पूर्वम्: ८।१।७०
अनन्तरम्: ८।१।७२
 
सूत्रम्
तिङि चोदात्तवति॥ ८।१।७१
काशिका-वृत्तिः
तिङि च उदात्तवति ८।१।७१

गतिः इति वर्तते। तिङन्ते उदात्तवति परतो गतिरनुदात्तो भवति। यत् प्रपचति। यत् प्रकरोति। तिङ्ग्रहणम् उदात्तवतः परिमाणार्थम्। अन्यथा हि यं प्रति गतिः, तत्रानुदात्तो भवति इति धातौ एव उदात्तवति स्यात्, प्रत्यये न स्यात् यत् प्रकरोति इति। यत्क्रियाप्रयुक्ताः प्रादयस् तेषाम् तं प्रति गत्युपसर्गसंज्ञे भवतः इति तिङन्ते धातुम् एव प्रति गतिसंज्ञा। आमन्ते तर्हि न प्राप्नोति, प्रपचतितराम्, प्रपचतितमाम् इति? अत्र केचिदामन्तेन गतः समासं कुर्वन्ति। तेषाम् अव्ययपूर्वपदप्रकृतिस्वरत्वे सत्यक्रियमाणे ऽपि तिङ्ग्रहणे परमनुदात्तवद् भवति इति गतिनिघातो नैव सिध्यति। अथ तरबन्तस्य् गतिसमासः? एवम् अपि सतिशिष्टत्वादाम एव स्वरे सति गतेः अनुदात्तं पदम् एकवर्जम् ६।१।१५२ इत्येवानुदात्तत्वं सिद्धम्। येषां गतिकारकोपपदानां कृद्भिः समासवचनम् प्राक् सुबुत्पत्तेः इत्यनेन वचनेन कृदन्तेन एव प्राक् सुबुत्पत्तेः समासो भवति, न अन्येन, इति दर्शनम्, तेषाम् एवंविधे विषयेसमासेन न एव भवितव्यम् इति। पृथक् स्वरप्रवृत्तौ सत्यामनेन निघातेन प्रयोजनम् अस्ति। तदर्थं यत्नः कर्तव्यः। उदात्तवति इति किम्? प्रपचति। प्रकरोति।