्योदाहरणमिदम्। सामीप्य इति किम्()ष उपरि चन्द्रमाः। "उपरि शिरसो घचं धारयती"त्यत्र तु वस्तुतो विद्यमानमपि सामीप्यं न विवक्षितं, किं त्वौत्तराधर्यमेव केवलं विवक्षितमिति द्विर्वचनं नभवति। विवक्षा हि शब्दव्युत्पत्तेः प्रधानं कारणम्। अत्र च "उपज्ञोपक्रमं तदाद्यचिख्यासाया"मिति सन्नन्तप्रयोगो ज्ञापक इत्याहुः।